रीती
रुक्म
रु
रु शब्दे
गणः- अदादिः
कर्मकः-अकर्मकः
इट्-सेट्
पदम्-परस्मैपदम्
कर्तरि लटि- रौति
अर्थ−
१. शब्द गर्नु, आवाज गर्नु ।
कृदन्तरूपमाला
- 1“रु शब्दे” 2 ‘-- रवते रौति शब्दने।।’ 3 इति देवः।
- रावकः-विका, रावकः-विका, 4 रुरूषकः- 5 रिरावयिषकः-षिका, रोरूयकः-यिका;
- रविता-त्री, रावयिता-त्री, रुरूषिता-रिरावयिषिता-त्री, रोरूयिता-त्री;
- इत्यादीनि सर्वाण्यपि रूपाणि आदादिकक्ष्णौतिवत् 6 बोद्ध्यानि।
- 7 इति युच्प्रत्यये निष्पादितवान्। रवणः, 8 संरावः, 9 10 रवः, 11 रावः, 12 अल्परावः, मञ्जुरावः, 13 आरावः-आरवः, 14 मयूरः, 15 16 रुरूषुः, 17 ध्वाङ्क्षरावी, 18 मण्डूकरावी, 19 सांराविणम् 20, 21 रोरूयः 22 लोकरावणः, 23 रविः, 24 रुरुः, 25 पुरूरवाः इतीमान्यस्माद् भवन्ति।
प्रासङ्गिक्यः
रुङ् गतिरेषणयोः
गणः- भ्वादिः
कर्मकः-गतौ सकर्मकः, रेषणेऽकर्मकः
इट्-अनिट्
पदम्-आत्मनेपदम्
कर्तरि लटि- रवते
अर्थ−
१. जानु, हिँड्नु,
२. मार्नु, दुःख दिनु,
३. बोल्नु, भाषण गर्नु,
४. रिसाउनु, क्रोध गर्नु ।
कृदन्तरूपमाला
- 1“रुङ् गतिरेषणयोः” 2 3 अनिट्कारिकाप्रकरणे, पर्युदस्तेषु ‘गणस्थमूदन्तम्, उतां च रुस्नुवौ--’ 4 इत्यत्र ‘रु’ इत्यनेन निरनुबन्धकपरिभाषया 5 आदादिकरौतेरेव ग्रहणम्, नास्य;
- तेनास्यानिट्त्वमिति न्यास- कारादयः।
- तत्त्वबोधिन्यादिषु तु “-- ‘रु शब्दे, रुङ् गतिरेषणयोः’ इत्युभयोर्ग्रहणं निरनुबन्धकपरिभाषया, ‘लुग्विकरणालुग्विकरणयोः--’ 6 इति परिभाषया च।
- न च साहचर्यात् लुग्विकरणस्यैव ग्रहणम् इति शङ्क्यम्।
- तस्यानित्यत्वात्।” इति प्रतिपादनात् आदादिकरौतिवत् भौवादिकरवतेरपि पर्युदासेषु ग्रहणात् अस्यापि सेट्त्वमिति ज्ञायते।
- ‘संनत्स्याम्यथ योद्धुं किं न रोष्ये सत्त्वहीनवत्।’ 7 इत्यत्र रोष्ये इति अनिट्त्वेन प्रयोगात् अनिट्- कारिकायां पर्युदासे भौवादिकस्य न ग्रहणमिति शब्दरस्नम्।
- परं तु जयमङ्ग- लादिप्राचीनव्याख्यादृतः, साम्प्रतमुपलभ्यमानश्च सार्वत्रिकः पाठः-- ‘संनत्स्याम्यथ वा योद्धुं न कोष्ये सत्त्वहीनवत्।’ इत्येवम्।
- अतो नैतदत्र गमकत्वेन प्रतीम इत्यलमत्र।
- उभयथाऽपि सन्नन्ते, ‘सनि ग्रहगुहोश्च’ 8 इतीण्निषेधः।
- तत्त्वबोधिनीकारादीनां मतेतृजादिषु इडागमे रविता-त्री, रवितव्यम् इत्या- दीनि रूपाणि यथायथं बोध्यानि। ‘-- रवते रौति 9 शब्दने।।’ 10 इति देवः।
- रावकः-विका, रावकः-विका, रुरूषकः-रिरावयिषकः-षिका, रोरूयकः-यिका;
- 11 रोता-रोत्री, रावयिता-त्री, रुरूषिता-त्री, रोरूयिता-त्री;
- इत्यादीनि सर्वाण्यपि रूपाणि भौवादिककवतिवत् 12 ज्ञेयानि।
- 13 रुतम् 14।
प्रासङ्गिक्यः