संस्कृत-शब्दकोशः

रंह् राका

रा

रा दाने


गणः- अदादिः
कर्मकः-सकर्मकः
इट्-अनिट्
पदम्-परस्मैपदम्
कर्तरि लटि- राति

अर्थ−
१. दिनु,
२. मिल्नु ।

कृदन्तरूपमाला

  • 1“रा दाने” 2 ‘--आदाने’ इति केचित्।
  • ‘रैशब्दे रायतीतीष्टं, राऽऽदाने राति शब्लुकि।।’ 3 इति कर्तरि कप्रत्ययः।
  • ‘आतो लोप इटि च’ 4 इत्याकारलोपः।
  • स्त्रियामदन्तलक्षणे टापि सुरा = मद्यविशेषः। सुरः-सुरा 5 धीरः, द्रव्यरः, गोर, मुद्रः, शुभंर, राप, रिरासुः-रिरासयिषुः, राराः;
  • 6 रातव्यम्, रापयितव्यम्, रिरासितव्यम्, रारायितव्यम्;
  • राणीयम्, रापणीयम्, रिरासनीयम्, रारायणीयम्;
  • रेयम्, राप्यम्, रिरास्यम्, राराय्यम्;
  • 7 ईषद्राणः-दूराणः-सुराणः;
  • -- -- रायमाणः, रापयमाणः, रिरास्यमानः, राराय्यमानणः, रायः, रापः, रिरासः, रारायः;
  • रातुम्, रापयितुम्, रिरासितुम्, रारायितुम्;
  • रतिः, प्ररा, रापणा, रिरासा, राराया;
  • राणम्, रापणम्, रिरासनम्, रारायणम्;
  • रात्वा, रापयित्वा, रिरासित्वा, रारायित्वा;
  • प्रराय, प्रराप्य, प्ररिरासिष्य, प्रराराय्य;
  • रायम् २, रात्वा २, रापम् २, रापयित्वा २, रिरासम् २, रिरासित्वा २, रारायम् २;
  • रारायित्वा २, 8 इति कन्प्रत्ययः।
  • राका = पूर्णिमारूपकाल- विशेषः। राका, 9 इति त्रिप्प्रत्ययः।
  • रात्री इति तु, ‘कृदि- कारादक्तिनः’ 10 इति ङीषि बोध्यम्। रात्रिः, 11 इति डैप्रत्ययः।
  • एजन्तेऽपि, ‘कृन्मेजन्तः’ 12 इति नास्याव्ययत्वम्।
  • ‘च्विरव्ययम्’ 13 इत्यनेन सूत्रेण च्विप्रत्ययान्तस्यैवाव्ययत्वमुणादिषु, नान्यस्येति नियमनेन ज्ञापनात्। राः-रायौ-रायः।

प्रासङ्गिक्यः

  1. ↑ (१३९१)
  2. ↑ (२-अदादिः-१०५७। सक। अनि। पर।)
  3. ↑ (श्लो। ११ इति देवः। रायकः-यिका, रापकः-पिका, रिरासकः-सिका, रारायकः-यिका; राता-त्री, रापयिता-त्री, रिरासिता-त्री, रारायिता-त्री; रान् न्ती-ती, रापयन्-न्ती, रिरासन्-न्ती; -- रास्यन्-न्ती-ती, रापयिष्यन्-न्ती-ती, रिरासिष्यन्-न्ती-ती; -- व्यतिराणः, रापयमाणः, व्यति रिरासमानः, रारायमाणः; व्यतिरास्यमानः, रापयिष्यमाणः, रिरासिष्यमाणः, रारायिष्यमाणः; राः-रौ-राः, राप्-रापौ-रापा; -- -- रातम्-तः, रापितः, रिरासितः, रारायितः-तवान्; ३। ‘आतश्चोपसर्गे’ (३-१-१३६)
  4. ↑ (६-४-६४)
  5. ↑ ४। धियं राति = आदत्ते इति धीरः। कर्मण्युपपदे, ‘आतोऽनुपसर्गे कः’ (३-२-३) इति कर्तरि कप्रत्ययः। एवमेव मुद्रः इत्यादिष्वपि ज्ञेयम्।
  6. ↑ [पृष्ठम्१११२+ २५]
  7. ↑ १। ‘आतो युच्’ (३-३-१२८) इति ईषदाद्युपपदेषु खलपवादो युच्। णत्वम्।
  8. ↑ २। ‘कृदाधारा--’ [द। उ। ३-१८]
  9. ↑ ३। ‘राशदिभ्यां त्रिप्, [द। उ। १-३६]
  10. ↑ (ग। सू। ४-१-४५)
  11. ↑ ४। ‘रातेर्डैः’ [द। उ २-१०]
  12. ↑ (१-१-३९)
  13. ↑ [द। उ। २-१३]


Correction: