वाचस्पत्यम्
श्वेतरथ || पु० श्वेतो रथो यस्य । १ शुक्रग्रहे शब्दच० कर्म० । २ शुभ्रे रथे ।
शब्दकल्पद्रुमः
श्वेतरथः || पुं, (श्वेतो रथो यस्य ।) शुक्रग्रहः । इति शब्दरत्नावली ॥ शुक्लवर्णस्यन्दनश्च ॥