वाचस्पत्यम्
षष्टि || स्त्री षड्गुणिता दशतिः नि० । (षाट्) १ सङ्ख्याभेदे २ तत्सङ्ख्यान्विते च ।
शब्दकल्पद्रुमः
षष्टिः || स्त्री (षड् दशतः परिमाणमस्य । “पङ्क्ति- विंशतित्रिंशदिति ।” ५ । १ । ५९ । इति निपा- तनात् साधुः ।)
संख्याविशेषः । षाट इति भाषा । इति ज्योतिषम् ॥ (यथा, मनुः । ३ । १७७ । “वीक्ष्यान्धो नवतेः काणः षष्टेः श्वित्री शतस्य तु । पापरोगी सहस्रस्य दातुर्नाशयते फलम् ॥”)