संस्कृत-शब्दकोशः

याचिष्णु याच्ञा

याच्

टुयाचृ याच्ञायाम्


गणः- भ्वादिः
कर्मकः-सकर्मकः
इट्-सेट्
पदम्-उभयपदम्
कर्तरि लटि- याचति-ते

अर्थ−
१. माग्नु, याचना गर्नु, निवेदन गर्नु, प्रार्थना गर्नु, अनुरोध गर्नु, अनुनय-विनय गर्नु,,
२. दिन चाहना गर्नु, दिनका लागि निक्लनु ।

कृदन्तरूपमाला

  • 1“टु याचृ याच्ञायाम्” 2 याचकः-चिका, याचकः-चिका, यियाचिषकः-षिका, यायाचकः-चिका;
  • याचिता-त्री, याचयिता-त्री, यियाचिषिता-त्री, यायाचिता-त्री;
  • 3 4 5 याचन्-न्ती, 6 याचमानः, इत्यादिकानि सर्वाण्यपि रूपाणि भौवादिककासतिवत् 7 ज्ञेयानि।
  • 8 याचथुः, याचित्रिमम्, 9 याच्ञा, 10 अयाची, 11 याच्यम्, 12 याचितम्-याचितकम्, याचा, इतीमानि रूपाणि धातोरस्माद्भवन्तीति विशेषः।

प्रासङ्गिक्यः

  • ↑ (१३४४)
  • ↑ (१-भ्वादिः-८६३। द्विक। सेट्। उभ।)
  • ↑ [बलिं वसुधां]
  • ↑ [पृष्ठम्१०७८+ ३२]
  • ↑ १। ‘अकथितं च’ (१-४-५१) इत्यत्र भाष्ये ‘दुहियाचिरुधि--’ (व्याघ्नभूतिका- रिका। १-४-५१) परिगणनात् द्विकर्मकत्वम्। धातोरस्य उभयपदित्वात् शता, शान- च्चेति ज्ञेयम्।
  • ↑ आ। ‘सोऽपृच्छत् लक्ष्मणं सीतां याचमानः शिवं सुरान्।’ भ। का। ६-८।
  • ↑ (१८८)
  • ↑ २। ‘ट्वितोऽथुच्’ (३-३-८९) इति भावेऽथुच्प्रत्ययः। क्षीरस्वाम्यादयः धातुममुं ड्वितं पठित्वा ‘ड्वितः क्त्रिः’ (३-३-८८) इति क्त्रिप्रत्यये, ‘क्त्रेर्मम्नित्यम्’ (४-४-२०) इति मप्प्रत्यये याचित्रिमम् इति रूपं साधयन्ति। “केचित् ड्वितं पठन्ति--तदपि प्रमाणम्।” इति धातुवृत्तिरिहानुसन्धेया।
  • ↑ ३। ‘यजयाच--’ (३-३-९०) इत्यादिना भावे नङ्प्रत्ययः। ‘नेड् वशि’ (७-२-८) इतीण्निषेधः। ‘स्तोः श्चुना--’ (८-४-४०) इति श्चुत्वम्। स्त्रीलिङ्गत्वं स्वभावात्।
  • ↑ ४। ‘याचृव्याहृसंव्याहृव्रजवदवसां प्रतिषिद्धानाम्’ (ग। सू। ३-१-१३४) इति णिनि- प्रत्ययः। प्रतिषिद्धानाम् = नञ्पूर्वाणामित्यर्थः। अयाची = यः सर्वात्मना याचनं विनैव देहयात्रां करोति स एवमुच्यते।
  • ↑ ५। ण्यति, ‘यजयाचरुचप्रवचर्चश्च’ (७-३-६६) इति कुत्वनिषेधः। ‘निष्ठायामनिटः कुत्ववचनात्’ (वा। ७-३-५२) इति वार्तिकानुसरणे तु निष्ठायामस्य धातोः सेट्- त्वात् कुत्वमेव न प्रवर्तते। यथोत्तरं मुनीनां प्रामाण्यात् वार्तिकानुसरणमेव युक्तम्।
  • ↑ ६। निष्ठायामेवं रूपम्। निष्ठान्तात् ‘अपमित्ययाचिताभ्यां कक्कनौ’ (४-४-२१) इति निर्वृत्तार्थे तृतीयान्तात् यथासम्भवं कन्प्रत्यये याचितकम् = याचितेन निर्वृत्तम् इति।



Correction: