संस्कृत-शब्दकोशः

यसु या

यस्

यसु प्रयत्ने


गणः- दिवादिः
कर्मकः-अकर्मकः
इट्-सेट्
पदम्-परस्मैपदम्
कर्तरि लटि- यस्यति

अर्थ−
१. यत्न गर्नु ।
आ-
१. मिहिनेत गर्नु,, कष्ट गर्नु, परिश्रम गर्नु ।
निर्-
१. गुमाउनु ।

कृदन्तरूपमाला

  • 1“यसु प्रयत्ने” 2 यासकः-सिका, यासकः-सिका, यियसिषकः-षिका, यायसकः-सिका;
  • यस्ता-यस्त्री, यासयिता-त्री, यियसिषिता-त्री, यायसिता-त्री;
  • 3 इत्यादीनि सर्वाण्यपि रूपाणि भौवादिकग्रसतिवत् 4 ज्ञेयानि।
  • शतरि-- 5 यस्यन्-न्ती, यसन्-न्ती, प्रयस्यन्- 6 आयस्यन्-न्ती, 7 संयस्यन्-संयसन्-न्ती, 8 आयासी, 9 10 आयासयन्-न्ती, आयासयमानः, 11 यस्त्वा-यसित्वा, 12 प्रयासी, यस्तः-यस्तवान् इतीमानि रूपाण्यस्य विशेषेण भवन्तीति ज्ञेयम्।

प्रासङ्गिक्यः

  • ↑ (१३४२)
  • ↑ (४-दिवादिः-१२१०। अक। सेट्। पर।)
  • ↑ [पृष्ठम्१०७५+ २८]
  • ↑ (४४०)
  • ↑ १। शतरि दिवादित्वात् नित्यं श्यन्प्रत्यये प्राप्ते, ‘यसोऽनुपसर्गात्’ (३-१-७१) इति विकल्पेन श्यन्। पक्षे औत्सर्गिके शपि यसन्-न्ती इति रूपमिति बोध्यम्।
  • ↑ आ। ‘अथायस्यन् कषायाक्षः स्विन्नःस्वेदकणोल्बणः।’ भ। का। ५। ८३।
  • ↑ २। ‘संयसश्च’ (३-१-७२) इति संपूर्वकादपि श्यन्विकल्पः। ‘-- अनुपसर्गात्’ (३-१-७१) इत्युक्तत्वात् अप्राप्तेऽनेन सूत्रेण सम्पूर्वकस्यापि वैकल्पिकः श्यन् इति ज्ञेयम्।
  • ↑ ३। तच्छीलादिषु कर्तृषु ‘सम्पृचानुरुधाङ्यमाङ्यस--’ (३-२-१४२) इत्यादिना धिनु- ण्प्रत्यये रूपमेवम्।
  • ↑ B। ‘संज्वारिणेव मनसा ध्वान्तमायासिना मया।’ भ। का। ७। ६।
  • ↑ ४। प्रयत्नस्य चित्तवत्कर्तृकत्वादस्मात् ण्यन्तात् ‘अणावकर्मकात्--’ (१-३-८८) इत्यादिना परस्मैपदे प्राप्ते, ‘न पादम्याङ्यमाङ्यस--’ (१-३-८९) इत्यादिना आङ्पूर्वकात् परस्मैपदनिषेधः। तेन परगामिनि क्रियाफले परस्मैपदम्, आत्मगामिनि क्रिया- फले तु ‘णिचश्च’ (१-३-७४) इति आत्मनेपदं भवतीति ज्ञेयम्। एतच्च माधवा- द्यनुरोधेनोक्तम्। क्षीरस्वामी तु-- “-- ‘न पादमि--’ (१-३-८९) इति तङ्-- आयासयते।” इत्युक्तवान्। तेनास्य मते परस्मैपदनिषेधादात्मनेपदमेव न्याय्यमिति ज्ञायते। वस्तुतस्तु माधवोक्तमेव न्याय्यमित्यलम्।
  • ↑ ५। ‘उदितो वा’ (७-२-५६) इति क्त्वायामिड्विकल्पः। तेन रूपद्वयम्। एतेन निष्ठायामिण्निषेधे यस्तः, यस्तवान् इति रूपनिष्पत्तिरिति ज्ञेयम्।
  • ↑ ६। बाहुलकात्, ग्रह्यादेराकृतिगणत्वेन ‘आवश्यकाधमर्ण्ययोर्णिनिः’ (३-३-१७०) इत्यने- नावश्यकार्थे वा प्रपूर्वकादस्मात् णिनिप्रत्यये प्रयासी इति रूपम्। वस्तुतः प्रपूर्वकादस्माद्घञि, घञन्तात् मत्वर्थीय इनिप्रत्ययेऽपि रूपनिष्पादनं न्याय्यमिति बोध्यम्।



Correction: