राधेश्वर
राध्य
राध्
राध वृद्धौ
गणः- दिवादिः
कर्मकः-अकर्मकः
इट्-अनिट्
पदम्-परस्मैपदम्
कर्तरि लटि- राध्यति
अर्थ−
१. सिद्ध हुनु,
२. बढ्नु ।
कृदन्तरूपमाला
- 1“राध संसिद्धौ” 2 3 ‘राधोऽकर्मकाद् वृद्धावेव’ 4 इति दिवादिषु पठ्यते।
- अस्यायमर्थः- एवकारो भिन्नकमः।
- अस्मादकर्मकादेव श्यन्।
- वृद्धिग्रहणं तु उदाहरणप्रदर्शनार्थम् यथा वृद्धावकर्मकः, एवमकर्मकेषु सर्वत्राप्यर्थेषु श्यनं लभतेऽयमिति।
- ततश्च, ‘वृद्धिक्षय-भय-जीवित-मरणं लज्जा-सत्ता-स्थिति-जागरणम्।
- शयन-क्रीडा-रुचि-दीप्त्यर्थं धातुगणं तमकर्मकमाहुः।।’ इत्युपात्तानामर्थानाम् वृद्धिशब्द उपलक्षक इति भावः।
- एवञ्च, ‘राध्येद् वृद्धावकर्मकात्।’ इति देववचने 5 वृद्धिग्रहणं तु अकर्मकक्रियोदाहरणमात्रमिति पुरुषकारे व्यक्तम्।
- धातुकाव्यव्याख्यायां तु 6 एवकारस्य इवार्थकत्वमाश्रित्य, ‘वृद्धावेव = वृद्ध्यर्थ इव।’ इति विवृतम्।
- काश्यपस्तु एवकारस्य यथाश्रुतान्वयमिच्छन् वृद्ध्यर्थ एव श्यन् इत्यभ्युपगतवानिति माधवधातुवृत्तितो ज्ञायते।
- सिद्ध्यर्थे ‘राध्यत्योदनः स्वयमेव’ इति भाष्य 7 प्रयोगात्, ‘देवदत्ताय राध्यति’ इति दैवपर्यालोचनार्थे काशिकायां 8 प्रयुक्तत्वात्, ‘-- यन्मह्यमपराध्यति।’ 9 इति द्रोहार्थे माघप्रयोगाच्च काश्यपोक्तिर्न समीचीना;
- उपात्तस्थलेषु सर्वत्राकर्मकत्वे मति वृद्ध्यर्थत्वाभावात्।
- विस्तरस्तु अन्यत्र। ‘राध्नोति संसिद्ध्यर्थे श्नौ, राध्येद् वृद्धावकर्मकात्।’ 10 इति देवः।
- “अस्य तु सिद्धिद्रोहदैवपर्यालोचनादयोऽर्थाः।” इति धा।
- का।
- व्याख्या 11।
- राधकः-धिका, राधकः-धिका, रिरात्सकः-त्सिका, राराधकः-धिका;
- राद्धा-राद्ध्री, राधयिता-त्री, रिरात्सिता-त्री, राराधिता-त्री;
- इतीमानि सर्वाण्यपि रूपाणि दैवादिकक्षुध्यतिवत् 12 बोध्यानि।
- देवदत्ताय 13 राध्यन्-न्ती-ती, 14 राध्यन् ओदनः स्वयमेव, 15 राद्धिः, इतीमान्य- स्माद् भवन्ति।
- 16
प्रासङ्गिक्यः
राध संसिद्धौ
गणः- स्वादिः
कर्मकः-अकर्मकः
इट्-अनिट्
पदम्-परस्मैपदम्
कर्तरि लटि- राध्नोति
अर्थ−
१. पूरा गर्नु, सिद्ध गर्नु ।
अप-
१. अपराध गर्नु ।
आ-
१. आराधना गर्नु, उपासना गर्नु ।
सम्-
१. सिद्ध गर्नु ।