वाचस्पत्यम्
श्वाविध् || पु० शुना आविध्यते आ—व्यध् क्विप् ६ त० । शल्यके (शजारु) अमरः । क । श्वाविधोऽप्यत्र पु० ।
शब्दकल्पद्रुमः
श्वावित् || [ध्] पुं, (श्वानं विध्यतीति । व्यध + क्किप् । “नहि वृतीति ।” ६ । ३ । ११६ । इति दीर्घः ।)
शल्यः । इत्यमरः ॥ सजारु इति भार्षा ॥ (यथा, मनुः । ५ । १८ । “श्वाविधं शल्यकं गोधां खङ्गकूर्म्मशशांस्तथा । भक्ष्यान् पञ्चनखेष्वाहुरनुष्ट्रांश्चैकतो दतः ॥”)