संस्कृत-शब्दकोशः

रिचिर् रिज्या

रिच्

रिच वियोजनसम्पर्चनयोः


गणः- चुरादिः
कर्मकः-सकर्मकः
इट्-सेट्
पदम्-उभयपदम्
कर्तरि लटि- रेचयति–ते

अर्थ−
१. एकत्र गर्नु, जोड्नु बाँध्नु,
२. अलग-अलग गर्नु, फैलाउनु,
३. पेट साफ गर्नु, पखाला लाग्नु, रेचक औषधी दिनु ।

कृदन्तरूपमाला

  • 1“रिच वियोजनसंपर्चनयोः” 2 आधृषीयः।
  • ‘-- वियोजनसंयमनयोः इति मुकुटः’ इति अमरसुधा 3।
  • सम्पर्चनम् = मिश्रीकरणम्।
  • अभिधानवैचित्र्यात् धातोरस्य परस्परविरुद्धार्थकत्वम्।
  • ‘रिचिर् विरेचने रिङ्क्ते रिणक्ति श्ने, वियोजने।
  • सम्पर्चने च यौ वा णौ रेचयत्यपि रेचति।।’ 4 इति देवः।
  • रेचकः-चिका, रिरेचयिषकः-षिका, रेचकः-चिका, रिरिक्षकः-क्षिका, रेरिचकः-चिका;
  • रेचयिता-त्री, रिरेचयिषिता-त्री, रेचिता-त्री, रिरिक्षिता-त्री, रेरिचिता-त्री;
  • इत्यादीनि सर्वाण्यपि रूपाणि चौरादिकचर्पयतिवत् 5 बोध्यानि।
  • आधृषीयत्वादस्य णिज्विकल्पः।
  • णिजभावपक्षे ‘पचिं वचिं विचिरिचि- रञ्जिपृच्छतीन्--’ 6 इत्यनिट्कारिकासु पाठा- दनिट्त्वं बोध्यम्।
  • अत्र ‘रिचि--’ इति रौधादिकस्य, चुरादिषु पठितस्य णिजभावपक्षे औत्सर्गिकशब्विकरणकस्य च सामान्येन ग्रहणम्।
  • णिजभावपक्षे निष्ठायाम्-- 7 विरिक्तः।

प्रासङ्गिक्यः

  1. ↑ (१४०३)
  2. ↑ (१०-चुरादिः-१८१७। सक। सेट्। उभ।)
  3. ↑ (१-१७)
  4. ↑ (श्लो। ५२)
  5. ↑ (५५४)
  6. ↑ (व्याघ्रभूतिकारिका ७-२-१०)
  7. ↑ आ। ‘अजरद्वृषवद् विरिक्तपीडः पुनरभ्येत्य विशिष्टचित्तताऽपि।’ धा। का। ३-४९।

रिचिर् विरेचने


गणः- रुधादिः
कर्मकः-सकर्मकः
इट्-अनिट्
पदम्-उभयपदम्
कर्तरि लटि- रिणक्ति–रिङ्क्ते

अर्थ−
१. मल शुद्ध हुनु, पेट साफ हुनु, पखाला लाग्नु,
२. गर्भपात गर्नु, गर्भ झार्नु ।
अति-
१. अतिरिक्त हुनु, जगेडा हुनु, अतिक्रमण गर्नु ।
वि-
१. पेट साफ हुनु, पखाला लाग्नु, झाडाबान्ता हुनु ।

कृदन्तरूपमाला

  • 1“रिचिर् विरेचने” 2 ‘विरेचनम् = निःसारणम्।’ इति क्षीरस्वामी।
  • ‘रिचिर् विरेचने रिङ्क्ते रिणक्ति श्ने, वियोजने।
  • सम्पर्चने च यौ वा णौ रेचयत्यपि रेचति।।’ 3 इति देवः।
  • रेचकः-चिका, रेचकः-चिका, 4 रिरिक्षकः-क्षिका, रेरिचकः-चिका;
  • रेक्ता-रेक्त्री, रेचयिता-त्री, रिरिक्षिता-त्री, रेरिचिता-त्री;
  • 5 6 रिञ्चन् 7 -ती, रेचयन्-न्ती, रिरिक्षन्-न्ती;
  • -- रेक्ष्यन्-न्ती-ती, रेचयिष्यन्-न्ती-ती, रिरिक्षिष्यन्-न्ती-ती;
  • -- रिञ्चानः, रेचयमानः, रिरिक्षमाणः, रेरिच्यमानः;
  • रेक्ष्यमाणः, रेचयिष्यमाणः, रिरिक्षिष्यमाणः, रेरिचिष्यमाणः;
  • 8 रेक्यम्, रेकः-अतिरेकः-व्यतिरेकः-उद्रेकः, 9 विरेचनम्, 10 रिक्तः, 11 विरिञ्चः-विरिञ्चिः-विरिचिनः, 12 रिक्थम्, 13 रेक्णः, इत्यादीनि सर्वाण्यपि रूपाणि प्रातिस्विकरूपाणि विना रौधादिकभुनक्तिवत् 14 बोध्यानि।

प्रासङ्गिक्यः

  1. ↑ (१४०४)
  2. ↑ (७-रुधादिः-१४४१। अक। अनि। उभ।)
  3. ↑ (श्लो। ५२)
  4. ↑ १। अनिटकारिकासु (काशिका ७-२-१०) पाठादस्यानिट्त्वम्। ‘इको झल्’ (१-२-९) इति सनः कित्त्वे, ‘चोः कुः’ (८-२-३०) इति कुत्वे षत्वे च रूपम्।
  5. ↑ [पृष्ठम्१११८+ २८]
  6. ↑ १। शतरि, विकरणप्रत्यये श्नमि, ‘श्नसोरल्लोपः’ (६-४-१११) इत्यकारलोपे, नकारस्य अनुस्वारे परसवर्णे च रूपमेवम्।
  7. ↑ आ। ‘… प्रच्छिन्नसंशयमतिर्मुदमाशु रिञ्चन्।’ धा। का। ३-१।
  8. ↑ २। निष्ठायामनिट्त्वात्, ण्यति घञि च ‘चजोः कु घिण्ण्यतोः’ (७-३-५२) इति कुत्वम्।
  9. ↑ ३। विरेचनम् = रक्तस्रावरूपो व्याधिविशेषः। ‘रोगाख्यायां ण्वुल् बहुलम्’ (३-३-१०८) इत्यत्र बहुलग्रहणात् व्याधिवाचकत्वेऽपि ल्युडेवात्र।
  10. ↑ ४। ‘क्तिच्क्तौ च संज्ञायाम्’ (३-३-१७४) इति संज्ञायां कर्तरि क्तप्रत्ययः। रिक्तः = निर्धनः।
  11. ↑ ५। “विरिञ्चः--विरिञ्चिः--विरिचिनः, एते पृषोदरादयः (६-३-१०९)।” इति मा। धा। वृत्तिः।
  12. ↑ ६। ‘पातॄतुदिवचिरिचि--’ (द। उ। ६। ३२) इति थक्प्रत्ययः। कित्त्वान्न गुणः। रिच्यते तदिति रिक्थम् = गृहमूलधनम्। गोत्रजद्रव्यमिति केचित्।
  13. ↑ ७। ‘रिचेर्धने घिच्च’ (द। उ। ९। ५९) इति असुन्प्रत्ययः। घित्त्वात् कुत्वम्। रेक्णः = धनम्। ‘रेकः--’ इति दशपाद्युणादिवृत्तौ पूर्वसूत्रान्नुममनुवर्त्यो- दाहृतं दृश्यते। तत्तु तत्त्वबोधिन्यादिषु खण्डितम्।
  14. ↑ (११६२)


Correction: