लक्षी
लक्ष्म
लक्ष्
लक्ष आलोचने
गणः- चुरादिः
कर्मकः-सकर्मकः
इट्-सेट्
पदम्-आत्मनेपदम्
कर्तरि लटि- लक्षयते
अर्थ−
१. विवेचन गर्नु, निरुपण गर्नु ।
उप-
१. एक अर्थमा अर्को अर्थको बोध हुनु ।
सम्-
१. राम्रोसँग जान्नु ।
कृदन्तरूपमाला
- 1“लक्ष आलोचने” 2 आकुस्मीयः।
- ‘आलोचनार्थाण्णिचि लक्षयेत, स्याल्लक्षयेत् लक्षयतेऽङ्कनार्थात्।।’ 3 इति देवः।
- लक्षकः-क्षिका, लिलक्षयिषकः-षिका, लक्षयिता-त्री, लिलक्षयिषिता-त्री;
- इत्यादीनि सर्वाणि रूपाणि चौरादिकपक्षयतिवत् 4 ज्ञेयानि।
- तुमुनि-लक्षयितुम् 5।
प्रासङ्गिक्यः
लक्ष दर्शनाङ्कनयोः
गणः- चुरादिः
कर्मकः-सकर्मकः
इट्-सेट्
पदम्-उभयपदम्
कर्तरि लटि- लक्षयति–ते
अर्थ−
१. हेर्नु,
२. चिह्न लगाउनु, सङ्केत लगाउनु ।
उप-
१. एक अर्थमा अर्को अर्थको बोध हुनु ।
सम्-
१. राम्रोसँग जान्नु ।
कृदन्तरूपमाला
- 1“लक्ष दर्शनाङ्कनयोः” 2 3 मैत्रेयरक्षितमतेनास्य धातोः स्वरितेत्त्वं न इति पुरुषकारोपात्त 4 वचनाज्ज्ञायते।
- पदमञ्जर्यामपि ‘एष विधिर्न चुरादिण्यन्तात् स्यादिति कश्चन निश्चिनुते स्म।
- आप्तवचोऽत्र न किञ्चन दृष्टं लक्षयतेः स्वरितेत्त्वमनार्षम्।।’ 5 इति पारायणग्रन्थस्थश्लोकोदाहरणप्रदर्शनपुरस्सरं साधितम्। ‘अङ्कनम् = चिह्नम्’ इति क्षीरस्वामी।
- ‘आलोचनार्थाण्णिचि लक्षयेत, स्याल्लक्षयेल्लक्षयतेऽङ्कनार्थात्।।’ 6 इति देवः।
- लक्षकः-क्षिका, लिलक्षयिषकः-षिका;
- लक्षयिता-त्री लिलक्षयिषिता-त्री;
- इत्यादीनि सर्वाण्यपि रूपाणि चौरादिकपक्षयतिवत् 7 ज्ञेयानि।
- ल्युटि-लक्षणम् 8 यति-लक्ष्यम्, लाक्षणिकः, 9 लक्ष्मीः, 10 लक्ष्मणः इमानि रूपाणि अस्य धातोः इति विशेषः।
- ल्यपि-उपलक्ष्य।
प्रासङ्गिक्यः