संस्कृत-शब्दकोशः

षट्कर्मन् षट्कूटा

षट्कर्म्मन्

शब्दकल्पद्रुमः

षट्कर्म्म || [न्] क्ली, (षट्प्रकारं कर्म्म ।)
षट्- प्रकारशान्त्यादिकर्म्म । यथा, शारदायाम् । “अथाभिधास्ये तन्त्रेऽस्मिन् सम्यक् षट्कर्म्म- लक्षणम् । सर्व्वतन्त्रानुसारेण प्रयोगः फलसिद्धिदः ॥ शान्तिवश्यस्तम्भनानि विद्वेषोच्चाटने ततः । मारणान्तानि शंसन्ति षट्कर्म्माणि मनीषिणः ॥ रोगकृत्या ग्रहादीनां निराशः शान्तिरीरिता । वश्यं जनानां सर्व्वेषां विधेयत्वमुदीरितम् ॥ प्रवृत्तिरोधः सर्व्वेषां स्तम्भनं तदुदाहृतम् । स्निंग्धानां क्लेशजननं मिथोविद्वेषणं मतम् ॥ उच्चाटनं स्वदेशादेर्भ्रंशनं परिकीर्त्तितम् । प्राणिनां प्राणहरणं मारणं तदुदाहृतम् ॥ स्वदेवतादिक्कालादोन् ज्ञात्वा कर्म्माणि साधयेत् रतिर्वाणी रमा ज्येष्ठा दुर्गा काली यथाक्रमम् । षट्कर्म्मदेवताः प्रोक्ताः कर्म्मादौ ताः प्रपूजयेत् ॥ ईशचन्द्रेन्द्रनिरृतिवाय्वग्नीनान्दिशो मताः । सूर्य्योदयं समारभ्य घटिकादशकं क्रमात् ॥ ऋतवः स्युर्व्वसन्ताद्याः अहोरात्रं दिने दिने । वसन्तग्रीष्मवर्षाख्यशरद्धेमन्तशैशिराः ॥” यद्वा, —
“अर्द्धरात्रं शरत्कालो हेमन्तश्च प्रभातकः । पूर्व्वाह्णश्च वसन्तः स्यात् मध्याह्नो ग्रीष्म एव च ॥ प्रावृडरूपोऽपराह्णः स्यात् प्रदोषः शिशिरः स्मृतः ॥” अथवा, —
“ऊषोयोगे च हेमन्तः प्रभाते शिशिरागमः । प्रहरार्द्धे वसन्तः स्यात् ग्रीष्मो मध्यन्दिनागमे । तुर्य्ययामे च वर्षाख्यः शरदस्तं गते रवौ ॥” * ॥
अथ कालनियमः । “हेमन्तः शान्तिके प्रोक्तो वसन्तो वश्यकर्म्मणि । शिशिरं स्तम्भने प्रोक्तो विद्वेषे ग्रीष्म एव च । प्रावृडुच्चाटने ज्ञेया शरन्मारणकर्म्मणि ॥” * ॥
अथ तिथिनियमः । “ग्रञ्चमो च द्वितीया च तृतीया सप्तमी तथा । बुधेज्यबारसंयुक्ता विज्ञेया द्वेषकर्म्मणि ॥ कृष्णा चतुर्द्दशी तद्वदष्टमी मन्दवारकाः । उच्चाटने तिथिः शस्ता प्रदोषे च विशेषतः ॥ चतुर्द्दश्यष्टमी कृष्णा अमावास्या तथैव च । मन्दभौमदिनोपेता शस्ता मारणकर्म्मणि ॥ बुधचन्द्रदिनोपेता पञ्चमी दशमी तथा । पौर्णमासी तु विज्ञेया तिथिः स्तम्भनकर्म्मणि ॥ शुभग्रहोदये कुर्य्यात् शुभानि च शुभोदये । रौद्रकर्म्माणि रिक्तार्के मृत्युयोगे च मारणम् ॥ * जपेत् पूर्व्वमुखो वश्ये दक्षिणञ्चाभिचारके । पश्चिमे स्तम्मनं विद्यात् उत्तरे शान्तिकं भवेत् ॥ आकर्षणमथाग्नेये नैरृते मारणं तथा । उच्चाटनन्तु वायव्ये ऐशान्यां मोक्षदायकम् ॥ * ॥
अथाभिचारे कार्य्या च दक्षिणाप्लवना मही । वसनं लोहितं प्रोक्तं उष्णीषं लोहितं स्मृतम् ॥ भूषणं लौहद्रव्येण वामेन पूजनादिकम् । नरस्नायुविशेषेण मारणे रज्जुरीरिता मृतस्य युद्धशून्यस्य दन्तस्य गर्द्दभस्य वा । कृत्वाक्षमालां जप्तव्यं शत्रूणां वधमिच्छता ॥ भग्नेभदन्तमणिभिर्जपेदाकर्षकर्म्मणि । साध्यकेशसूत्रप्रोतस्तुरङ्गदशदनोद्भवैः । अक्षमालां समालोक्य विद्वेषोच्चाटने जपेत् ॥ * पद्माक्षं स्वस्तिकं भूयो विकटं कुक्कुटं पुनः । वज्रं भद्रकमित्याहुरासनानि मनीषिणः ॥ पद्मासनन्तु संयोज्य जानूर्वोरन्तरे करौ । निवेश्य भूमौ संस्थाप्य व्योमस्थं कुक्कुटासनम् ॥ अन्यानि वक्तव्यानि ॥ * ॥
“षण्मुद्राः क्रमतो ज्ञेयाः पद्मपाशगदाह्वयाः । मुषलाशनिखङ्गाख्याः शान्तिकादिषु कर्म्मसु ॥ जलं शान्तिविधौ शस्तं वश्ये वह्निरुदीरितः । स्तम्भने पृथिवी शस्ता विद्वेषे व्योम कोर्त्तितम् ॥ उच्चाटने स्मृतो वायुर्भूयोऽग्निर्न्मारणे स्मृतः । तत्तद्भूतोदये सम्यक् तत्तन्मण्डलसंयुतम् । तत्तत् कर्म्म विधातव्यं मन्त्रिणा निश्चितात्मना ॥ * शीतांशुसलिलक्षौणीव्योमवायुहविर्भुजाम् । वर्णः स्युर्म्मन्त्रबीजानि षट्कर्म्मसु यथाक्रमम् ॥ ग्रन्थनञ्च विदर्भश्च संपुटो रोधनं तथा । योगः पल्लव इत्येते विन्यास्याः षट्सु कर्म्मसु ॥ मन्त्रार्णान्तरितान् कुर्य्यात् साध्यवर्णान् यथा- व्रिधि । ग्रन्थतं तद्विजानीयात् प्रशस्तं शान्तिकर्म्मणि ॥ मन्त्राणद्वयमध्यस्तं साध्यानामाक्षरं लिखेत् ॥ विदर्भ एष विज्ञेयो मन्त्रिभिर्व्वश्यकर्म्मणि ॥ आदायन्ते च मन्त्रः स्यान्नाम्नासौ संपुटः स्मृतः । एष स्यात् स्तम्भने शस्त इत्युक्तो मन्त्रवेदिभिः ॥ नाम्न आद्यन्तमध्येषु मन्त्रः स्याद्रोधनं मतम् । विद्वेषणविधानेषु प्रशस्तमिदमीरितम् ॥ मन्त्रस्यान्ते भवेन्नामयोगः प्रोच्चाटने मतः । अन्ते नाम्नो भवेन्मन्त्रः पल्लवो मारणे मतः ॥ सितरक्तपोतमिश्रकृष्णधूम्राः प्रकीर्त्तिताः । वर्णतो मन्त्रसंप्रोक्ता देवताः षट्सु कर्म्मसु ॥ * ॥
मन्त्राणां लिखनद्रव्यं चन्दनं रोचनं निशा । गृहधूमचिताङ्गारौ मारणेऽष्ट विषाणि च ॥ श्येनाग्निलोलपित्तानि धुस्तूरकरसस्ततः । गृहधूमस्त्रिकटुकं विषाष्टकमितीरितम् ॥ देवताकालमुद्रादीन् सम्यक् ज्ञात्वा विचक्षणः । षट्कर्म्माणि प्रयुञ्जीत यथोक्तफलसिद्धये ॥ * ॥
उच्चाटने वषट् प्रोक्तं हूँ फडन्तश्च मारणे । स्तन्भने च नमः प्रोक्तं स्वाहा शान्तिकपौष्टिके ॥ होमतर्पणयोः स्वाहा न्यासपूजनयोर्न्नमः । मन्त्रान्ते योजयेन्मन्त्री जपकाले यथास्थिति ॥” अस्यार्थः एतानि तत्तत्कर्म्मणि जपकाले मन्त्रान्ते योजयित्वा मन्त्रं जपेत् । होमादिषु नायं नियमः । होम इति कश्चित् तन्न । “अग्निकार्य्ये जपेत् स्वाहा नमः सर्व्वत्र चार्च्चने शान्तिपुष्टिवशद्वेषाकर्षोच्चाटनमारणे ॥ स्वाहा-स्वधा-वषट्-हूञ्च वौषट् फट् योजयेत् क्रमात् । वश्याकर्षणसन्तापज्वरे स्वाहा प्रकीर्त्तिता ॥ क्रोधोपशमने शान्तौ प्रीतौ योज्यं नमो बुधैः । वौषट् सम्मोहनोद्दीपपुष्टिमृत्युञ्जयेषु च ॥ हूङ्कारं प्रीतिनाशे च मारणे च्छेदने तथा । उच्चाटने च विद्वेषे वषट् पङ्गुकृतौ वषट् । मन्त्रोद्दीपनकार्य्येषु लाभालाभे वषट् स्मृतः ॥” इति विशेषवचनाद्धोमे नायं विधिः ॥ * ॥
शान्तिकादौ मन्त्रलिखनपत्रादिनियमस्तत्र एव “शान्तिके राजतं ताम्रं भूर्ज्जपत्रञ्च वश्यके । सर्व्वकार्य्यैषु सौवर्णं क्रूरे स्यात् प्रेतकर्पटम् ॥ त्रिगन्धं शान्तिके प्रोक्तं पञ्चगन्धन्तु वश्यके । सर्व्वकार्य्येऽष्टगन्धः स्यात् क्रूरे चाष्टविषाणि च शान्तिके लेखनी दूर्व्वा वश्यादौ शिखि- पुच्छिका ॥ हेम्रा सर्व्वाणि कार्य्याणि क्रूरे स्यात् काक- पुच्छिका ॥ गृहेषु शान्तिकर्म्म स्यात् वश्यञ्च चण्डिकागृहे देवालये च सर्व्वाणि श्मशाने क्रूरकर्म्म च ॥” * ॥
अथ भूतानामुदयः । “दण्डाकारा गतिर्भूमेः पुटयोरुभयोरपि । तोयस्य पावकस्योर्द्धे गतिस्तिर्य्यक् नभस्वतः ॥ गतिर्व्योम्नो भवेन्मध्ये मूतानामुदयः स्मृतः । धरणेरुदये कुर्य्यात् स्तम्भनं वश्यमात्मवित् ॥ शान्तिकं पौष्टिकं कर्म्म तोयस्य समये वसोः । मारणादीनि मरुतो विपक्षोच्चाटनादिके । क्ष्वेडादिनाशने शस्तमुदये च विहायसः ॥” * ॥
अथ भूतानां मण्डलानि । “वृत्तंदिवस्तत् षड्बिन्दुलाञ्छितं मातरिश्वनः त्रिकोणं स्वस्तिकोपेतं वह्नेरर्द्धेन्दुसंयुतम् ॥ अम्भोजसन्भसो भूमेश्चतुरस्रं सवज्रकम् । तत्तद्भूतसमाभानि मण्डलानि विदुर्बुधाः ॥ वर्णैः स्वे रञ्जितान्याहुः स्वस्वनामावृतान्यपि । स्वयं वियत् मरुत् कृष्णो रक्तोऽग्निविषदं पयः ॥” पीडाभूतादिप्रयोगानन्तरं कुलार्णवे । “एकलक्षं जपेन्मन्त्रं ध्यानन्याससमन्वितम् । प्रयोगदोषशान्त्यर्थमात्मरक्षार्थकारणम् न चेत् फलञ्च नाप्नोति देवताशापमाप्नुयात् ॥” यत्तु । “न शस्तं मारणं कर्म्म कुर्य्याच्चेदयुतं जपेत् ।” तत् प्रायश्चित्तपरम् । इति तन्त्रसारः ॥ * ॥
योगाङ्गषट्प्रकारक्रिया । तद्यथा, —
“धौतिर्वस्तिस्तथा नेतिर्नौलिकी त्राटकस्तथा । कपालभातिश्चैतानि षटकर्म्माणि समाचरेत् ॥ अन्तधौतिर्द्दन्तर्धौतिहृ द्धौतिर्मलशोधनम् । धौत्यश्चतुर्विधाः प्रोक्ता घटं कुर्व्वन्ति निर्म्म- लम् ॥ वातसारं वारिसारं वह्रिसारं बहिष्कृतम् । घटस्य निर्म्मलार्थाय अन्तर्धौतिश्चतुर्विधा ॥” * ॥
प्रयोगः । “काकचञ्चुवदास्येन पिबेद्वायुं शनैः शनैः । चालयेदुदरं पश्चाद्वर्त्मना रेचयेत् शनैः ॥ वातसारं परं गोप्यं देहनिर्म्मलकारकम् । सर्व्वरोगक्षयकरं देहानलविवर्द्धकम् ॥ १ ॥ आकण्ठं पुरयेद्वारि वक्त्रेण च पिबेत् शनैः । चालयेदुदरेणैव चोदराद्रेचयेदधः ॥ वारिसारं परं धौतं देहनिर्म्मलकारकम् । साधयेद्यः प्रयत्नेन देवदेहं प्रपद्यते ॥ २ ॥ नाभिग्रन्थिं मेरुपृष्ठं शतवारञ्च कारयेत् । उदरामयजां त्यक्त्वा जठराग्निं विवर्द्धयेत् । वह्निसारमिदं धौतं योगिनां योगसिद्धिदम् ॥ ३ ॥ काकीमुद्रां साधयित्वा पुरयेदुदरं मरुत् । धारयेदर्द्धयामन्तु चालयेदधवर्त्मना ॥ इदं धौतं परं गोप्यं न प्रकाश्यं कदाचन । नाभिमग्नजले स्थित्वा शक्तिनाडीं विसर्ज्जयेत् ॥ कराभ्यां क्षालयेन्नाडीं यावन्मलविसर्ज्जनम् । तावत् प्रक्षाल्य नाडीञ्च उदरे वेशयेत् पुनः ॥ इदं प्रक्षालनं गोप्यं देवानामपि दुर्ल्लभम् । केवलं धौतिमात्रेण देवदेहो भवेत् ध्रुवम् ॥ यामार्द्धधारणात् शक्तिं यावन्न साधयेन्नरः । वहिष्कृतमहद्धौतिस्तावन्नैव न जायते ॥ ४ ॥ दन्तमूलं जिह्वामूलं रन्ध्रे च कर्णयुग्भयोः । कपालरन्ध्रं पञ्चैते दन्तधौतिर्विधीयते । ॥ *” ॥ प्रयोगः “खादिरेण रसेनाथ मृत्तिकाभिश्च शुद्धिभिः । मार्ज्जयेद्दन्तमूलञ्च यावत् किल्विषमाहरेत् ॥ दन्तमूलं परं धौतिर्योगिनां योगसाधने । नित्यं कुर्य्यात् प्रभाते च दन्तरक्षाय योगवित् ॥ दन्तमूलं धारणादिकार्य्येषु योगिनां यतः । १ । अथातः संप्रवक्ष्यामि जिह्वाशोधनकारणम् ॥ जरामरणरोगादि नाशयेत् दीर्घलम्बिका । तर्ज्जनी मध्यमानामा अङ्गुलित्रययोगतः ॥ वेशयेद्गलमध्ये तु मार्ज्जयेल्लम्बिकामलम् । शनैः शनैर्म्मार्ज्जयित्वा कफदोषं निवारयेत् ॥ मार्ज्जयेन्नवनीतेन दोहयेच्च पुनः पुनः । तदग्रं लोहयन्त्रेण घर्षयित्वा पुनः पुनः ॥ नित्यं कुर्य्यात् प्रयत्नेन रवेरुदयकेऽस्तके । एवं कृते तु नित्ये च लम्बिका दीर्घतां गता ॥ २ तर्ज्जन्यङ्गुल्यकाग्रेण मार्ज्जयेत् कर्णरन्ध्रयोः । नित्यमभ्यासयोगेन नादान्तरप्रकाशनम् ॥ ३ ॥ ४ ॥ वृद्धाङ्गुष्ठेन दक्षेण मार्ज्जयेद्भालरन्ध्रकम् । एवमभ्यासयोगेन कफदोषं निवारयेत् ॥ नाडीनिर्म्मलतां याति दिव्यदृष्टिः प्रजायते । निद्रान्ते भोजनान्ते च दिवान्ते च दिने दिने ॥ ५ हृद्धौतिं त्रिविधां कुर्य्यात् दण्डवज्जलवाससा । रम्भादण्डं हरिद्दण्डं वेत्रदण्डन्तथैव च ॥ हृमध्ये चालयित्वा तु पुनः प्रत्याहरेत् शनैः । कफपित्तं तथा क्लेदं रेचयेदूर्द्धवर्त्मना । दण्डधौतिविधानेन हृद्रोगं नाशयेत् ध्रुवम् ॥” हरिद्दण्डं वटझुरि ॥ १ ॥ “भोजनान्ते पिबेद्वारि आकण्ठं पूर्णितं सुधीः । ऊर्द्ध्वदृष्टिं क्षणं कृत्वा तज्जलं वमयेत् पुनः । नित्यमभ्यासयोगोऽयं कफपित्तं निवारयेत् ॥ २ चतुरङ्गुलविस्तारं सूक्ष्मवस्त्रं शनैर्ग्रसेत् । पुनः प्रत्याहरेदेतत् प्रोच्यते धौतकर्म्मकम् ॥ गुल्मज्वरप्लीहकुष्ठं कफपित्तं विनश्यति । आरोग्यं बलपुष्टिश्च भवेत्तस्य दिने दिने ॥ ३ ॥ अपानक्रूरतां तावन्मलं यावन्न शोधयेत् । तस्मात् सर्व्वप्रयत्नेन मलशोधनमाचरेत् ॥ पीतमूलस्य दण्डेन मध्यमाङ्गुलिनापि वा । यत्नेन क्षालयेद्गुह्यं वारिणा च पुनः पुनः ॥ वारयेत् कोष्ठकाठिन्यमामाजीर्णं निवारयेत् । कारणं कान्तिपुष्ट्योश्च दीपनं वह्निमण्डलम् ॥ * ॥
जलवस्तिः शुष्कवस्तिर्वस्ती च द्विविधौ स्मृतौ । जलवस्तिं जले कुर्य्यात् शुष्कवस्तिं क्षितौ सदा ॥ नाभिमग्नजले पायुं न्यस्तनालोत्कटासनम् । आकुञ्चनं प्रकाशञ्च जलवस्तिं समाचरेत् ॥ प्रमेहञ्च गुदावर्त्तं क्रूरवायुं निवारयेत् । भवेत् स्वच्छन्ददेहश्च कामदेवसमो भवेत् ॥” न्यस्तनालोत्कटासनं ऊरुद्वये हस्त दत्त्वा शारङ्गवदुदरं कुर्य्यादित्यर्थः । १ । “वस्तिं पश्चिमतानेन चालयित्वा शनैः शनैः । अश्विनीमुद्रया पायुं आकुञ्चयेत् प्रकाशयेत् ॥ एवमभ्यासयोगेन कोष्ठदोषो न विद्यते । विवर्द्धयेत् जाठराग्निं आमवातं विनाशयेत् ॥ २ वितस्तिमानं सूक्ष्मसूत्रं नाशानाले प्रवेशयेत् । मुखान्निर्ममयेत् पश्चात् प्रोच्यते नेतिकर्म्मकम् ॥ साधनान्नेतिकर्म्मापि खेचरीसिद्धिमाप्नुयात् । कफदोषा विनश्यन्ति दिव्यदृष्टिश्च जायते ॥ * ॥
अमन्दवेगे तुन्दञ्च भ्रामयेदुभपार्श्वयोः । सर्व्वरोगान्निहन्तीह देहानलविवर्द्धनम् ॥” इति नौलिकी ॥ * ॥
“निमेषोन्मेषकं त्यक्त्वा सूक्ष्मलक्ष्यं निरीक्षयेत् । यावदश्रु निपतति त्राटकं प्रोच्यते बुधैः ॥ एवमभ्यासयोगेन शाम्भवी जायते ध्रुवम् । न जायते नेत्ररोगो दिव्यदृष्टिप्रदायकम् ॥ * ॥
सीत्कृत्य पीत्वा वक्त्रेण नासानालैर्विरेचयेत् । व्युत्क्रमेण व्युत्क्रमेण सीत्क्रमेण विशेषतः ॥ भालभातिं त्रिधा कुर्य्यात् कफदोषं निवारयेत् ॥ ईडया पूरयेद्वायुं रेचयेत् पिङ्गलया पुनः । पिङ्गलया पूरयित्वा पुनश्चन्द्रेण रेचयेत् ॥ पूरकं रेचकं कृत्वा वेगेन न तु धारयेत् । एवमभ्यासयोगेन कफदोषं निवारयेत् ॥ * ॥
नासाभ्यां जलमाकृष्य वक्त्रेण रेचयेत् पुनः । पायं पायं प्रकुर्व्वंश्चेत् श्लेष्मदोषं निवारयेत् ॥ न जायते वार्द्धकञ्च ज्वरी नैव प्रजायते ॥” इति घेरण्डसंहितायां षट्कर्म्मशोधनं प्रथमो- ऽध्यायः ॥


शब्दकल्पद्रुमः

षट्कर्म्मा || [न्] पुं, (षट् कम्माणि यजनादीनि यस्य । यागादिभिर्युतो ब्राह्मणः । इत्यमरः । तथा च । “इज्याध्ययनदानानि याजनाध्यापने तथा । प्रतिग्रहश्च तैर्युक्तः षट्कर्म्मा विप्र उच्यते ॥” षट् कर्म्माण्यस्य इति बहुब्रीहिः । इति भरतः ।



Correction: