संस्कृत-शब्दकोशः

लस् लस्त

लस्ज्

ओलस्जी व्रीडायाम्


गणः- तुदादिः
कर्मकः-अकर्मकः
इट्-सेट्
पदम्-आत्मनेपदम्
कर्तरि लटि- लज्जते

अर्थ−
१. लज्जित हुनु, मुख लुकाउनु ।

कृदन्तरूपमाला

  • 1“ओ लस्जी व्रीडायाम्” 2 “अयं तवर्गपञ्चमादिः 3 इति चान्द्राः” इति मा।
  • धा।
  • वृत्तौ।
  • “आत्रेयमैत्रेयस्वामिसंमताकारशाकटायनादयः सर्वे यणादिमेवाहुः।
  • 4 ‘नग्नशब्दस्तु पृषोदरादित्वाद्व्यत्ययेन’ इति मैत्रेयः” इति धातुवृत्तौ दर्शनाज्ज्ञायते।
  • क्षीरस्वामी नग्ननग्निकाशब्दव्याख्याने ‘ओ णजी’ इति पठति।
  • द्रष्टव्या अमरटीका 5।
  • 6 लज्जकः-ज्जिका, लज्जकः-ज्जिका, लिलज्जिषकः-षिका, लालज्जकः-ज्जिका;
  • लज्जिता-त्री, लज्जयिता-त्री, लिलज्जिषिता-त्री, लालज्जिता-त्री;
  • इत्यादीनि रूपाणि सर्वाणि सन्नन्तरूपाणि विना प्रायः तौदादिकमज्जतिवत् 7 ऊह्यानि।
  • 8 लज्जितम्, शुद्धात् शानचि-- 9 लज्जमानः, लज्जिष्यमाणः, शत्रन्तात् सनि लिलज्जिषन्, लिलज्जिषिष्यन्, इमानि रूपाणि भवन्तीति विशेषः।

प्रासङ्गिक्यः

  • ↑ (१४७७)
  • ↑ (६-तुदादिः-१२९१। अक। सेट्। आत्म।)
  • ↑ [नस्जी]
  • ↑ [पृष्ठम्११५७+ २६]
  • ↑ (३-१-३९, २-६-९)
  • ↑ १। अत्र धातुसकारस्य ‘झलां जश् झशि’ (८-४-५३) इति जश्त्वेन दकारः। तस्य च श्चुत्वेन जकारः इति केचित्। श्चुत्वे कर्तव्ये सति जश्त्वनिष्पन्नस्य दकारस्या- सिद्धत्वात् नैतत् सारम्। वस्तुतः जश्त्वस्यासिद्धत्वात् सकारस्य श्चुत्वेन शकारः। तस्य च ‘झलां जश् झशि’ (८-४-५३) इति जश्त्वेन जकार इत्येव न्याय्यम्।
  • ↑ (१२३५)
  • ↑ २। लज्जितम् इत्यस्योपपत्तिस्तु लज्जाशब्दात् ‘तदस्य संजातं तारकादिभ्य इतच्’ (५-२-३६) इति इतच्प्रत्यये।
  • ↑ आ। ‘…अलग्नमनसः खलानवशलज्जमानाङ्गनम्।।’ धा। का। २-७२।



Correction: