वाचस्पत्यम्
षडशीतिचक्र || न० मिथुनकन्थाधनुर्भीनराशिस्थरवे संक्रमे शु- भाशुभफलज्ञानाथं नक्षत्राङ्गनराकारे चक्रे । यथा “मुखे चैकं करे वेदाः पादयुम्मे द्वयं द्वयम् । क्रोडे वाणस्तथा वेदाः करे सव्येतरेऽपि च । द्वयं द्वयं तथा नेत्रे मस्तके त्रितयं तथा । द्वयञ्चैव तथा गुह्ये षडशीत्यां स्वभे स्थिते । मुखे दुःखं करे लाभः पादयोर्भ्रमणं हृदि । कान्ता स्याद् बन्धनं बामे हस्ते स्यात् खोयभे नृणाम् । सम्मानो नेत्रयोश्चैव अपमानश्च मस्तके । गुह्ये चैव भवे- न्मृत्युः षडशीतिफलश्रुतिः” ज्यो० त० ।
शब्दकल्पद्रुमः
षडशीतिचक्रं || क्ली (षडशीतेश्चक्रम् ।)
मिथुन कन्याधनुर्म्मीनराशिस्थरवेः शुभाशुभफलज्ञानार्थं नक्षत्राङ्गनराकारचक्रम् । यथा, —
“मुखे चैकं करे वेदाः पादयुग्मे द्वयं द्वयम् । क्रोडे वाणस्तथा वेदाः करे सव्येतरेऽपि च ॥ द्वयं द्वयं तथा नेत्रे मस्तके त्रितयं तथा । द्वयञ्चैय तथा गुह्ये षडशीत्यां स्वभे स्थिते ॥ मुखे दुःखं करे लाभः पादयोर्भ्रमणं हृदि । कान्ता स्याद्बन्धनं वामे हस्ते स्यात् स्वीयभे नृणाम् ॥ सम्मानं नेत्रयोश्चैव अपमानञ्च मस्तके । गुह्ये चैव भवेन्मृत्युः षडशीतिफलश्रुतिः ॥” इति ज्योतिस्तत्त्वम् ॥