संस्कृत-शब्दकोशः

षल षष्टि

षष्

वाचस्पत्यम्

षष् ||‍ त्रि० ब० व० । षो—क्विप् पृषो । (छय) सङ्ख्याभेदे व्या- करणोक्ते १डतिप्रत्ययान्तकत्यादौ षान्ते नान्ते सङ्ख्या- वाचके च २ शब्दे च “ष्णान्ताः षट्” “डति च” पा० । “षज्भ्यो लुक्” पा० “न षटस्वास्रदिभ्यः” पा० स्तियां न ङीप् । “षट्संज्ञका स्त्रिषु समायुष्मदस्मत्तिङव्ययम्” अमरः । त्रिष्वित्यधिका- रेण त्रिषु समा इति सिद्धे पुनः कथनं त्रिषु समान- रूपताप्रतिपादनार्थम् । तथा हि वैयाकरणमते तिङः पथमान्तसामानाधिकरण्यनियमात् विशेष्यविशेषणयाः समानलिङ्गत्वे प्राप्ते ततः स्त्रियां टाबादिप्रसक्तौ तन्नि- धेधः तेन स्त्री पचति इत्यादौ इकान्तरत्वात् न ङीप् । स्त्रियः अपचन् इत्यादौ च न ङीप् । स्त्री अपचत इत्यादौ न टाप् । कुलं पचते इत्यादौ क्लोवत्वेन न ह्रस्वः । अव्ययस्य लिङ्गशून्यत्वेऽपि ह्रस्व टाबादिशून्य त्वार्थं त्रिषु समानरूपोक्तिः । तेन हाशब्दस्य निन्दनी- यपरत्वे हा पापमित्यादौ न ह्रस्वः । कष्टसाध्यपरत्वे अहह संसारपारगतिरित्यादौ न टाप् इति बोध्यम् इत्यन्तस्य कति स्त्रियः इत्यादौ न ङीप् ।


शब्दकल्पद्रुमः

षट् || [ष] त्रि, संख्याविशेषः । छय इति भाषा । तद्वाचकानि यथा, । वज्रकोणः १ त्रिशिरो- नेत्रम् २ तर्कः ३ अङ्गम् ४ दर्शनम् ५ चक्र- वर्त्ती ६ कार्त्तिकेयमुखम् ७ गुणः ८ रसः ९ ऋतुः १० ज्वरबाहुः ११ रूपम् १२ । इति कविकल्पलता ॥



Correction: