रिचिर्
रिज्या
रिच्
रिच वियोजनसम्पर्चनयोः
गणः- चुरादिः
कर्मकः-सकर्मकः
इट्-सेट्
पदम्-उभयपदम्
कर्तरि लटि- रेचयति–ते
अर्थ−
१. एकत्र गर्नु, जोड्नु बाँध्नु,
२. अलग-अलग गर्नु, फैलाउनु,
३. पेट साफ गर्नु, पखाला लाग्नु, रेचक औषधी दिनु ।
कृदन्तरूपमाला
- 1“रिच वियोजनसंपर्चनयोः” 2 आधृषीयः।
- ‘-- वियोजनसंयमनयोः इति मुकुटः’ इति अमरसुधा 3।
- सम्पर्चनम् = मिश्रीकरणम्।
- अभिधानवैचित्र्यात् धातोरस्य परस्परविरुद्धार्थकत्वम्।
- ‘रिचिर् विरेचने रिङ्क्ते रिणक्ति श्ने, वियोजने।
- सम्पर्चने च यौ वा णौ रेचयत्यपि रेचति।।’ 4 इति देवः।
- रेचकः-चिका, रिरेचयिषकः-षिका, रेचकः-चिका, रिरिक्षकः-क्षिका, रेरिचकः-चिका;
- रेचयिता-त्री, रिरेचयिषिता-त्री, रेचिता-त्री, रिरिक्षिता-त्री, रेरिचिता-त्री;
- इत्यादीनि सर्वाण्यपि रूपाणि चौरादिकचर्पयतिवत् 5 बोध्यानि।
- आधृषीयत्वादस्य णिज्विकल्पः।
- णिजभावपक्षे ‘पचिं वचिं विचिरिचि- रञ्जिपृच्छतीन्--’ 6 इत्यनिट्कारिकासु पाठा- दनिट्त्वं बोध्यम्।
- अत्र ‘रिचि--’ इति रौधादिकस्य, चुरादिषु पठितस्य णिजभावपक्षे औत्सर्गिकशब्विकरणकस्य च सामान्येन ग्रहणम्।
- णिजभावपक्षे निष्ठायाम्-- 7 विरिक्तः।
प्रासङ्गिक्यः
रिचिर् विरेचने
गणः- रुधादिः
कर्मकः-सकर्मकः
इट्-अनिट्
पदम्-उभयपदम्
कर्तरि लटि- रिणक्ति–रिङ्क्ते
अर्थ−
१. मल शुद्ध हुनु, पेट साफ हुनु, पखाला लाग्नु,
२. गर्भपात गर्नु, गर्भ झार्नु ।
अति-
१. अतिरिक्त हुनु, जगेडा हुनु, अतिक्रमण गर्नु ।
वि-
१. पेट साफ हुनु, पखाला लाग्नु, झाडाबान्ता हुनु ।
कृदन्तरूपमाला
- 1“रिचिर् विरेचने” 2 ‘विरेचनम् = निःसारणम्।’ इति क्षीरस्वामी।
- ‘रिचिर् विरेचने रिङ्क्ते रिणक्ति श्ने, वियोजने।
- सम्पर्चने च यौ वा णौ रेचयत्यपि रेचति।।’ 3 इति देवः।
- रेचकः-चिका, रेचकः-चिका, 4 रिरिक्षकः-क्षिका, रेरिचकः-चिका;
- रेक्ता-रेक्त्री, रेचयिता-त्री, रिरिक्षिता-त्री, रेरिचिता-त्री;
- 5 6 रिञ्चन् 7 -ती, रेचयन्-न्ती, रिरिक्षन्-न्ती;
- -- रेक्ष्यन्-न्ती-ती, रेचयिष्यन्-न्ती-ती, रिरिक्षिष्यन्-न्ती-ती;
- -- रिञ्चानः, रेचयमानः, रिरिक्षमाणः, रेरिच्यमानः;
- रेक्ष्यमाणः, रेचयिष्यमाणः, रिरिक्षिष्यमाणः, रेरिचिष्यमाणः;
- 8 रेक्यम्, रेकः-अतिरेकः-व्यतिरेकः-उद्रेकः, 9 विरेचनम्, 10 रिक्तः, 11 विरिञ्चः-विरिञ्चिः-विरिचिनः, 12 रिक्थम्, 13 रेक्णः, इत्यादीनि सर्वाण्यपि रूपाणि प्रातिस्विकरूपाणि विना रौधादिकभुनक्तिवत् 14 बोध्यानि।
प्रासङ्गिक्यः