वाचस्पत्यम्
षष्टिसंवत्सर || पु० ब० व० षष्टिगुणिता संवत्सराः । ज्यतिष- प्रसिद्धेषु १ प्रभवादिषु षष्टौ वत्सरेषु । प्रभवादिशब्दे ४७३ । ४७४ पृ० तदानयनं दृश्यम् । २ नारायणादिकेषु षष्टिवर्षेषु गुरुवर्षशब्दे २६२२ पृ० दृश्यम् । षष्ट्य- व्दादयोऽप्यत्र ।