वाचस्पत्यम्
षट्कर्म्मन् || न० षट्प्रकारं कर्म० । १ तन्त्रोक्तेषु शान्तिवशी- करणस्तम्भनविद्वेषोच्चाटनमारणरूपेषु षट्सु प्रयोगभेदेषु तानि च कर्माणि तन्त्रसाराद्युक्तानि उच्चाटनशब्दे १०६२ पृ० दृश्यानि । तत्रत्यभूतमण्डलानि च भूतमण्ड- लशब्दे ४६८५ । ८६ पृ० दृश्यानि । २ यजनयाजना- ध्ययनाध्यापनदानप्रतिग्रहरूगेषु षट्सु विप्रकर्मसु च । षट्कर्माणि यस्य । ३ यागादियुक्ते विप्रे पु० । हठयो गाङ्गे ४षट्क्रियाभेदे यथोक्तं षेरण्डसं० १ अ० । “धौतिर्वस्तिस्तथा नेतिर्नौलिकी त्राटकस्तथा । कपाल- भातिश्चैताति षट् कर्माणि समाचरेत् । अन्तर्धौ तिर्दन्तधौतिर्हृद्धीतिर्मलशोधनम् । धौत्यश्चतुर्विधाः प्राक्ता घटं (वेह) कुर्वन्ति निर्मलम् । वातसारं वारिसारं वह्निसार बहिष्कृ म । घटस्य निर्मलार्थाय अन्तर्धौति- रुतुर्विधा” । “काकचञ्चुवदास्वेन पिबेद्वायुं शनैः शनैः । चालयेदुदरं पश्चाद्वर्त्मना रेचयेत् शनैः । वात- सारं परं गोप्यं देहनिर्मलकारकम् । सर्वरोगक्षयकरं देहानलविवर्द्धकम् । आकण्ठं पूरयेद्वारि वक्त्रेण च पिवेत् शनैः । चालयेदुदरेशैव चोदराद्रेवयेदधः । वारि- मारं परं धोतं देहनिर्भलकारकम् । साधयेद् यः प्रय- त्नेन देवदेहं प्रपद्यते । नाभिग्रन्यिं मेरुपृष्ठं शतवारञ्च कारयेव । उदरामयजं त्यक्त्वां जठराग्निं विवर्द्धयेत् । षह्निसारमिदं धौतं योगिनां योगासद्धिदम् । काकीं मुद्रां साधवित्वा पूरयेतुदरं मरुत् । धारयेदर्द्धयामस्तु चालवेदधवर्त्मना । इदं धौतं परं गोप्यं न प्रकाश्य कदाचन । नाभिमग्नजले स्यित्वा शक्तिनाडीं विसर्जयेत् । कराभ्यां क्षालयेन्नाडीं यावन्मलविसर्जवम् । तावत् प- क्षाल्य नाडीञ्च उदरे वेशयेत् पुनः । इदं प्रक्षालनं गोप्यं देवानामगि दुर्लभम् । केवलं धौतिमात्रेण देवदेहो भवेत् ध्रुवम् । यामार्द्ध धारणात् शाक्तं यावन्न साध- येन्नरः । वहिष्कृतमहाधौति तावन्नैव न जायधे । दन्तमूलं जिह्वामूलं रन्घ्रे च कर्णयुग्मयोः । कपाल- रन्धं पञ्चैते दन्तधोर्विधीयते” । “खाःदाण रसे- नाथ मृत्तिकाभिश्च शुद्धिभिः । मार्क्षयेद्दन्तमूलञ्च यावत् किल्विषमाहरेत् दन्तमूलं परं षौतिर्यो गनां योग- याधन । नित्यं कुर्य्यात् प्रभाते च दन्तरक्षाय योगवित् । दन्तमूलं धारणादिकार्य्येषु योगिनां यतः । स्पपातः सप्रवक्ष्यामि जिह्वाशोधनकारणम् । जरामरणरोमादि नाशयत् दिर्घलम्बिका । तर्जनीमध्यमानामा अङ्गुक त्रययोगतः । वशयेद्गलमध्ये तु मार्जयेल्ल म्बकामलम् । शनैः शनैर्मार्जयित्वा कफदोषं निवारयेत् । मार्जयेन्नवनी- तेन देहयेच्च पुनः पुनः । तदग्रं लौहयन्त्रेण घर्ष- यित्वा पुनः पुनः । नित्यं कुर्य्यात् प्रयत्नेन रवेरुदयके- ऽस्तके । एवं कृते तु नित्येऽवलम्बिका दार्घतां गता । तर्जन्यङ्गुल्यकाग्रेण मार्जयेत् कर्णरन्घ्रयोः । नित्यमभ्यास योगेन नादान्तरप्रकाशनम् । वृद्धाङ्गुष्ठेन दक्षेण मार्ज- येद्भालरन्घ्रकम् । एमभ्यासयोगेन कफदोषं निवारयेत् नाडी निर्मलतां याति दिव्यदृष्टिः प्रजायते । निद्रान्ते भोजनान्ते च दिवान्ते च दिने दिने । हृद्धौ तिं त्रिविधं कुर्य्यात् दण्डवज्जलवाससा । रम्भादण्डं हरिद्दण्डं वेत्र- द्दण्डन्तथैव च । हृन्मध्ये चालयित्वा तु पुनः प्रत्याहरेत् शनैः । कफपित्तं तथा क्लेदं रेचयेदूर्द्ध्ववर्त्मना । दण्डवौतिविधानेन हृद्रोगं नाशयेत् ध्रुवम्” । हरि- द्दण्डं (वटझुरि) “भोजनान्ते षिबेद्वारि आकण्ठ- पूर्णितं सुधीः । ऊर्द्ध्वदृष्टिं कण कृत्वा तज्जस्रं वमयेत् पुनः । निव्यमयासयोगोऽयं कफपित्तं निवारयेत् । चतुरङ्गलविस्तारं सूक्ष्मवस्त्रं शनैर्ग्रमेत् । पुनः प्रत्याहरेदेतत् प्रोच्यते धौतकर्मकम् । गुल्म्ज्वरप्लीह- कुष्ठं कफपित्तं विनश्यति । चारोग्यं बलपुष्टिश्च भवे- त्तस्य दिने दिने । अपानक्रूरतां तावन्मलं यावन्न शो- धयेत् । तस्मात् सर्वपयत्नेन मलशोधनमाचरत् । पीत- मूलस्य दण्डेन मध्यमाङ्गुलिनापि वा । यत्नेन क्षालयेद् गुह्यं वारिणा च पुनः पुनः । वारयेत् काष्ठकाठिन्य मामाजोर्णं निवारयेत् । कारणं कान्तिपुष्ट्योश्च दीपनं वह्निमण्डलम् । जलवस्तिः शुष्कवस्तिर्वस्ती च द्विविधौ स्मृतौ । जलवस्तिं जले कुर्य्यात् शुष्कवस्तिं क्षितौ सदा । नाभिपग्नजले पायुं न्यस्तनालोत्कटासनम् । आकुञ्चनं प्रसारञ्च जकवस्ति समाचरेत् । प्रमेहञ्च गुदा- वर्त्तं क्रूरवायुं निवारयेत् । भवेत् स्वच्छन्ददेहश्च कामदेवसगो भयेत्” । न्यस्तनालोत्कटासनम् ऊरुद्वय हस्तं दत्त्वा शारङ्गवदुदरं कुर्य्यादित्यर्थः । “वस्तिं पश्चिमतानेन चालयित्वा शनैः शनैः । अश्विनीमुदूया पायुमाकु- ञ्चेच्च प्रसारयेत । एवमभ्यासयोगेन कोष्ठदाषो न विद्यते । वर्द्धर्येत् जठराग्निञ्च आमवातं विनाशयेत् । वितस्ति- म सूक्ष्मसतं नासानारे प्रवेशयेत् । मुखन्निर्गमयेत् पश्चात् प्रोच्यते नेतिकर्मकम् । साधनान्नेतिकर्मणः खेचरीं सिद्धिमाप्नुयात् । कफदोषा विनश्यन्ति दिव्यदृष्टिश्च जायते । आमन्दवेगे तुन्दञ्च भ्रमयेदथ पार्श्वयोः । सवरागान्निहन्तीह देहानलाववर्द्धनम्” । इति नौलि की “निमेषोन्मेषक त्यक्त्वा सूक्ष्मलक्ष्यं निरीक्षयेत् । यावदश्रु निपतति त्राटक प्राव्यते युधैः । एवभम्यासयोगेन शा- म्भरी जायते ध्रुवम् । न जायते गेत्ररोगा दिव्यदृष्टि प्रदायकम् । सीत्कृत्य पीत्वा वक्त्रेण नासानालौर्वरोत्वयेत् । व्युत्क्रमेण व्युतक्रमेण सीत्क्रमेण विशेषतः । भालभाति त्रिधा कुर्य्यात् कफदोषं निवारयेत् । इडया पूरयेद्वायुं रेचेत् । पिङ्गलया पुनः । पिङ्गलया पूरयित्वा पुनश्चन्द्रेण रेचयेत् । पूरकं रचकं कृत्व वगेन न तु धारयेत् । एवमभ्यासयोगन कफदोषं निवारयेत् । नासाभ्यां जल माकृष्य वक्त्रेण रेचवेत् पुनः । पायं पाय प्रकुर्वश्चेत् श्लेष्मदाष निवारयेत् । न जायते वार्द्धकञ्च ज्वरी नैव प्रजायते” ।