संस्कृत-शब्दकोशः

षडूर्मि षड्गया

षडूषण

वाचस्पत्यम्

षडूषण ||‍ न० षटसंख्यम् ऊषणम् । कटुद्रव्यभेदे “पञ्चकोलं सभ- रिचं षडूषणमुदाहृतम् । षञ्चकोलगुणं तत्त रूणमुर्ण विसापहम्” भावप्र० ।


शब्दकल्पद्रुमः

षडूषणं || क्ली (षण्णामूषणानां समाहारः ।)
मिश्रितषट्कटुद्रव्यम् । यथा —
“पिप्पली मरिचं शुण्ठी त्रयमेतद्विमिश्रितम् । त्रिकटु त्र्युषणं व्योषं कटुत्रिकमथोच्यते । ग्रन्थिकानलचव्यैस्तु चतुः पञ्च षडूषणम् ॥” इति शब्दचन्द्रिका ॥ अपि च । “पञ्चकोलं समरिचं षडूषणमुदाहृतम् । पञ्चकोलगुणं तत्तु रूक्षमुष्णं विषापहम् ॥” इति भावप्रकाशः ॥



Correction: