संस्कृत-शब्दकोशः

मध्वृच् मनःकान्त

मन

मन ज्ञाने


गणः- दिवादिः
कर्मकः-सकर्मकः
इट्-अनिट्
पदम्-आत्मनेपदम्
कर्तरि लटि- मन्यते

अर्थ−
१. जान्नु, बुझ्नु,
२. मान्य गर्नु, स्वीकार गर्नु,
३. विचार गर्नु,
४. मान्नु ।
अनु-
१. अनुमोदन गर्नु,
२. अनुमान गर्नु ।
अभि-
१. अभिमान गर्नु,
२. इच्छा गर्नु, चाहनु ।
अव-
१. अपमान गर्नु, भर्त्सना गर्नु ।
सम्-
१. अनुमोदन गर्नु, कबुल गर्नु ।

कृदन्तरूपमाला

  • 1“मन ज्ञाने” 2 ‘स्तम्भे मानयते, ज्ञाने मन्यते मनुते पदम्।।
  • पूजायाम् मानयेन्मानेत्, यौ मीमांसेत तङ्सनोः।’ 3 इति देवः।
  • मानकः-निका, मानकः-निका, 4 मिमंसकः-सिका, 5 मम्मनकः-मंमनकः-निका;
  • मन्ता-त्री, मानयिता-त्री, मिमंसिता-त्री, मम्मनिता-मंमनिता-त्री;
  • -- मानयन्-न्ती, मानयिष्यन्-न्ती-ती;
  • -- -- 6 मन्यमानः, मानयमानः, मिमंसमानः, मंमन्यमानः;
  • मंस्यमानः, मानयिष्यमाणः, मिमंसिष्यमाणः, मंमनिष्यमाणः;
  • 7 सुमत्-सुमतौ-सुमतः, हरिमत्;
  • -- -- मतम्- 8 राज्ञां मतः-मतवान्, मानितः, मिमंसितः, मंमनितः-तवान्;
  • मनः, 9 दर्शनीयमानी 10, 11 पण्डितम्मन्यः 12 -पण्डितमानी, 13 14 शूरमानी, 15 कालिम्मन्या, 16 दिवामन्या-दोषामन्यम्, 17 गाम्मन्यः, 18 स्त्रियम्मन्यः-स्त्रींम्मन्यः, 19 नरम्मन्यः, 20 भुवम्मन्यः, 21 इत्येव न्याय्यम् इति ‘इच एकाचः--’ 22 इति सूत्रभाष्यवाक्यम् ‘तस्मात् श्रिमन्य- मित्येव भवितव्यम्।’ इत्याकारकमवलम्ब्य सिद्धान्तकौमुद्यामुक्तम्।
  • प्रकृतसूत्रे उद्द्योते नागेशभट्टैस्तु उपात्तभाष्यवाक्यस्य एकदेश्युक्तित्वं प्रसाध्य, श्रियम्मन्यम् इत्येव प्रामाणिकं रूपमिति स्थापितम्।
  • भट्टिकाव्येऽपि 23 श्रियम्मन्यपदस्य प्रयुक्तत्वात् नागेशपक्ष एव ज्यायानिति भाति। श्रिमन्यं 24, 25 उपकुम्भम्मन्यः, 26 श्रियम्मन्या, श्रीमन्मन्यः, रजनिम्मन्यः, 27 साधुम्मन्यः, 28 पटुमानिनी, 29 मेनका, मानः, मिमंसुः, मम्मनः;
  • मन्तव्यम्, मानयितव्यम्, मिमंसितव्यम्, मम्मनितव्यम्;
  • मननीयम्, माननीयम्, मिमंसनीयम्, मम्मननीयम्;
  • मान्यम्, मान्यम्, मिमंस्यम्, मम्मन्यम्;
  • ईषन्मनः-दुर्मनः-सुमनः;
  • -- -- मन्यमानः, मान्यमानः, मिमंस्यमानः, मम्मन्यमानः;
  • मानः, मानः, मिमंसः, मम्मनः;
  • मन्तुम्, मानयितुम्, मिमंसितुम्, मम्मनितुम्;
  • 30 मन्या, 31 सुमत्, मतिः, 32 मन्तिः, अनुमतिः, मानना, मिमंसा, मम्मना;
  • मननम्, माननम्, मिमंसनम्, मम्मननम्;
  • मत्वा;
  • मानयित्वा, मिमंसित्वा, मम्मनित्वा;
  • अनुमत्य, अनुमान्य, अनुमिमंस्य, अनुमम्मन्य;
  • 33 मानम् २, मत्वा २, मानम् २, मानयित्वा २, मिमंसम् २, मिमंसित्वा २, मम्मनम् २;
  • मम्मनित्वा २;
  • 34 मुनिः, 35 मनुः-मनुष्यः-मनुषी, 36 मन्तुः, 37 मन्युः, 38 मन्त्रः, 39 मठरः, 40 मांसम्, 41 मधु, 42 मनः।

प्रासङ्गिक्यः

  • ↑ (१२१७)
  • ↑ (४-दिवादिः-११७६। सक। अनि। आत्म।)
  • ↑ (श्लो। १२५-१२६)
  • ↑ १। सन्नन्तात् ण्वुलि, द्विर्वचनादिकेषु कृतेषु ‘नश्चापदान्तस्य झलि’ (८-३-२४) इत्यनेन धातुनकारस्यानुस्वारे रूपमेवम्। एवमेव सन्नन्ते सर्वत्र प्रक्रिया ज्ञेया।
  • ↑ २। यङन्ते सर्वत्र द्विर्वंचनादिकेषु कृतेषु, अभ्यासे, ‘नुगतोऽनुनासिकान्तस्य’ (७-४-८५) इति नुगागमः, तस्य च पदान्तवद्भाववचनात् परसवर्णविकल्पः। तेन रूपद्वयम्।
  • ↑ ३। शतरि, दिवादित्वात् शपोऽपवादः श्यन्प्रत्ययोऽत्रेति ज्ञेयम्।
  • ↑ ४। क्विपि, ‘अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति’ (६-४-३७) इत्यनुनासिकलोपः। ‘ह्रस्वस्य पिति कृति--’ (६-१-७१) इति तुक्।
  • ↑ ५। अनुदात्तोपदेशत्वादस्य धातोर्निष्ठायामनुनासिकलोपे, रूपाण्यूह्यानि। राज्ञां मतः इत्यत्र ‘मतिबुद्धिपूजार्थेभ्यः--’ (३-२-१८८) इति बुद्ध्यर्थकत्वादस्य वर्तमाने कर्तरि क्तः। ‘क्तस्य च वर्तमाने’ (२-३-६७) इति कर्तरि षष्ठी।
  • ↑ ६। दर्शनीयां मन्यते इत्यर्थे कर्मण्युपपदे ‘मनः’ (३-२-८२) इत्यनेनात्र णिनिः। ‘भार्यायाः’ इत्यत्र कर्मणि षष्ठी। भार्याशब्दसापेक्षस्यापि दर्शनीयशब्दस्य गमकत्वात् समासः। ‘क्यङ्मानिनोश्च’ (६-३-३६) इत्यनेन मानिन्शब्द उत्तरपदे दर्शनीयाशब्दस्य पुंवद्भावः।
  • ↑ [भार्यायाः]
  • ↑ ७। पण्डितमात्मानं मन्यते इत्यर्थे, ‘आत्ममाने खश् च’ (३-२-८३) इति पाक्षिकः खश्। पक्षे णिनिः। खशः शित्त्वात् विकरणप्रत्ययः श्यन्प्रवृत्तः। ‘अरुर्द्विषद- जन्तस्य--’ (६-३-६७) इति पूर्वपदस्य मुम्।
  • ↑ आ। ‘अखण्ड्यमानं परिखण्ड्य शक्रं त्वं पण्डितंमन्यमुदीर्णदण्डः।’ भ। का। १२। १७।
  • ↑ [पृष्ठम्०९९९+ ३५]
  • ↑ आ। ‘राममुच्चैरुपालब्ध शूरमानी कपिप्रभुः। व्रणवेदनया ग्लायन् साधुम्मन्यमसाधुवत्।।’ भ। का। ६। १२८।
  • ↑ १। कालीमात्मानं मन्यते इत्यर्थे खश्प्रत्यये, श्यनि च कृते, ‘स्त्रियाः पुंवत्--’ (६-३-३४) इति प्राप्तं पुंवद्भावं परत्वाद् बाधित्वा, ‘खित्यनव्ययस्य’ (६-३-६६) इति ह्रस्वः। तेन कालिम्मन्या इति सिद्ध्यति।
  • ↑ २। ‘दिवा’ इत्यधिकरणशक्तिप्रधानमव्ययम्। एवम्भूतस्याप्यस्य वृत्तिविषये कर्मत्वं बोध्यम्। तेन दिवा मन्यते इत्यर्थेऽत्र खशि, अव्ययत्वादुपपदस्य मुम्, ह्रस्वश्च नेति ज्ञेयम्। एवमेव दोषामत्त्यम् इत्यत्रापि ज्ञेयम्।
  • ↑ ३। अत्रापि पूर्ववत् गाम् आत्मानं मन्यते इत्यर्थे खशि, ‘इच एकाचोऽम्प्रत्ययवच्च’ (६-३-६८) इत्यनेन खिदन्ते परे एकाचः पूर्वपदस्य ‘गो’ इत्यस्य अम् इत्यागमो भवति, स च ‘--प्रत्ययवच्च’ (६-३-६८) इति वचनात् स्वादिप्रत्ययवद् भवति। तेन ‘औतोऽम्शसोः’ (६-१-९३) इत्यनेन प्रत्ययाश्रित आकारोऽत्र भवति। तेन गाम्मन्यः इति रूपं सिद्ध्यति।
  • ↑ ४। स्त्रियमात्मानं मन्यते इत्यर्थे खशि, पूर्ववत् ‘इच एकाचः--’ (६-३-६८) इति अमागमे, ‘वाऽम्शसोः’ (६-४-८०) इति विकल्पेन इयङ्। इयङ्पक्षे स्त्रियम्मन्यः, इति रूपम्। इयङभावपक्षे ‘अमि पूर्वः’ (६-१-१०७) इति पूर्वरूपे स्त्रीम्मन्यः इति रूपम्।
  • ↑ ५। नरं आत्मानं मन्यते इत्यर्थे खशि, अमागमे, ‘ऋतो ङिसर्वनामस्थानयोः’ (७-३-११०) इति गुणे नरम्मन्यः इति रूपम्। अत्र ‘--प्रत्ययवच्च’ (६-३-६८) इति वचनात् मुमपवादतया प्रवृत्तस्यामः प्रत्ययत्वम्। प्रत्ययत्वादेव सर्वनामस्थान- संज्ञा, तदाश्रितो गुणश्चात्रेति ज्ञेयम्।
  • ↑ ६। भुवमात्मानं मन्यते इत्यर्थे खशि, अमि, ‘अचि श्नुधातु--’ (६-४-७७) इत्यादिना उवङत्रेति ज्ञेयम्।
  • ↑ ७। श्रियमात्मानं मन्यते इत्यत्र श्रिमन्यं [ब्राह्मणकुलम्]
  • ↑ (६-३-६८)
  • ↑ (५-७१)
  • ↑ [कुलम्]
  • ↑ ८। कुम्भस्य समीपे उपकुम्भम्। ‘अव्ययं विभक्ति--’ (२-१-६) इत्यादिना सामीप्ये अव्ययीभावसमासे, ‘अव्ययीभावश्च’ (१-१-४१) इत्यनेन अव्ययी- भावसमासस्याव्ययत्वम्। ‘अव्ययीभावस्याव्ययत्वे प्रयोजनं लुङ्मुखस्वरोपचाराः’ (वा। १-१-४१) इति वचनात् उपकुम्भमात्मानं मन्यते इत्यर्थेऽव्ययत्वाभावात् मुमागमोऽत्रेति ज्ञेयम्। स्पष्टमिदं प्रकृतसूत्रे (१-१-४१) भाष्यादौ।
  • ↑ B। ‘मिथ्यैव श्रीः श्रियम्मन्या क्षीमन्मन्यो मृषा हरिः।’ भ। का। ५। ७१।
  • ↑ [पृष्ठम्१०००+ ३०]
  • ↑ १। पट्वीमात्मानं मन्यते इत्यर्थे, पाक्षिके णिनिप्रत्यये ‘स्त्रियाः पुंवत्--’ (६-३-३४) इति पुंवद्भावे रूपमेवम्। पक्षे पटुम्मन्या इत्यपि भवति।
  • ↑ २। ‘आशिषि च’ (३-१-१५०) इति वुन्प्रत्यये, ‘प्रत्ययस्थात्--’ (७-३-४४) इति प्राप्तस्येत्वस्य ‘आशिषि वुनश्च न’ (वा। ७-३-४५) इति निषेधः। ‘आशीरर्थेऽके मनेः एत्वं वाच्यम्’ इति वचनेन एकारः इति प्र। कौमुद्यामुक्तम्। मेनका = अप्सरोविशेषः।
  • ↑ ३। स्त्रियाम्, ‘संज्ञायां समजनिषदनिपतमन--’ (३-३-९९) इत्यादिना संज्ञायां क्यपि रूपमेवम्। ‘मन्या = गलपार्श्वशिरा (सिरा), मन्यन्तेऽनयेति कृत्वा। तया हि क्रुद्धो ज्ञायते।’ इति पदमञ्जरी। न्यासकारस्तु ‘संज्ञायाम्’ इत्युक्तत्वात् अझलादित्वेऽपि प्रत्ययस्थं कित्त्वमाश्रित्यानुनासिकलोपे तुकि च मत्या इति रूपमनुमेने। ‘मन्या = पश्चाद्ग्रीवासिरा।’ इति मा। धा। वृत्तिः। ‘सुमत्’ इति सम्पदादित्वात् (३-३-९४) क्विपि अनुनासिकलोपे, तुकि च रूपम्। सुमत् = लक्ष्मीः।
  • ↑ आ। ‘पुरोहिताऽमात्यमुखाश्च योधा विवृद्धमन्युप्रतिपूर्णमन्याः।।’ भ। का। ३। २८।
  • ↑ ४। क्तिचि रूपमेवम्। ‘न क्तिचि दीर्घश्च’ (६-४-३९) इत्यनेन क्तिचि अनुनासि- कलोपदीर्घयोर्निषेधः। मतिः इत्यत्र तु क्तिनि अनुनासिकलोपो भवत्येव। ‘मन्त्रे वृषेषपचमन--’ (३-३-९६) इत्यनेन मन्त्रे एव मन्यतेः क्तिन्विधानात् लोके न मतिरित्यस्य प्रयोग इति न मन्तव्यम्। उदात्तस्वरार्थं सूत्रस्यास्य (३-३-९६) प्रवृत्तेः।
  • ↑ [पृष्ठम्१००१+ २७]
  • ↑ १। ‘मनेरुच्च’ (द। उ। १-५१) इति इन्प्रत्यये अकारस्य उकारादेशे च रूपमेवम्। मुनिः = ऋषिः।
  • ↑ २। औणादिके उप्रत्यये रूपमेवम्। मन्यते मनुते वा मनुः। मनुशब्दात् ‘मनोर्जा- तावञ्यतौ षुक् च’ (४-१-१६१) इति अञ् यत् इत्येतौ प्रत्ययौ भवतः;\\n\\n तत्सन्नियोगेन षुगागमश्च। मानुषः, मनुष्यः इति जातिशब्दौ एतौ। स्त्रियाम्, ‘हयगवयमुकयमत्स्यमनुष्याणामप्रतिषेधः’ (वा। ४-१-६३) इति प्रतिप्रसवेन ङीपि, ‘हलस्तद्धितस्य’ (६-४-१५०) इति यलोपे मनुषी इति रूपम्।
  • ↑ ३। ‘कमिमनि--’ (द। उ। १-१२५) इति तुप्रत्यये रूपमेवम्। ‘मन्तुः पुंस्यपराधे- ऽपि मनुष्येऽपि प्रजापतौ’ इति मेदिनी इति अमरकोशव्याख्याने (२। २६)।
  • ↑ ४। ‘यजिमनि--’ (द। उ। १-१३४) इति युच्प्रत्यये रूपमेवम्। मन्युः = दैन्यम्, यागः, अन्तर्गतः क्रोधश्च।
  • ↑ ५। ‘गुधृवीपचिवचियमिमनि--’ (द। उ। ८। ८९) इति त्रप्रत्यये रूपमेवम्। ‘वेदभेदे गुह्यवादे मन्त्रः--’ इति अमरः (३। १६७)।
  • ↑ ६। ‘वनिमनिभ्याम्--’ (द। उ। ८। ९९) इति अरप्रत्यये ठकारे चान्तादेशे रूपमेवम्। मठरः = ज्ञानी, गोत्रं च। मूढः इति क्षीरस्वामी।
  • ↑ ७। ‘मनेर्दीर्घश्च’ (द। उ। ९। २३) इति सप्रत्यये दीर्घे च रूपमेवम्। मन्यते तदिति मांसम् = पिशितम् इत्यर्थः।
  • ↑ ८। ‘फलिपाटिनमिमनि--’ (द। उ। १। १०३) इति उप्रत्यये धकारादेशे च रूपम्। मन्यते तदतिशयेन इति मधु = माध्वी।
  • ↑ ९। ‘असुन्’ (द। उ। ९। ४९) इति असुन्प्रत्यये रूपमेवम्।


हेरौँ- मन् धातु



Correction: