वाचस्पत्यम्
ष(श)ण्ड || पु० सन—ड डस्य नेत्त्वम् पृषो० षत्वं शत्वं वा । १ वृषे अमरः २ नपुंसके जटा० । ३ पद्मादिसमूहे पु० न० अमरः ।
शब्दकल्पद्रुमः
षण्डः || पुं, (षणु दाने + “ञमन्तात् डः ।” उणा० १ । ११३ । इति डः । बहुलवचनात् सत्वाभावः ।)
वृषभः । षाँड इति भाषा । तत्पर्य्यायः । गोपतिः २ इट्चरः ३ । इत्यमरः ॥ षण्टः ४ शण्डः ५ शण्टः ६ । इति शब्दरत्नावली ॥ क्लीवम् । इति जटाधरामरटीके ॥ समूहः । इति वृद्धाः ॥ (यथा, हरिवंशे । ३३ । ३२ । “नता निश्चलमूर्द्धानो बभूवुस्ते महोरगाः । सायाह्ने कदलीषण्डे कम्पितास्तस्य वायुना ॥”)
शब्दकल्पद्रुमः
षण्डः || पुं, क्ली, (षणु दाने + डः ।)
अब्जादिकदम्बम् । पद्मकुसुदादिसमूहः । इत्यमरः । (यथा, माघे । ११ । १५ “कलरवमुपगीते षट् पदौघेन धत्तः कुमुदकमलषण्डे तुल्यरूपामवस्थाम् ॥” चिह्नम् । यथा, भागवते । ४ । १९ । २३ । “यानि रूपाणि जगृहे इन्द्रो हयजिहीर्षया । नगते पापस्य षण्डानि लिङ्गं षण्डमिहोच्यते ॥”)