संस्कृत-शब्दकोशः

मुषीवत् मुष्क

मुष्

मुष स्तेये


गणः- क्र्यादिः
कर्मकः-सकर्मकः
इट्-सेट्
पदम्-परस्मैपदम्
कर्तरि लटि- मुष्णाति

अर्थ−
१. चोर्नु, लुट्नु ।

कृदन्तरूपमाला

  • 1“मुष स्तेये” 2 3 ‘मुष हिंसार्थः’ इति भ्वादिष्वपि क्षीरस्वामी पपाठ।
  • अन्यैः सर्वैरष्य- पाठादस्माभिरयं न लिखितः। ‘अयं द्विकर्मकः’ इति मा।
  • धा।
  • वृत्तिः।
  • मोषकः-षिका, मोषकः-षिका, 4 मुमुषिषकः-षिका, मोमुषकः-षिका;
  • मोषिता-त्री, मोषयिता-त्री, मुमुषिषिता-त्री, मोमुषिता-त्री;
  • इत्यादीनि सर्वाणि रूपाणि भौवादिकपोषतिवत् 5 ज्ञेयानि।
  • 6 7 मुष्णन् 8 -ती, 9 आमोषी 10, मुषितम्-तः-तवान्, 11 मुष्टम्-ष्टः, मुषित्वा, मुष्टिः, 12 मूषिकः-षिका, 13 मुष्कः, इत्यादीनि रूपाणि अस्य धातोः प्राति- स्विकरूपाणि इति ज्ञेयम्।
  • सन्नन्तादुप्रत्यये मुमुषिषुः 14 इति।

प्रासङ्गिक्यः

  • ↑ (१२९०)
  • ↑ (९-क्र्यादिः-१५३०। अक। सेट्। पर।)
  • ↑ [अ]
  • ↑ ६। क्त्वासनोः ‘रुदविदमुष--’ (१-२-८) इति नित्यं कित्त्वविधानात्, ‘रलो व्युप- धात्--’ (१-२-२६) इति वैकल्पिकं कित्त्वं न। तेन सन्नन्ते सर्वत्र एकमेव रूपमिति ज्ञेयम्। एवं क्त्वाप्रत्ययेऽपि मुषित्वा इत्येकमेव रूपम्।
  • ↑ (१०२६)
  • ↑ [पृष्ठम्१०४१+ २७]
  • ↑ १। ‘क्र्यादिभ्यः--’ (३-१-८१) इति श्ना विकरणप्रत्ययः। ‘श्नाऽभ्यस्तयोरातः’ (६-४-११२) इत्याकारलोपः। णत्वम्।
  • ↑ आ। ‘… पुष्णन् मुदं मृगदृशां रिपुधाम मुष्णन्।’ धा। का। ३-१२।
  • ↑ २। ‘संपृचानुरुध… आमुषाभ्याहनश्च’ (३-२-१४२) इत्यादिना तच्छीलादिषु घिनुण्प्रत्यये रूपमेवम्।
  • ↑ B। ‘द्रोहि खद्योतसंपर्कि नयनामोषि दुःसहम्।।’ भ। का। ७-६।
  • ↑ ३। ‘आदितश्च’ (७-२-१६) इत्यत्र चकारस्यानुक्तसमुच्चयार्थकत्वात् मुष्ट इत्यादीनां सिद्धिः; ‘चोरिते मुषितं मुष्टम्--’ इति स्वामी च।’ इति प्रक्रियासर्वस्वे (पु। २६)। तेन ‘मुष्टं प्रतिग्राहयता स्वमर्थं पात्रीकृतो दस्युरिवासि येन’ इति कालिदास (५।) प्रयोग उपपद्यते।
  • ↑ ४। ‘मुषेर्दीर्घश्च’ (द। उ। ३-१४) इति किकन्प्रत्ययो धातोः दीर्घश्च भवति। मुष्णातीति मूषिकः। “‘मूष स्तेये’ भौवादिकः। तस्मात् किकन्प्रत्यये दीर्घवचनमन्तरेणापि मूषिकशब्दस्य सिद्धत्वात् दीर्घवचनं स्पष्टार्थम्। एवं च मूषेर्ण्वुलि मूषकः इत्यपि साधुः। इति श्वेतवनवासी” इति द। उ। टिप्पण्याम्।
  • ↑ ५। ‘सृवृभूशुषिमुषिभ्यः कित्’ (द। उ। ३-१९) इति कप्रत्ययः किच्च भवति। मुष्कः = चौरो, मांसलो वा। ‘अण्डः फलं च’ इति क्षीरस्वामी।
  • ↑ C। ‘किं मुमुषिषुवद् यात द्विषो नापचिकीर्षया।।’ भ। का। ७-९९।



Correction: