संस्कृत-शब्दकोशः

षडङ्ख षडङ्गजित्

षडङ्ग

शब्दकल्पद्रुमः

षडङ्गं || क्ली (षणां अङ्गानां समाहारः । शरी- रस्य षडवयवम् । यथा, —
“जङ्घे बाहू शिरो मध्यं षडङ्गमिदमुच्यते ॥” इति शब्दचन्द्रिका ॥ वेदाङ्गषट्शास्त्राणि । यथा, —
“शिक्षा कल्पो व्याकरणं निरुक्तं ज्योतिषं तथा छन्दश्चेति षडङ्गानि वेदानां वैदिका विदुः ॥” इति शब्दरत्नावली ॥ * ॥
अपि च । अङ्गान्याह शिक्षापद्यम् । “छन्दःपादौ तु वेदस्य हस्तौ कल्पोऽथ कथ्यते । ज्योतिषामयनं नेत्रं निरुक्तं श्रोत्रमुच्यते ॥ शिक्षाघ्राणन्तु वेदस्य मुखं व्याकरणं स्मृतम् । तस्मात् साङ्गमधीत्यैव ब्रह्ललोके महीयते ॥” इति तिथ्यादितत्त्वम् ॥ * ॥
आद्यश्राद्धीयदानाङ्गपीठादिकम् । इति लोक- प्रसिद्धम् ॥ * ॥
षट्प्रकारगव्यविशेषः । यथा, —
“गोमूत्रं गोमयं क्षीरं सर्पिर्दधि च रोचना । षडङ्गमेतन्माङ्गल्यं पवित्रं सर्व्वदा गवाम् ॥ इति स्मृतिः ॥ * ॥
हृदयादिषडवयवम् । तत्प्रमाणं न्यासशब्दे द्रष्टव्यम् ॥


शब्दकल्पद्रुमः

षडङ्गः || पुं, (षट् अङ्गानि यस्य ।)
क्षुद्रगोक्षुरकः । इति राजनिर्घण्टः ॥ (वेदः । यथा, —
“शिक्षाकल्पो व्याकरणं निरुक्तं छन्दसाञ्चयः । ज्योतिषामयनञ्चैव षडङ्गो वेद उच्यते ॥”)



Correction: