संस्कृत-शब्दकोशः

रसोपल रस्य

रस्

रस शब्दे


गणः- भ्वादिः
कर्मकः-अकर्मकः
इट्-सेट्
पदम्-परस्मैपदम्
कर्तरि लटि- रसति

अर्थ−
१. शब्द गर्नु, आवाज निकाल्नु ।

कृदन्तरूपमाला

  • 1“रस शब्दे” 2 ‘शब्दे शपि रसेत्, स्नेहास्वादयो रसयेद्रसेः।’ 3 इति देवः।
  • रासकः-सिका, रासकः-सिका, रिरसिषकः-षिका, रारसकः-सिका;
  • रसिता-त्री, रासयिता-त्री, रिरसिषिता-त्री, रारसिता-त्री;
  • इत्यादीनि सर्वाण्यपि रूपाणि भौवादिककशतिवत् 4 बोध्यानि।
  • क्विपि सुरः-सुरसौ-सुरसः;
  • 5 रसमानः- 6 7 रसः, वेदरासी, 8 रारस्यमानः;
  • 9 रस्नम्, अस्य धातोः इमानि रूपाण्यधिकानीति विशेषः।
  • 10

प्रासङ्गिक्यः

  • ↑ (१३८४)
  • ↑ (१-भ्वादिः-७१३। अक। सेट्। पर।)
  • ↑ (श्लोः १९३)
  • ↑ (१७८)
  • ↑ १। ‘ताच्छील्यवयोवचनशक्तिषु चानश्’ (३-२-१२९) इति ताच्छील्ये चानश्प्रत्यये रूपमेवम्।
  • ↑ आ। ‘परिरम्भरुचिं ततिर्जलानामभिनद्धा रसम नसारसेन।।’ शि। व। ६-७५।
  • ↑ २। पचाद्यचि (३-१-१३४) रूपमेवम्।
  • ↑ B। ‘उच्चै रारस्यमानां तां कृपणां रामलक्ष्मणौ।’ भ। का। ५-९६।
  • ↑ ३। ‘तृषिशुषुरसिभ्यः कित्’ (द। उ। ५-४४) इति नप्रत्यये रूपम्। कित्त्वाद् न वृद्धिः। रसतीति रस्नम् = द्रव्यजातिः।
  • ↑ [पृष्ठम्११०९+ २७]


रस आस्वादनस्नेहनयोः


गणः- चुरादिः
कर्मकः-सकर्मकः
इट्-सेट्
पदम्-उभयपदम्
कर्तरि लटि- रसयति–ते

अर्थ−
१. स्वाद लिनु, चाख्नु,
२. प्रेम गर्नु, माया गर्नु ।

कृदन्तरूपमाला

  • 1“रस आस्वादनस्नेहनयोः” 2 अदन्तः।
  • ‘शब्दे शपि रसेत्, स्नेहास्वादयो रसयेद्रसेः।’ 3 इति देवः।
  • रसकः सिका, रिरसयिषकः-षिका;
  • रसयिता-त्री, रिरसयिषिता-त्री;
  • 4 रसयन्-न्ती, रिरसयिषन्-न्ती;
  • रसयिष्यन्-न्ती-ती, रिरसयिषिष्यन्- न्ती-ती;
  • रसयमानः, रिरसयिषमाणः, रसयिष्यमाणः, रिरसयिषिष्यमाणः, सुरः-सुरसौ-सुरसः;
  • रिरसयिट्-यिषौ-यिषः, रसितम्-तः, रिरसयिषि- तम्-तः-तवान्;
  • 5 रसः, विरसः, सुरसः, सुरसी, रिरसयिषुः;
  • रसयि- तव्यम्, रिरसयिषितव्यम्;
  • रसनीयम्, रिरसयिषणीयम्;
  • रस्यम्, रिरसयिष्यम्, ईषद्रसः-दूरसः-सुरसः;
  • रस्यमानः, रिरसयिष्यमाणः, रसः, रिरसयिषः, रसयितुम्, रिरसयिषितुम्;
  • रसना, रिरसयिषा, रसनम्, रिरसयिषणम्, रसयित्वा, रिरसयिषित्वा;
  • 6 प्ररसय्य, प्ररिरसयिष्य, रसम् २, रसयित्वा २, रिरसयिषम् २, रिरसयिषित्वा २;
  • इति विशेषः।

प्रासङ्गिक्यः

  • ↑ (१३८५)
  • ↑ (१०-चुरादिः-१९३१। सक। सेट्। उभ।)
  • ↑ (श्लो। १९३)
  • ↑ आ। ‘देवौघे हृतदुःखने रसयति व्याकर्षदेनं क्षितौ।।’ धा। का। ३। ६२।
  • ↑ १। रस्यन्ते आस्वाद्यन्तेऽनेन इति ‘एरच्’ (३-३-५६) इति अचि रूपम्। घञ् वा इति केचित्।
  • ↑ २। ‘ल्यपि लघुपूर्वात्’ (६-४-१६) इति णेरयादेशः।



Correction: