संस्कृत-शब्दकोशः

युधिष्ठिर युध्म

युध्

युध् (स्त्रीलिङ्ग)


निष्पत्ति− युध (सम्प्रहारे) - "क्विप्" (वा० ३-३-१०७)
प्रयोग− "युधे परैः सह दृढबद्धकक्षया कलक्वणन्मधुपकुलोपगीतया"
उल्लेख− माघ० १७-२४

अर्थ−
लडाइँ ।


युध सम्प्रहारे


गणः- दिवादिः
कर्मकः-अकर्मकः
इट्-अनिट्
पदम्-आत्मनेपदम्
कर्तरि लटि- युध्यते

अर्थ−
१. लड्नु, युद्ध गर्नु, झगडा गर्नु, सङ्घर्ष गर्नु, विवाद गर्नु ।
नि-
१. मल्लयुद्ध गर्नु, कुस्ती खेल्नु, विरोध गर्नु ।
प्रति-
१. विरोध गर्नु, युद्धमा लड्नु ।

कृदन्तरूपमाला

  • 1“युध सम्प्रहारे” 2 ‘सम्प्रहारः = हननम्।’ इति क्षीरस्वामी।
  • योधकः-धिका, योधकः-धिका, युयुत्सकः-त्सिका, योयुधकः-धिका;
  • योद्धा-योद्ध्री, योधयिता-त्री, युयुत्सिता-त्री, योयुघिता-त्री;
  • इत्यादीनि सर्वाण्यपि रूपाणि दैवादिकक्षुध्यतिवत् 3 ज्ञेयानि।
  • 4 राजयुध्वा, 5 सहयुध्वा, 6 7 चापयोधी, 8 प्रतियोधी, 9 युध्यमानः, 10 11 योधः-यौधः, 12 आयुधम्, 13 युद्धम्, 14 ईषद्योधनः-दुर्योधनः-सुयोधनः, 15 ईषद्योधः- दुर्योधः-सुयोधः, 16 युयुधानः, 17 योधयन्-न्ती, 18 इत्यानच्प्रत्यये, तस्य कित्त्वेन गुणनिषेधे च युधानः इति सिद्ध्यति।
  • युधानः = रिपुः। युधानः, 19 इति मक्प्रत्ययः।
  • युध्यतेऽस्मिन् राजेति युध्मः = शरत्कालः। युध्मः, 20 युयुत्सा, आयोधनम्, इत्यादीनि रूपाण्यस्माद् भवन्तीति विशेषः।

प्रासङ्गिक्यः

  • ↑ (१३५४)
  • ↑ (४-दिवादिः-११७३। अक। अनि। आत्म।)
  • ↑ (३१५)
  • ↑ ३। ‘राजनि युधिकृञः’ (३-२-९५) इति कर्मण्युपपदे क्वनिप्प्रत्ययः। राजानं योधितवान् राजयुध्वा। अत्रान्तर्भावितण्यर्थाद् धातोः सकर्मकत्वमिति बोध्यम्। ‘भूते’ (३-२-८४) इत्यधिकारे प्रत्ययस्यास्य विधानात् भूतकालिकत्वम्। स्त्रियाम्, ‘वनो न हशः--’ (वा। ४-१-७) इति निषेधाद् ङीब्रेफौ न।
  • ↑ ४। ‘सहे च’ (३-२-९६) इत्यनेन सहशब्द उपपदे धातोः क्वनिप्। सह योधितवान् सहयुध्वा।
  • ↑ C। ‘संवित्तः सहयुध्वानौ तच्छक्तिं खरदूषणौ।’ भ। का। ५। ३७।
  • ↑ ५। ‘बहुलमाभीक्ष्ण्ये’ (३-२-८१) इति णिनिः। चापयोधी = किरातादि-जातिविशेषः।
  • ↑ ६। गम्यादिषु (३-३-३) पाठात् भविष्यत्काल औणादिको णिनिः। प्रतियोधी = यः प्रतिद्वन्द्वितया युद्धं करिष्यति स उच्यते।
  • ↑ ७। शानचि दिवादित्वाच्छ्यनि रूपमेवम्। युध्यति इत्यादिप्रयोगाणामुपपत्तिस्तु-- ‘सुप आत्मनः क्यच्’ (३-१-८) इति क्यजन्तत्वेन, दिवादेरवृत्कृतत्वेनाकृतिगण- त्वाद्वा साधुत्वमिति बोध्यम्।
  • ↑ [पृष्ठम्१०८७+ ३१]
  • ↑ १। प्रज्ञादिषु (५-४-३८) योधशब्दस्य पाठात् इगुपधलक्षणं कप्रत्ययं बाधित्वा, पचादिपाठपरिकल्पनेनाच्। स्वार्थे तद्धितेऽणि विकल्पेन प्रवृत्ते तु योधः--यौधः इति रूपद्वयस्योपपन्नत्वं ज्ञेयम्।
  • ↑ २। आदाय युध्यन्तेऽनेनेति आयुधम्। ‘घञर्थे कविधानं स्थास्नापाव्यधिहनियुध्य- र्थम्’ (वा। ३-३-५८) इति वचनात् घञर्थे करणे कप्रत्यये, कित्त्वेन गुणनिषेधे च रूपमेवम्।
  • ↑ ३। ‘क्तिच्क्तौ च संज्ञायाम्’ (३-३-१७४) इति संज्ञायां क्तप्रयये धत्व-जश्त्वयोश्च रूपम्।
  • ↑ ४। ईषदाद्युपपदेषु, ‘भाषायां शासियुधि--’ (वा। ३-३-१३०) इति खलपवादो युच्प्रत्ययः। अत्रापि अन्तर्भावितण्यर्थाद्धातोः, विवक्षया वा सकर्मकत्वं बोध्यम्। कर्मणि प्रत्ययोऽयम्।
  • ↑ ५। ‘भाषायां शासियुधि--’ (वा। ३-३-१३०) इति युच् वा--इति प्रक्रियाकौ- मुदी। तन्मते युजभावपक्षे खल्प्रत्यये रूपाणामेषां सिद्धिर्बोध्या।
  • ↑ ६। ‘बाहुलकादानचि द्वित्वम्।’ इति मा। धा। वृत्तिः। बाहुलकादेव प्रत्ययस्य कित्त्वमपि बोध्यम्। तेन न गुणः।
  • ↑ ७। ‘बुधयुध--’ (१-३-८६) इति कर्तृगामिन्यपि क्रियाफले ण्यन्तात् परस्मैपदमेव। “ये चात्राकर्मकाः, तेषाम्, ‘अणावकर्मकात् चित्तवत्कर्तृकात्’ (१-३-८८) इत्येव परस्मैपदे सिद्धे वचनमिदम्--अचित्तवत्कर्तृकार्थम्।।” इति काशिका (१-३-८६) अत्रानुसन्धेया।
  • ↑ ८। ‘युधिबुधिदृशिभ्यः किच्च’ [द। उ। ५-३३]
  • ↑ ९। ‘इषियुधि--’ [द। उ। ७-३१]
  • ↑ आ। ‘युयुत्सारहितो रामं ममारापहरन् वने।।’ भ। का। ९। १२५।



Correction: