संस्कृत-शब्दकोशः

षष्टिसंवत्सरा षष्ठ

षष्टिहायन

वाचस्पत्यम्

षष्टिहायन ||‍ पु० षष्टिर्हायना वयोऽस्य । १ षष्टिवर्षवयस्के गजे षष्टिदिनपच्योहायनो व्रीहिः शाक० । २ षष्टिकधाम्ये च मेदि० ।


शब्दकल्पद्रुमः

षष्टिहायनः || पुं, (षष्टिर्हायना आयुःकालो यस्य ।)
गजः । धान्यविशेषः । इति मेदिनी राज- निर्घण्टश्च ॥ षष्टिसख्यकवत्सरः । तत्संख्यवयो- युते, त्रि, ॥ (यथा, महाभारते । १ । १५४ । ४४ । “वभञ्जतुस्तदा वृक्षाँल्लताश्चाकर्षतुस्तदा । मत्ताविव च संरब्धौ वारुणौ षष्ठिहायनौ ॥”)



Correction: