संस्कृत-शब्दकोशः

लिखित लिख्या

लिख्

लिख अक्षरविन्यासे


गणः- तुदादिः
कर्मकः-सकर्मकः
इट्-सेट्
पदम्-परस्मैपदम्
कर्तरि लटि- लिखति

अर्थ−
१. लेख्नु ।

कृदन्तरूपमाला

  • 1“लिख अक्षरविन्यासे” 2 इत्यत्र ‘कुटस्य आदिः कुटादिः, कुटादिश्च कुटादयश्च इति बहुव्रीहितत्पुरुषयोः सह विवक्षां कृत्वा--कुटादेः पूर्वं पठितस्य अस्यापि धातोः ङित्त्वमभ्युपगच्छन्ति।
  • पक्षोऽयं पदमञ्जर्यां दूषितः;
  • ‘अपाच्चतुष्पा- च्छकुनिष्वालेखने’ 3 इति निर्देशात् ‘रलो व्युपधात्--’ 4 इत्यत्र काशिकादिषु लिखित्वा--लेखित्वा लिलिखिषति-लिलेखिषति इत्युदाहरणात्, ‘ईश्वरे तोसुन्--’ 5 इत्यत्र ‘विलिखितुमित्यर्थः’ इति वृत्तौ विवरणात् च न समञ्जसोऽयं पक्ष इति।
  • वर्धमानप्रभृतयोऽपि एवमेवाहुरिति धातुवृत्त्यादिषु स्पष्टम्।
  • लिखितुम्, लिखिष्यते इत्यादि तु ‘संज्ञापूर्वको विधिरनित्यः’ 6 इति कथञ्चित् समर्थनीयम्।
  • एतेन ‘लिखन- संक्षेपनिर्बन्धवतो दीधितिकारस्य--’ इति गदाधरोक्तिरपि व्याख्याता।
  • बोपदेवव्याकरणे मुग्धबोधे तु कुटादित्वमेवास्यापि धातोरङ्गीकृतम्। लेखकः-खिका, लेखकः-खिका, लिलेखिषकः- 7 लिलिखिषकः-षिका, लेलिखकः-खिका;
  • लेखिता-त्री, लेखयिता-त्री, लिलेखिषिता-लिलिखिषिता-त्री, लेलिखिता-त्री;
  • इत्यादीनि रूपाणि सर्वाण्यपि तौदादिकिलतिवत् 8 ज्ञेयानि।
  • लेखः, विलेखनः 9 लेखनी, 10 हृल्लेखः, विलेखी- 11 व्यावलेखी, 12 लेखा-रेखा, 13 14 दन्तलेखकः इत्यादीनि रूपाण्यस्य धातोः विशेषेण भवन्तीति ज्ञेयम्।
  • 15 लिखापयति।

प्रासङ्गिक्यः

  • ↑ (१४८५)
  • ↑ (६-तुदादिः-१३६५। सक। सेट्। पर। [अ] तुदादिष्वयं धातुः कुटादेः पूर्वं पठितः। ञित्णिद्भिन्नानां प्रत्ययानां ङिद्वद्भावः कुटादीनां विधीयते--कुटितुम्--कुटिता इत्यादिरूपसिद्धये। एवं ‘लिखितुं विश्वसृजोऽपि शक्तिहानिः’, ‘स्वयमेव लिखिष्यते’ इत्यादिषु गुणाभावोपपत्त्यर्थं ‘गाङ्कुटादिभ्यः--’ (१-२-१)
  • ↑ (६-१-१४२)
  • ↑ (१-२-२६)
  • ↑ (३-४-१३)
  • ↑ (परि। ९५)
  • ↑ १। सन्नन्ते ‘रलो व्युपधात्--’ (१-२-२६) इति कित्त्वविकल्पनात् रूपद्वयमिति ज्ञेयम्।
  • ↑ (१९३)
  • ↑ २। ल्युडन्तात् स्त्रियां टित्त्वेन ङीपि रूपमेवम्।
  • ↑ ३। हृदयं लिखतीति हृल्लेखः। ‘कर्मण्यण्’ (३-२-१) इत्यणि ‘हृदयस्य हृल्लेख--’ (६-३-५०) इति हृदयशब्दस्य ‘हृत्’ इत्यादेशः।
  • ↑ ४। कर्मव्यतीहारे णचि, ‘णचस्स्त्रियाम्--’ (५-४-१४) इत्यञि ङीपि रूपमेवम्।
  • ↑ ५। भिदादि (३-३-१०४) पाठादङि रूपमेवम्। तत्रेव गणे पाठात् लकारस्य पाक्षिको रेफादेशश्च। तेन रेखा इत्यपि साधुः।
  • ↑ [पृष्ठम्११६१+ २७]
  • ↑ १। दन्तस्य लेखकः दन्तलेखकः। ‘नित्यं क्रीडाजीविकयोः’ (२-२-१७) इति षष्ठ्यन्तस्य दन्तशब्दस्य अकारान्तेन लेखकशब्देन तत्पुरुषसमासः। यस्य गजवराहादिदन्तेषु चित्रं विलिख्य तन्मूलिका जीविका तत्रैवायं--जीविकार्थे समास इति बोध्यम्।
  • ↑ २। लिखम् आचष्टे लिखापयतीति निष्पाद्य, ‘अर्थवेदयोरप्यापुग्वक्तव्यः’ (वा। ३-१-२५) इत्यत्र ‘अपुक्’ इति ह्रस्वोच्चारणेनैव सिद्धौ दीर्घोच्चारणात् उपात्तभिन्नेष्वपि आपुग् भवतीति मत्वा अत्रापि आपुग् भवतीति आत्रेयमतं धातुवृत्तौ प्रतिपादितमि- हानुसन्धेयम्।



Correction: