वाचस्पत्यम्
षड्गया || स्त्री “गयागजो गयादित्यो गायत्री च गदाधरः । गया गयासुरश्चैव षड्गया मुक्तिदायिकाः” वायु० पु० । उक्ते गयागजादि षट्के ।
शब्दकल्पद्रुमः
षड्गया || स्त्री षड्विधगया । यथा, —
“गयागजो गयादित्यो गायत्त्री च गदाधरः । गया गयासुरश्चैव षड्गया मुक्तिदायिका ॥” इति वायुपुराणे गयापद्धतिः ॥