संस्कृत-शब्दकोशः

षष्टिसंवत्सर षष्टिहायन

षष्टिसंवत्सरा

शब्दकल्पद्रुमः

षष्टिसंवत्सराः || पुं, (षष्टिगुणिताः संवत्सराः ।)
प्रभवादिषष्टिसंख्यकवर्षम् । यथा, — अथ षष्टिसंवत्सरगणना । “शाकेन्द्रकालः पृथगाकृतिघ्नः २२ शशाङ्कनन्दाश्वियुगैः ४२९१ समेतः । शराद्रिवस्विन्दु १८७५ हृतः सलब्धः षष्ट्यावशिष्टाः प्रभवादयोऽब्दाः ॥ वर्षवर्ज्जन्तुयच्छेषं सूर्य्यैः संपूर्य्य खोर्म्मिभिः ६० । हृतव्युत्क्रमतः खाग्निहृतेऽंशे मासकादयः ॥” अस्यार्थः । शाकेन्द्रकालः शकराजाब्दकालः पृथक् द्विष्ठः तत्रैव आकृतिघ्नः २२ द्वाविंशत्या पूरितः शशाङ्कनन्दाश्वियुगैरेकनवत्यधिकशत- द्वयाधिकचतुःसहस्रैः समेतोऽङ्कः । शराद्रिव- स्विन्दुहृतः पञ्चसप्तत्यधिकाष्टादशशतैर्यावत्सख्यं हर्त्तुं शक्नोति तावता हृतः कर्त्तव्यः । सलब्धः पूर्व्वशकाब्दः शरेत्यादिना लब्धसंख्यया युतः कार्य्यः षष्ट्याप्तशेषे पश्चादेषोऽङ्कः पूर्ववत् षष्ट्या हृते लब्धस्यावशिष्टे प्रभवादयः । एकावशेषे प्रभवः द्व्याद्यवशिष्टे विभवादिः । वर्षवर्ज्जन्तु यच्छेषं वर्षातिरिक्तं शराद्रिवस्विन्दुहृता- वशिष्टं तत् सूर्य्यैर्द्वादशभिः संपूर्य्य खो- र्म्मिभिः षष्ट्या हृते व्युत्क्रमत इत्यनेन पष्टि- हृतावशिष्टाः अङ्का दण्डाः षष्टिहृतलब्धांशके खाग्निहृते त्रिंशता हृते अवशिष्टा अंशका लब्धा मासाः स्युरिति ॥ * ॥
प्रभवादिषष्टिवर्षा- ण्युपक्रम्य । “आद्या तु विंशतिर्ब्राह्मी द्वितीया वैष्णवी स्मृता । तृतीया रुद्रदैवत्या श्रेष्ठा मध्याधमा भवेत् ॥” भविष्यपुराणे । भरव उवाच । “षष्ट्यब्दं कथयाम्यत्र क्रूराः सौम्याश्च ये प्रिये । संवत्सरफलं मुख्यं प्रभवादौ वरानने ॥ बहुतोयास्तथा मेघाः सर्वशस्या च मेदिनी । बहुक्षीरास्तथा गावो व्याधिरोगविवर्ज्जिताः । प्रशान्ताः पार्थिवाश्चैव प्रभवे परिकीर्त्तिताः ॥ १ सुभिक्षं क्षेममारोग्यं सर्वे व्याधिविवर्ज्जिताः । प्रशान्ता मानवाः सर्वे बहुशस्या वसुन्धरा । हृष्टास्तुष्टा जनाः सर्वे विभवे च वरानने ॥ २ ॥ रोगा बहुविधाश्चैव मनुष्या वाजिकुञ्जराः । सर्व एव प्रणश्यन्ति शुक्रे वर्षे वरानने ॥ ३ ॥ उन्मत्तञ्च जगत् सर्वं धनधान्यसमाकुलम् । नित्योत्सवः प्रजावृद्धिः प्रमोदे जायते प्रिये ॥ ४ नीरोगाश्च निरावाधा मानवा विगतद्विषः । बहुक्षीरास्तथा गावः प्राजापत्ये वरानने ॥ ५ ॥ निरातङ्कं जगत् सर्व्वं धनयौवनगर्व्वितम् । अङ्गिरसि प्रजा सर्वा नित्योत्साहा वरानने । ॥ ६ ॥ सुभिज्ञं क्षेममारोग्यं वर्षाकालं सुशोभनम् । शस्यवृद्धिं विजानीयात् श्रीमुखे सुरवन्दिते ॥ ७ बहुक्षीरास्तथा गावो धान्यञ्च बलवत्तरम् । जायन्ते सर्व्वशस्यानि भावे वर्षे वरानने ॥ ८ ॥ महार्घं जायते सर्वं घृततैलरसादिकम् । प्रजानाञ्च भवेद्वृद्धिर्यूनि संवत्सरे शुभे ॥ ९ ॥ निष्पत्तिः सर्वशस्यानां मध्या धातरि कीर्त्तिता इक्षुक्षीरगुडादीनां प्रबलत्वं वरानने ॥ १० ॥ सुभिक्षं क्षेममारोग्यं कार्पासस्य महार्घता । लवणं मधु गव्यञ्च ईश्वरे दुर्ल्लभं प्रिये ॥ ११ ॥ सुभिक्षं क्षेममारोग्यं प्रशान्ताः पार्थिवाः प्रिये । तस्करोपहतं वित्तं बहुधान्ये वरानने ॥ १२ ॥ राष्ट्रभङ्गश्च दुर्भिक्षं तस्करैश्चोपपीडनम् । जानीयाद्विग्रहं घोरं प्रमाथिनि वरानने ॥ १३ ॥ जायन्ते सर्वशस्यानि मेदिनी निरुपद्रवा । लवणं मधु गव्यञ्च महार्घं विक्रमे प्रिये ॥ १४ ॥ कोद्रवाः शालिमुद्गाश्च शक्तुमाषास्तथैव च । महार्घं जायते सर्वं वृषे च सुरवन्दिते ॥ १५ ॥ चणका मुद्गभाषाश्च अन्यच्च विदलं प्रिये ॥ महार्घं जायते सर्व्वं चित्रभानौ वरानने ॥ १६ ॥ सुभिक्षं क्षेममारोग्यं विश्वञ्च निरुपद्रवम् । व्यवहारो भवेत् श्रेयान् स्वर्भानौ देवपूजिते ॥ १७ अतिवृष्टिश्च जायेत धान्यस्याथ प्रपीडनम् । शस्यं भवति सामान्यं दारुणे देववन्दिते ॥ १८ ॥ बहुशस्यानि जायन्ते सर्व्वदेशे सुलोचने । सौराष्ट्रे नाटदेशे च पार्थिवे नात्र संशयः ॥ १९ ॥ दुर्भिक्षं जायते घोरं सर्व्वोपद्रवसंयुतम् । अनावृष्टिः समाख्याता व्यये संवत्सरे प्रिये ॥ २० ॥ उद्यतो वर्षणे मेघो जलं नैवोपयच्छति । महार्घं सर्व्वजिद्वर्षे सर्व्वमेव वरानने ॥ २१ ॥ कोद्रवाः शालिमुग्दाश्च कङ्गुमाषास्तथैव च । सुलभं जायते सुस्थं जगद्वै सर्व्वधारिणि ॥ २२ ॥ अनग्निप्रबला लोका धान्योषधिप्रपीडनम् । जायते मानुषे कष्टं विरोधिनि न संशयः ॥ २३ ॥ सर्व्वाः प्रजाः प्रपीड्यन्ते व्याधिः शोकश्च जायते शिरोवक्षोऽक्षिरोगाश्च पापाद्धि विकृते जनाः ॥ २४ ॥ उपद्रुतं जगत् सर्व्वं तस्करैर्मूषिकैः खगैः । पीडिताश्च प्रजाः सर्व्वाः देशभङ्गः खरे प्रिये ॥ २५ सुभिक्षं क्षेममारोग्यं शस्यं भवति शोभनम् । बहुक्षीरास्तथा गावो नन्दनं नन्दने प्रिये ॥ २६ ॥ अल्पतोयास्तथा मेघा वर्षन्ति खण्डमण्डले । नश्यन्ति सर्व्वशस्यानि विजये नात्र संशयः ॥ २७ ॥ क्षत्त्रियाश्च तथा वैश्याः शूद्राश्च नटनर्त्तकाः । पीडितास्ते वरारोहे जये सर्व्वे न संशयः ॥ २८ ॥ सरोगञ्च तथा देवि दाहज्वरसमन्वितम् । अभिभूतं जगत् सर्वं मन्मथे सुरवन्दिते ॥ २९ ॥ तुषधान्यक्षयो देवि सर्व्वशस्यमहार्घता । व्यवहाराश्च नश्यन्ति दुर्म्मुखे दुर्म्मुखाः प्रजाः ॥ ३० पीड्यन्ते सर्व्वशस्यानि देशे देशे शुचिस्मिते । हेमलम्बेप्रजाः सर्व्वाः क्षीयन्ते नात्र सशयः ॥ ३१ तस्करैः पार्थिवैश्चैव अभिभूतमिदं जगत् । अर्थो भवति सामान्यो विलम्बे तु भयं महत् ॥ ३२ विषमस्थं जगत् सर्व्वं विरोधे भवसंप्लवम् । विकारी सर्व्वतोऽपायो मम वाक्यन्तु नान्यथा ३३ क्वचिद्वर्षति पज्जन्यो देशे संछिन्नमण्डलः । दुर्भिक्षं सर्व्वरीवर्षे व्यवहारो विपर्य्ययः ॥ ३४ ॥ दुर्भिक्षं जायते सर्व्वा मेदिनी दुष्यति प्रिये । प्लेवे पवन्ति तोयानि मानवा दु खिता भुवि ॥ ३५ सुवर्णरूप्यधान्यानि जगत् सर्व्वं सुशोभनम् । ब्राह्मणा बणिजस्तुष्टाः सुभिक्षे शुभकृत् प्रिये ॥ ३६ सुभिक्षं क्षेममारोग्यं तृप्ता गोब्राह्मणाः प्रिये । सुस्थिताः शोभने वर्षे प्रजाः सर्व्वाः सुलोचने ॥ ३७ विषमस्थं जगत् सर्व्वं व्याकुलं समुदाहृतम् । जनानां जायते भद्रे क्रोधे क्रोधः परस्परम् ॥ ३८ सर्व्वत्र जायते क्षेमं सर्व्वशस्यमहार्घता । विश्वावसौ वरारोहे कार्पासस्य महार्घता ॥ ३९ ॥ पार्थिवैर्नृपसैन्यैश्च समस्तैः खण्डमण्डले । प्रपीड्यन्ते जनाः सर्व्वे भयभीताः पराभवे ॥ ४० ॥ तृणधान्यानि पीड्यन्ते ग्रीष्मे वर्षति वासवः । प्लवङ्ग पीडिताः सर्व्वाः प्रजाश्च सुरवन्दिते ॥ ४१ ॥ जायन्ते सर्व्वशस्यानि सुभिक्षं निरुपद्रवम् । सौम्यदृष्टिर्भवेद्राजा कालिके च शुभं वदेत् ॥ ४२ मुभिक्षं क्षेममारोग्यं सुखञ्च निरुपद्रवम् । सौम्यदृष्टिभवेद्राजा सौम्ये सौख्यं प्रकीर्त्तितम् ॥ ४३ तायपूर्णो भवेन्मेघो वर्वते च दिने दिने । निरुपद्रवाश्च राजानः सर्व्वसाधारणे प्रिये ॥ ४४ वासवो वर्षते देवि देशे चाखण्डमण्डले । अहिछत्रे कान्यकुब्जे विरोधि कृषिनाशकृत् ॥ ४५ अभिभूतं जगत् सर्व्वं क्लेशैर्बहुविधैः प्रिये । मारुतैः फलदाहैश्च परिवारिणि शोभने ॥ ४६ ॥ निष्पत्तिः सर्वशस्यानां सुभिक्षं भवति प्रिये । प्रमाथिनि जलोद्गारी जलदो मोदते प्रजा ॥ ४७ । निष्पत्तिः सर्व्वशस्यानां सर्व्वशस्यामहार्घता । घृतं तैलसमं याति आनन्दे नन्दति प्रजा ॥ ४८ ॥ कोद्रवाः शालिमुद्गाश्च पीड्यन्ते वरवर्निनि । सर्व्वौषधानि धान्यानि राक्षसे निष्ठुराः प्रजाः ॥ ४९ ॥ दुर्भिक्षं जायते घोरं धान्यौषधिप्रपीडनम् । अनले च समाख्यातं नात्र कार्य्या विचारणा ॥ ५० देशभङ्गः सुदुर्भिक्षं समासात् कथयाम्यहम् । पिङ्गले चारुपद्माक्षि दुर्भिक्षं नर्म्मदातटे ॥ ५१ ॥ गोमहिष्यो विनश्यन्ति ये चान्ये नटनर्त्तकाः । वासवो वर्षते देवि शस्यञ्च नहि जायते ॥ तिलसर्षपमाषादिकार्पासानां महार्घता । गोमहिष्यः सुवर्णानि कांस्यताम्राद्यशेषतः ॥ तत्सर्व्वं देवि विक्रीय कर्त्तव्यो धान्यसञ्चयः । तेन धान्येन लोकोऽयं निस्तरिष्यति दुर्दिनम् । पार्थिवांमोषकादीनाः कालयुक्ते प्रपीडिताः ॥ ५२ तोयपूर्णाः स्मृता मेघा बहुशस्या च मेदिनी । निष्ठुराः प्रार्थिवा देवि सिद्धार्थे च वरानने ॥ ५३ अल्पतोया घनाश्चैव कीटकाः प्रबलाः स्मृताः । विरुद्धाः प्रार्थिवा देवि रौद्रे संवत्सरे प्रिये ॥ ५४ दुर्भिक्षं मध्यमं प्रोक्तं व्यवहारो न वचते । भवेद्वै मध्यमा वृष्टिर्दुर्म्मतौ समुपस्थिते ॥ ५५ ॥ दुर्भिक्षं जायते लोकाः सर्व्वे द्रविणवर्ज्जिताः । प्राणिनां जायतेऽहर्षो दुन्दुभौ बरवर्णिनि ॥ ५६ ॥ महिषीगोहिरण्यादिताम्रकांस्याद्यशेषतः । तत् सर्वं देवि विक्रीय कर्त्तव्यो धान्यसञ्चयः ॥ रक्ते संवत्सरे देवि क्रूरबुद्धिर्नराधिपः । मानवाः क्रूरचेष्टाश्च सग्रामे रुधिरंभवेत् ॥ ५७ ॥ दुर्भिक्षं मरणं घोरं धान्यौषधिप्रपीडनम् । पापरोगो भवेद्देवि रक्ताख्येऽमरवन्दिनि ॥ ५८ ॥ रोगो मरणदुर्भिक्षं विरोधो बहुसङ्कुलम् । क्रोधे तु विषमं सर्व्वं समाख्यातं हरप्रिये ॥ ५९ मेदिनी लभते देवि सर्व्वभूतं चराचरम् । देशभङ्गश्च दुर्भिक्षं क्षये संक्षीयते प्रजा ॥ सौराष्ट्रे मालवे देशे दक्षिणे कोङ्कणे तथा । दर्भिक्षं जायते घोरं क्षये संवत्सरे प्रिये ॥ कौमुदीनर्म्मदाद्याश्च यमुनानर्म्मदातटम् । विन्ध्यायां सैन्धवञ्चापि विनश्यति न संशयः ॥ सिंहलं मध्यदेशञ्च कालञ्जरं तथैव च । क्षये क्षयन्ति सर्व्वाणि नान्यथा वरवर्णिनि ॥” ६० इति ज्योतिस्तत्त्वम् ॥



Correction: