वाचस्पत्यम्
श्वेतकिणिही || स्त्री कर्म० । गिरिकर्णिकायां क्षुपभेदे राजनि०
शब्दकल्पद्रुमः
श्वेतकिणिही || स्त्री (श्वेता किणिही ।)
वृक्ष- तिशेषः । तत्पर्य्यायः । सिताभिकटभी २ गिरि- कर्णिका ३ शिरीषपत्री ४ कालिन्दी ५ शत- पत्रा ६ विषघ्निका ७ महाश्वेता ८ महा- शौण्डी ९ महादिकटभी १० । अस्या गुणाः । कटुत्वम् । उष्णत्वम् । गुल्मपिषाध्मानशूलदोष- नाशित्वम् । वातकफजीर्णरोगशमनत्वञ्च । श्वेता च तत्र गुणयुक्ता । इति राजनिर्घण्टः ॥ पुस्तकान्तरे सितामिकटभीस्थाने सितालि- कटभी । भहादिकटभीस्थाने महालिकटभौति च पाठः ॥