संस्कृत-शब्दकोशः

मृजूष् मृज्य

मृज्

मृजू शौचालङ्कारयोः


गणः- चुरादिः
कर्मकः-सकर्मकः
इट्-सेट्
पदम्-उभयपदम्
कर्तरि लटि- मार्जयति–ते

अर्थ−
१. स्वच्छ गर्नु, सफा गर्नु, धुनु,
२. पवित्र हुनु,
३. सजाउनु, अलङ्कृत गर्नु ।

कृदन्तरूपमाला

  • 1“मृजू शुद्धौ” 2 3 ‘मृजूष्--’ इति क्षीरस्वामी षितममुं पठित्वा, उत्तरत्र, ‘भिदादौ 4 मृजा।’ इत्यप्याह।
  • अनूदितश्चायं पक्षः पुरुषकारे 5, खण्डितश्च।
  • ‘षकारोऽङर्थः।’ इति च क्षीरस्वामिवाक्यं किञ्चिदनूदितमत्र पुरुषकारे।
  • परं तु क्षीरतरङ्गिण्यां नैतादृशं वाक्यमधुनोपलभ्यते।
  • यदि धातोः षित्त्वं प्रामाणिकं स्यात्--तर्हि षित्त्वेनैन निदानेनाङ्सिद्धेर्भिदादिपाठपरिकल्पनमन्या- य्यमिति तदाशयः।
  • वस्तुतस्तु क्षीरतरङ्गिण्यां धातोरस्य षित्करणं लेखकदो- षादापतितमिति भाति। ‘शौचालंकारयोर्वा णौ मृजेर्मार्जति मार्जयेत्।।
  • मार्ष्टि शुद्धौ तथा मार्जेः शब्दार्थान्मार्जयेण्णिचि।’ 6 इति देवः।
  • मार्जकः-र्जिका, मार्जकः-र्जिका, 7 मिमार्जिषकः-षिका-मिमृक्षकः-क्षिका, 8 9 मरीमृजकः-जिका;
  • 10 मार्जिता-मार्ष्टा-मार्ष्ट्री, मार्जयिता-त्री, मिमार्जिषिता-मिमृक्षिता-त्री, मरीमृजिता-त्री;
  • 11 मार्जन्-मृजन्-ती, मार्जयन्-न्ती, मिमार्जिषन्-मिमृक्षन्-न्ती;
  • मार्जिष्यन्- 12 मार्क्ष्यन्-न्ती-ती, मार्जयिष्यन्-न्ती-ती, मिमार्जिषिष्यन्-मिमृक्षिष्यन्-न्ती-ती;
  • -- 13 व्यतिमार्जानः, व्यतिमृजानः, मार्जयमानः, व्यतिमिमार्जिषमाणः-व्यतिमि- मृक्षमाणः, मरीमृज्यमानः- 14 मर्मृज्यमानासः व्यतिमार्जिष्यमाणः-व्यतिमार्क्ष्य- माणः, मार्जयिष्यमाणः, व्यतिमिमार्जिषिष्यमाणः-व्यतिमिमृक्षिष्यमाणः, मरीमृजिष्यमाणः;
  • 15 कंसपरिमृट्-कंसपरिमृड्-कंसपरिमृजौ-कंसपरिमृजः;
  • -- 16 17 मृष्टम्-मृष्टः-मृष्टवान्, मार्जितः, मिमार्जिषितः-मिमृक्षितः, मरीमृजितः-तवान्;
  • परिमार्जः, 18 तुन्दपरिमृजः 19 -तुन्दपरिमार्जः, 20 परिमार्क्ष्णुः, 21 मार्जनः, मार्जः, मिमार्जिषुः-मिमृक्षुः, मरी22मृजः;
  • मार्जितव्यम्-मार्ष्टव्यम्, मार्जयितव्यम्, मिमार्जिषितव्यम्-मिमृक्षितव्यम्, मरीमृजितव्यम्;
  • मार्जनीयम्, मार्जनीयम्, मिमार्जिषणीयम्-मिमृक्षणीयम्, मरीमृजनीयम्;
  • 23 मृज्यः- 24 मार्ग्यः, 25 अवश्यमार्ज्यः, मार्ज्यम्, मिमार्जिष्यम्-मिमृक्ष्यम्, मरीमृज्यम्;
  • ईषन्मार्जः-दुर्मार्जः-सुमार्जः;
  • -- -- -- मृज्यमानः, मार्ज्यमानः, मिमार्जिष्यमाणः-मिमृक्ष्यमाणः, मरीमृज्यमानः;
  • 26 मार्गः, 27 अपामार्गः, मार्जः, मिमार्जिषः-मिमृक्षः, मरीमर्जः;
  • मार्जितुम्-मार्ष्टुम्, मार्जयितुम्, मिमार्जिषितुम्-मिमृक्षितुम्, मरीमृजितुम्;
  • 28 मृजा, 29 मृष्टिः, मार्जना, मिमार्जिषा-मिमृक्षा, मरीमृजा;
  • परिमार्जनम्- 30 सम्मार्जनी, 31 सांमार्जनम्, मार्जनम्, मिमार्जिषणम्-मिमृक्षणम्, मरीमृजनम्;
  • मार्जित्वा-मृष्ट्वा, मार्जयित्वा, मिमार्जिषित्वा-मिमृक्षित्वा, मरीमृजित्वा;
  • विमृज्य-अपमृज्य, विमार्ज्य, विमिमार्जिष्य-विमिमृक्ष्य, विमरीमृज्य;
  • मार्जम् २, मार्जित्वा २-मृष्ट्वा २, मार्जम् २, मार्जयित्वा २, मिमार्जिषम् २-मिमृक्षम् २, मिमार्जिषित्वा २-मिमृक्षित्वा २, मरीमृजम् २;
  • मरीमृजित्वा २;
  • 32 मर्जूः, 33 मार्जारः, 34 मार्जालीयः।
  • 35

प्रासङ्गिक्यः

  • ↑ (१३०२)
  • ↑ (२-अदादिः-१०६६। अक। वेट्। पर।)
  • ↑ [अ]
  • ↑ (३-३-१०४)
  • ↑ (श्लो। ६१)
  • ↑ (श्लो। ६०-६१)
  • ↑ ७। धातोरस्य ऊदित्त्वेन, ‘स्वरतिसूतिसूयतिधूञूदितो वा’ (७-२-४४) इतीड्विकल्पः। इट्पक्षे रूपमेवम्। इडभावपक्षे, झलादित्वेन सनः कित्त्वेन गुणनिषेधे, ‘व्रश्चभ्रस्जसृजमृज--’ (८-२-३६) इत्यादिना षत्वे, ‘षढोः कः सि’ (८-२-४१) इति ककारे षत्वे च रूपमेवम्। एवमेव सन्नन्ते सर्वत्र रूपद्वयस्योपपत्तिर्ज्ञेया।
  • ↑ [पृष्ठम्१०४८+ २४]
  • ↑ १। ‘न धातुलोप आर्धधातुके’ (१-१-४) इत्यत्रत्यभाष्यपरामर्शनात् यङन्ते सर्वत्र वृद्धिविकल्पः इति ज्ञायत इति बृहच्छब्देन्दुशेखरे (पु। १८७८) स्पष्टम्। ततश्चात्र सर्वत्र मरीमार्जकः-र्जिका, मरीमार्जिता-त्री; इत्यादीनि रूपाणि यथासम्भवं तत्तत्प्रत्ययेषु ज्ञेयानि। एवं ‘ममृंज्यते मर्मृज्यमानास इति चोपसंख्यानम्’ (वा। ७-४-९१) इत्युक्तत्वात् ण्वुलादिष्वप्यस्य रुकि रूपनिष्पत्तिर्भव- तीति न मन्तव्यम्; यतोऽत्र निपातनस्थलेष्विव स्वरूपग्रहणात्, निर्दिष्टरूपस्यैव साधुत्वज्ञापनात्, यङ्लुकि विहितस्य रुको यङन्तेऽपि निर्दिष्टयोरुभयोर्विषयेऽप्युप- संख्यानार्थमेव वार्तिकावताराच्च इति स्पष्टं कैयटादौ।
  • ↑ २। तृजादिष्वप्यूदित्त्वादिड्विकल्पः। इडभावपक्षे, इट्पक्षेऽपि लघूपधलक्षणं गुणं बाधित्वा, ‘मृजेर्वृद्धिः’ (७-२-११४) इति वृद्धिः। एवमेव तव्यदादिष्वपि ज्ञेयम्।
  • ↑ ३। शतरि, ‘अदिप्रभृतिभ्यः--’ (२-४-७२) इति शब्लुकि, ‘इहान्ये वैयाकरणाः मृजेरजादौ सङ्क्रमे विभाषा वृद्धिमारभन्ते’ (भाष्यवाक्यम् १-१-३) इति वृद्धिविकल्पः। वृद्ध्यभावपक्षे, शतुरपित्सार्वधातुकत्वेन ङिद्वद्भावादङ्गस्य गुणो न।
  • ↑ ४। स्यप्रत्यये इडभावपक्षे षत्वकत्वषत्वेषु रूपमेवम्।
  • ↑ ५। ‘कर्तरि कर्मव्यतीहारे’ (१-३-१४) इति शानच्। वृद्धिविकल्पः।
  • ↑ ६। यङन्ताच्छानचि, ‘मर्मृज्यते मर्मृज्यमानास उपसंख्यानम्’ (वा। ७-४-९१) इति वचनात् रीगपवादतया पाक्षिके रुकि, बहुवचने जसः, ‘आज्जसेरसुक्’ (७-१-५०) इत्यसुकि रूपमेवम्। “छन्दोऽधिकारः ‘आज्जसेरसुक्’ (७-१-५०) इति यावत्।” इति काशिकायाम् (७-१-३८) उक्तत्वात् वैदिकेष्वेवास्य प्रयोग इति ज्ञेयम्।
  • ↑ ७। कंसं परिमार्ष्टि इत्यर्थे, ‘क्विप् च’ (३-२-७६) इति कर्मण्युपपदे क्विप्। पदान्तनि- मित्तके षत्वे जश्त्वे चर्त्वविकल्पे च रूपमेवम्।
  • ↑ [पृष्ठम्१०४९+ २७]
  • ↑ १। ऊदित्त्वेनेड्विकल्पनात् निष्ठायाम्, ‘यस्य विभाषा’ (७-२-१५) इतीण्निषेधः। षत्वे ष्टुत्वे च रूपमेवम्।
  • ↑ २। तुन्दं परिमार्ष्टीत्यर्थे, ‘तुन्दशोकयोः परिमृजापनुदोः’ (३-२-५) इति कर्मण्युप- पदे अणोऽपवादतया कप्रत्ययः। कित्त्वेन गुणनिषेधः। ‘आलस्यसुखाहरणयोः--’ (वा। ३-२-५) इति वचनात् आलस्यविशिष्टे कर्तर्येवायं प्रत्यय इति ज्ञेयम्। तदभावपक्षे तुन्दपरिमार्जः इत्यत्र, ‘कर्मण्यण्’ (३-२-१) इति अण्प्रत्यये वृद्धौ च रूपम्। अत्र कप्रत्ययस्य कित्त्वात्, ‘मृजेरजादौ सङ्क्रमे विभाषा वृद्धिम्--’ (भाष्यवाक्यम् १-१-३) इति वचनात् आलस्यरूपार्थे एव वृद्धिविकल्पमाशङ्क्य, ‘सा भवत्येव सत्यभिधाने’ इति उद्द्योते (३-१-५) समाहितम्। उत्तरत्र च यद्यनभिधानमभिमतम्, तदानीम्, ‘इको गुणवृद्धी’ (१-१-३) इति सूत्रे भाष्य- स्वारस्यात् निरुक्तभाष्यवाक्ये ‘अजादौ’ इत्यस्य आतिदेशिकक्ङिदजादिप्रत्यये इत्यर्थपरकत्वमाश्रित्य, अत्र कप्रत्ययस्यौपदेशिककित्त्वेन वृद्धिनिषेध एवेति च समाहितम्।
  • ↑ आ। ‘इह युवतिवदनकान्तिभिराप्यायिततुन्दपरिमृजः शेते।’ अनर्घराघवे ७-११०।
  • ↑ ३। ताच्छीलिके, “-- ‘परिक्षिपच्परिमृजः ग्स्नुः’ इति ग्स्नुप्रत्ययः। परिमार्क्ष्णुः।” इति प्रक्रियाकौमुदी। भाष्यादिषु तु नैतादृशं वचनमुपलभ्यते।
  • ↑ ४। बाहुलकात्, नन्द्यादेः (३-१-१३४) आकृतिगणत्वाद्वा ण्यन्तात् कर्तरि ल्युप्रत्यये रूपमेवम्।
  • ↑ [मार्जः]
  • ↑ ५। ‘मृजेर्विभाषा’ (३-१-११३) इति विभाषा क्यप्। पक्षे ण्यति निष्ठायामनिट्त्वात् ‘चजोः कु घिण्ण्यतोः’ (७-३-५२) इति कुत्वे वृद्धौ च मार्ग्यः इति रूपम्।
  • ↑ B। ‘मन्युस्तस्य त्वया मार्ग्यो मृज्यः शोकश्च तेन ते।।’ भ। का। ६-५७।
  • ↑ ६। आवश्यकार्थे ण्यति, ‘ण्य आवश्यके’ (७-३-६५) इति कुत्वनिषेधः।
  • ↑ [पृष्ठम्१०५०+ २८]
  • ↑ १। ‘हलश्च’ (३-३-१२१) इति संज्ञायां घञि, कुत्वे, ‘उपसर्गस्य घञ्यमनुष्ये बहुलम्’ (६-३-१२२) इति ‘अप’ इत्युपसर्गान्त्याकारस्य दीर्घे रूपमेवम्। अपमृज्यतेऽनेन व्याध्यादिरिति अपामार्गः = ओषधिविशेषः।
  • ↑ २। स्त्रियां भावादौ भिदादिपाठात् (३-३-१०४) अङि, औपदेशिकङित्त्वादस्य प्रत्ययस्य ‘मृजेरजादौ--’ (भाष्यवाक्यम् १-३-५) इत्यत्र नास्य ग्रहणमिति निर्णयात्, ‘क्ङिति च’ (१-१-५) इति वृद्धिनिषेधे च रूपमेवम्। बाहुलकात् क्तिनि वृद्धौ च माष्टिः इत्यपि रूपमिति ज्ञेयम्। मा। धा। वृत्तौ तु ‘मार्ष्टिरिति चुरादौ वक्ष्यते’ इत्युक्तम्। चुरादिषु तु कुत्रापि मार्ष्टिशब्दनिष्पत्तिः तेन न क्रियते। मृष्टिरिति तु बाहुलकात् क्तिनि, क्तिचि वा निष्पद्यत इति ज्ञेयम्।
  • ↑ आ। ‘पयोधरांश्चन्दनपङ्कदिग्धान् वासांसि चामृष्टमृजानि दृष्ट्वा।’ भ। का। ११। २७।
  • ↑ ३। सम्मार्जनी इति करणल्युडन्तात् स्त्रियां टित्त्वेन ङीपि रूपम्। सम्मार्जनी = शोधनसाधनी।
  • ↑ ४। सम्पूर्वकादस्माद् भावे ‘अभिविधौ भाव इनुण्’ (३-३-४४) इतीनुणि, तदन्तात् ‘अण् इनुणः’ (५-४-१५) इति स्वार्थिके अण्प्रत्यये, ‘इनण्यनपत्ये’ (६-४-१६४) इति नान्तस्य प्रकृतिभावे च रूपमेवम्। क्लीबत्वं लोकादत्रेति ज्ञेयम्। काशिकायाम् (६-४-१६४) उदाहृतमिदं पदम्।
  • ↑ ५। ‘मृजेर्गुणश्च’ (द। उ। १-१६५) इत्यूप्रत्यये, वचनादेव वृद्ध्यपवादे गुणे च रूपम्। मर्जूः = शुद्धिः।
  • ↑ ६। ‘कञ्जिमृजिभ्यां चित्’ (द। उ। ८-६७) इत्यारन्प्रत्यये रूपसिद्धिः। मार्ष्टि भवन- मिति मार्जारः = बिडालः।
  • ↑ ७। ‘स्थाचतिमृजेः आलवालजालीयरः’ (द। उ। १०-१) इत्यनेन यथासंख्यमालीयर् प्रत्यये रूपमेवम्। मार्ष्टि अशुभं रक्षांसि चेति मार्जालीयः = अग्निः।
  • ↑ [पृष्ठम्१०५१+ २९]


मृजूष् शुद्धौ


गणः- अदादिः
कर्मकः-सकर्मकः
इट्-वेट्
पदम्-परस्मैपदम्
कर्तरि लटि- मार्ष्टि

अर्थ−
१. धुनु, पखाल्नु, सफा गर्नु, स्वच्छ गर्नु,
२. सजाउनु, सुशोभित गर्नु ।
अप- , प्र-
१. सफा गर्नु, झाडु लगाउनु, बढार्नु,
२. स्वच्छ गर्नु, पवित्र गर्नु ।

कृदन्तरूपमाला



Correction: