संस्कृत-शब्दकोशः

लिपी लिप्त

लिप्

लिप उपदेहे


गणः- तुदादिः
कर्मकः-सकर्मकः
इट्-अनिट्
पदम्-उभयपदम्
कर्तरि लटि- लिम्पति–ते

अर्थ−
१. लिप्नु, पोत्नु,
२. बढाउनु, धेरै गर्नु ।

कृदन्तरूपमाला

  • 1“लिप उपदेहे” 2 मुचादिः।
  • ‘उपदेहो = वृद्धिः’ इति क्षीरस्वामी।
  • “अस्य 3 दहनार्थ- त्वमप्याह शङ्कराचार्यः” इति धा।
  • का।
  • व्याख्यायाम् 4।
  • 5 ‘--उपदाहे’ इति मैत्रेयः।
  • न्यासेऽपि 6।
  • लेपकः-पिका, लेपकः-पिका, लिलिप्सकः-प्सिका, लेलिपकः-पिका;
  • लेप्ता-त्री, लेपयिता-त्री, लिलिप्सिता-त्री, लेलिपिता-त्री;
  • 7 लिम्पन्-न्ती-ती, लेपयन्-न्ती, लिलिप्सन्-न्ती;
  • -- इत्यादीनि रूपाणि सर्वाण्यपि तौदादिकदिशतिवत् 8 बोध्यानि।
  • लिम्पः 9, निलिम्पाः 10 11, 12 प्रलिपः, लिपिः 13 इति इन्प्रत्ययः।
  • ‘दिवाविभा--’ 14 इत्यत्र ‘लिपिः लिबि--’ इति निर्देशात् अस्यैव पाक्षिको बकारः पकारस्य, तेन लिबिः, इत्यपि साधुरिति धातुवृत्तिः। -लिबिः इमानि रूपाण्यधिकानीति विशेषः।

प्रासङ्गिक्यः

  • ↑ (१४८८)
  • ↑ (६-तुदादिः-१४३३। सक। अनि। उभ।)
  • ↑ [धातोः]
  • ↑ (२-५८)
  • ↑ [पृष्ठम्११६२+ २४]
  • ↑ (३-१-१३८ सूत्रे)
  • ↑ १। विकरणप्रत्यये शप्रत्यये परतः, ‘शे मुचादीनाम्’ (७-१-५९) इति नुमागमे रूपमेवम्।
  • ↑ (८४१)
  • ↑ २। अनुपसर्गे लिपेः, ‘अनुपसर्गात्--’ (३-१-१३८) इति शप्रत्यये ‘शे मुचादीनाम्’ (७-१-५९) इति नुमि रूपमेवम्। लिम्पतीति-लिम्पः।
  • ↑ ३। नौ उपपदे धातोः ‘नौ लिम्पेरिति वक्तव्यम्’ (वा। ३-१-१३८) इति शप्रत्यये रूपमेवं भवति। निलिम्पा नाम देवाः।
  • ↑ [देवाः]
  • ↑ ४। उपसर्गे उपपदे इगुपधलक्षणकप्रत्यय एव।
  • ↑ ५। ‘इगुपधात् किच्च’ [द। उ। १-४८]
  • ↑ (३-२-२१)



Correction: