संस्कृत-शब्दकोशः

युधीय युध्म

युध्

वाचस्पत्यम्

युध्(धा) ||‍ स्त्री युध—सम्प० क्विप् वा टाप् । १ युद्धे योधने २ संग्रामे च अमरः ।


शब्दकल्पद्रुमः

युत् || [ध्] स्त्री, (योधनमिति । युध् + क्विप् ।)
युद्धम् । इत्यमरः । ३ । ८ । १०६ ॥ (त्रि, युद्धकर्त्ता । यथा, भागवते । ६ । १२ । २३ । “इति ब्रुवाणावन्योन्यं धर्म्मजिज्ञासया नृप ! । युयुधाते महावीर्य्याविन्द्रवृत्रौ युधां पती ॥”)


शब्दकल्पद्रुमः

युद् || [ध्] स्त्री, (योधनमिति । युध् + क्विप् ।)
युद्धम् । इत्यमरः । २ । ८ । १०६ ॥ (यथा, रामायणे । २ । ५१ । १० । “यो न देवासुरैः सर्व्वैः शक्यः प्रसहितुं युधि । तं पश्य सुखसंसुप्तं तृणेषु सह सीतया ॥”)



Correction: