वाचस्पत्यम्
षड्भुजा || स्त्री षट् भुजा इव यस्याः । (खरमुज) फललता- भेदे राजनि० । २षढस्तयुक्ते त्रि० । ३ रौद्रे ज्वरे पु० “श्रीमांस्त्रिपादस्त्रिशिराः षड्भुजो नवलोचनः” ब्रह्मवै० ।
शब्दकल्पद्रुमः
षड्भुजा || स्त्री (षट् भुजा इव रेखा यस्याम् ।)
फललताविशेषः । खरवुजा इति भाषा । (अस्मि- न्नर्थे क्लीवलिङ्गेऽपि दृश्यते ॥)
तत्पर्य्यायः । मधु फला २ षड्रेखा ३ वृत्तकर्कटी ४ तिक्ता ५ तिक्तफला ६ मधुपाका ७ वृत्तेर्व्वारुः ८ षण्मुखा ९ । अस्याः फलगुणाः । “तिक्तं बाल्ये तदनु मधुरं किञ्चिदम्लञ्च पाके निष्पक्वञ्चेत् तदमृतसमं तर्पणं पुष्टिदायि । वृष्यं दाहश्रमविशमनं मूत्रशुद्धं विधत्ते पित्तोन्मादापहरकफदं षड्भुजं वीर्य्यकारि ॥” इति राजनिर्घण्टः ॥ * ॥
चण्डिका । यथा । पूर्व्वदले चण्डिकां पीन- वक्षःस्थलरुहां अग्निप्रभां षड्भुजां दक्षिणे गदाभयवज्रधरां वामे शक्तिशूलपरशुधरां देवी- मिती ॥ * ॥
रुद्रचण्डा । यथा । दक्षिणदले रुद्र- चण्डां कृष्णवर्णां दिव्याभरणभूषितां प्रसन्नवदनां षड्भुजा दक्षिणे वज्रशूलपरशुधरां वामे पाशा- ङ्कुशकेशधरां देवीमिति ॥ * ॥
चण्डवती । यथा । वायुदले चण्डवतीं धूम्रवर्णां प्रसन्नवदनां सर्व्वा- लङ्कारभूषितां षड्भुजां दक्षिणे अङ्कुशपाशाक्ष- सूत्रधरां वामे दण्डशूलडमरुधरां देवीमिति ॥ इति बृहन्नन्दिकेश्वरपुराणोक्तदुर्गापूजापद्धतिः ॥