वाचस्पत्यम्
श्वेतखदिर || पु० कर्म० । शुक्ले स्वदिरभेदे ।
शब्दकल्पद्रुमः
श्वेतखदिरः || पुं, (श्वेतः खदिरः ।)
शुक्लखदिरः । तत्पर्य्यायः । कदरः २ श्वेतसारः ३ कार्मुकः ४ । कुब्जकण्टकः ५ सोमसारः ६ सोमवृक्षः ७ सोमवत्कः ८ पथिद्रुमः ९ । अस्य गुणाः । तिक्तत्वम् । कषायत्वम् । कटुत्वम् । उष्णत्वम् । कण्डूतिभूतकुष्ठकफवातर्वणनाशित्वञ्च । इति राजनिर्घण्टः ॥ पुस्तकान्तरे कार्मुकस्थाने कामुकः कुब्जकण्टकस्थाने कुष्ठकण्ठकः इति च पाटः ॥ * ॥
अन्यच्च । “खदिरः श्वेतसारोऽन्यः कदरः सोमवल्कलः । कदरो विशदोऽव्रण्यो मुखरोगकफास्रजित् ॥” इति भावप्रकाशः ॥