वाचस्पत्यम्
षडशीति || स्त्री षडधिका अशीतिः शाक० । (छेयाशि) १ स ङ्ख्याभदे २ तत्सङ्ख्यान्वित च । षडनीतिमुखवतसु मिथ- नकन्याधनुर्मीनेषु रवेः संक्रान्तौ च “अयनविष्णुपदी षडशीत यो विषुवविष्णुपदोषडशीतयः” इति ज्योतिषम् ।
शब्दकल्पद्रुमः
षडशीतिः || स्त्री रविसंक्रान्तिविशेषः । सा तु मिथुनकन्याधनुर्म्मीनराशिषु भवति । यथा, भविष्यमात्स्यज्योतिषेषु । “मृगकर्क्कटसंक्रान्ती द्वे तूदग्दक्षिणायने । विषुवती तुलामेषे गोलमध्ये तथापराः ॥ धनुर्म्मिथुनकन्यासु मीने च षडशीतयः । वृषवृश्चिककुम्भेषु सिंहे विष्णुपदी स्मृता ॥” इति तिथ्यादितत्त्वम् ॥ अस्याः पुण्यकालः संक्रान्तिशब्दे द्रष्टव्यः ॥ * ॥
षडधिकाशीतिसंख्या । इत्यङ्कशास्त्रम् ॥ छेयाशी इति भाषा ॥