संस्कृत-शब्दकोशः

रहोऽट रा

रह्

रह त्यागे


गणः- चुरादिः
कर्मकः-सकर्मकः
इट्-सेट्
पदम्-उभयपदम्
कर्तरि लटि- रहयति–ते

अर्थ−
१. छोड्नु, त्याग्नु, छुट्टिनु, भिन्न हुनु ।
वि-
१. छोड्नु, त्याग्नु, छुट्टिनु, भिन्न हुनु ।

कृदन्तरूपमाला

  • 1“रह त्यागे” 2 3 ज्ञपादिः।
  • धातुममुं क्षीरस्वामि-मैत्रेयौ न पठतः।
  • 4 रहकः-हिका, रिरह- यिषकः-षिका;
  • रहयिता-त्री, रिरहयिषिता-त्री;
  • इत्यादीनि रूपणि समस्तान्यपि चौरादिकचहयतिवत् 5 बोध्यानि।
  • क्विपि- 6 प्ररट्-प्ररड्-प्ररहौ-प्ररहः;
  • ल्यपि- 7 प्ररहय्य 8, णमुलि-रहम् २ राहम् २ इमानि रूपाण्यधिकान्यत्रेति विशेषः।

प्रासङ्गिक्यः

  • ↑ (१३८७)
  • ↑ (१०-चुरादिः-१६२६। सक। सेट्। उभ।)
  • ↑ १। कथादिषु (अदन्तेषु) उत्तरत्र पठिष्यमाणेन रहधातुनैव रूपाणां सिद्धेः ज्ञपादि- पञ्चकेषु रहधातोः चुरादिष्वेव पूर्वत्र पाठो मा भूदिति क्षीरस्वाम्यादयः। ‘रहयेत्--’ इति श्लोकं (१९५) विवृण्वता पुरुषकारेणापि “--‘रह त्यागे’ कथादिर्भूवादिश्च” इत्युक्तम्। तेन देवस्याप्ययमेव पक्ष इति ज्ञायते। युक्तं चैतत्। यतः ज्ञपादिषु पाठमस्याभ्युपगच्छन्तोऽपि केषाञ्चिन्मतत्वेनैवाभ्यधुः। न स्वतन्त्रत्वेन। ज्ञपादिपञ्चकान्तर्भावेन पठितॄणां णमुलि दीर्घविकल्प एक एव कृदन्ते फलमस्येति बोध्यम्।
  • ↑ २। ज्ञपादिषु अस्य धातोः पाठात् मित्त्वेन ‘मितां ह्रस्वः’ (६-४-९२) इति णौ उपधायाः ह्रस्वः। एवमेव ण्यन्तात्, ण्यन्तप्रकृतिकसन्नन्तादपि उपधाह्रस्वो बोध्यः।
  • ↑ (५१५)
  • ↑ ३। ‘हो ढः’ (८-२-३१) इति ढत्वे, अवसाने चर्त्वविकल्पे च रूपमेवम्।
  • ↑ ४। ल्यपि, ‘ल्यपि लघुपूर्वात्’ (६-४-५६) इति णेरयादेशे रूपमेवम्।
  • ↑ आ। ‘आससाद विरहय्य धरित्रीं चक्रवाकहृदयान्यभितापः।।’ कि। अ। ९। ४।


रह त्यागे


गणः- भ्वादिः
कर्मकः-सकर्मकः
इट्-सेट्
पदम्-परस्मैपदम्
कर्तरि लटि- रहति

अर्थ−
१. छोड्नु, त्याग्नु ।
वि-
१. छोड्नु, त्याग्नु, छुट्टिनु, भिन्न हुनु ।

कृदन्तरूपमाला

  • 1“रह त्यागे” 2 ‘रहयेत् रहति त्यागे, गतौ रंहेस्तु रंहति।’ 3 इति देवः।
  • राहकः-हिका, राहकः-हिका, रिरहिषकः-षिका, रारहकः-हिका;
  • रहिता-त्री।
  • रहयिता-त्री, रिरहिषिता-त्री, रारहिता-त्री;
  • इत्यादीनि सर्वाण्यपि रूपाणि भौवादिकचहतिवत् 4 बोध्यानि, 5 रहः विरहः- 6 विराही, 7 रहस्यम्, अनुरहसम्-अवरहसम्, तप्तरहसम्, 8 इति ञुण्प्रत्यये रूपमेवम्। राहुः, इमानि रूपाणि 9 अस्य धातोः विशेषेण भवन्ति।

प्रासङ्गिक्यः

  • ↑ (१३८६)
  • ↑ (१-भ्वादिः-७३१। सक। सेट्। पर।)
  • ↑ (श्लो। १९५)
  • ↑ (५१४)
  • ↑ ३। पचाद्यचि रूपमेवम्।
  • ↑ ४। ‘सुप्यजातौ --’ (३-२-७८) इनि णिनिप्रत्यये रूपमेवम्। विरही इति तु विरहोऽ- स्यास्तीति मत्वर्थीय इनिप्रत्यये रूपम्।
  • ↑ ५। औणादिके (९-४९) असुन्प्रत्यये रहः इति भवति। रहसि भवम् = रहस्यम् इत्यत्र दिगादित्वात् (४-३-५४) यत्प्रत्यये रूपमेवम्।
  • ↑ ६। ‘दॄसनिजनिचरिचटिरहिभ्यो ञुण्’ [१-८८]
  • ↑ [पृष्ठम्१११०+ २९]


रहि भासायाम्, भाषायाम् वा


गणः- चुरादिः
कर्मकः-सकर्मकः
इट्-सेट्
पदम्-उभयपदम्
कर्तरि लटि- रंहयति–ते

अर्थ−
१. चम्कनु, प्रकाशित हुनु,
२. बोल्नु, भाषण गर्नु ।

कृदन्तरूपमाला

  • 1“रहि भाषार्थः” 2 आस्वदीयः।
  • रंहकः-हिका, रिरंहयिषकः-षिका, 3 रंहकः-हिका;
  • रिरंहिषकः-षिका, 4 रारंहकः-हिका;
  • रंहयिता-त्री, रिरंहयिषिता-त्री, रंहिता-त्री, रिरंहिषिता, रारंहिता-त्री;
  • इत्यादीनि सर्वाण्यपि रूपाणि चौरादिकचम्पयतिवत् 5 बोध्यानि।

प्रासङ्गिक्यः

  • ↑ (१३९०)
  • ↑ (१०-चुरादिः-१७९९। सक। सेट्। उभ।)
  • ↑ १। अस्य धातोः इदित्त्वेन णिचो वैकल्पिकत्वात् णिजभावपक्षे रूपाणि लिखितानि।
  • ↑ २। अस्य धातोः इदित्त्वेन ‘अनिदिताम्--’ (६-४-२४) इति यङ्निमित्तकः नकार- लोपो न भवति।
  • ↑ (४९९)


रहि गतौ


गणः- भ्वादिः
कर्मकः-सकर्मकः
इट्-सेट्
पदम्-परस्मैपदम्
कर्तरि लटि- रंहति

अर्थ−
१. वेगले जानु ।

कृदन्तरूपमाला

  • 1“रहि गतौ” 2 ‘रहयेत् रहति त्यागे गतौ रंहेस्तु रंहति।’ 3 इति देवः।
  • रंहकः-हिका, रंहकः-हिका, रिरंहिषकः-षिका, रारंहकः-हिका;
  • रंहिता-त्री, रंहयिता-त्री, रिरंहिषिता-त्री, रारंहिता-त्री;
  • इत्यादीनि 4 रूपाणि सर्वाणि प्रातिस्विकरूपाणि विना भौवादिककम्पतिवत् 5 ज्ञेयानि।
  • शतरि रंहन्-न्ती, शानचि ण्यन्ते-रंहयमाणः, क्विपि-रन्-रंहौ-रंहः, इमानि रूपाणि अस्य धातोः विशेषेण भवन्तीति ज्ञेयम्।

प्रासङ्गिक्यः

  • ↑ (१३८९)
  • ↑ (१-भ्वादिः-७३२। सक। सेट्। पर।)
  • ↑ (श्लो। १९५)
  • ↑ [पृष्ठम्११११+ २५]
  • ↑ (१६६)



Correction: