संस्कृत-शब्दकोशः

लिह ली

लिह्

लिह आस्वादने


गणः- अदादिः
कर्मकः-सकर्मकः
इट्-अनिट्
पदम्-उभयपदम्
कर्तरि लटि- लेढि–लीढे

अर्थ−
१. चाट्नु, चाख्नु ।

कृदन्तरूपमाला

  • 1“लिह आस्वादने” 2 लेहकः-हिका, लेहकः-हिका, 3 लिलिक्षकः-क्षिका, लेलिहकः-हिका;
  • 4 लेढा-ढ्री, लेहयिता-त्री, लिलिक्षिता-त्री, लेलिहिता-त्री;
  • लिहन्-ती, लेहयन्-न्ती, लिलिक्षन्-न्ती;
  • -- लेक्ष्यन्-न्ती-ती, लेहयिष्यन्-न्ती-ती, लिलिक्षिष्यन्-न्ती-ती;
  • -- लिहानः, लेहयमानः, लिलिक्षमाणः, लेलिह्यमानः;
  • लेक्ष्यमाणः, लेहयिष्यमाणः, लिलिक्षिष्यमाणः, लेलिहिष्यमाणः;
  • लिट्-लिड्-लिहौ-लिहः;
  • -- -- -- 5 लीढम्-ढः-ढवान्, लेहितः-तम्, लिलिक्षितः, लेलिहितः-तवान्;
  • 6 लेहः, 7 लेहनः, 8 मधुलेही, 9 10 वहंलिहः-अब्भ्रंलिहः, 11 लेलिहानः, लेहः, लिलिक्षुः, लेलिहः;
  • लेढव्यम्, लेहयितव्यम्, लिलिक्षितव्यम्, लेलिहितव्यम्;
  • लेहनीयम्, लेहनीयम्, लिलिक्षणीयम्, लेलिहनीयम्;
  • लेह्यम्, लेह्यम्, लिलिक्षिष्यम्, लेलिह्यम्;
  • ईषल्लेहः-दुर्लेहः-सुलेहः;
  • -- -- -- लिह्यमानः, लेह्यमानः, लिलिक्षिष्यमाणः, लेलिह्यमानः;
  • लेहः, मधुलेहः, लेहः, लिलिक्षः, लेलिहः;
  • लेढुम्, लेहयितुम्, लिलिक्षितुम्, लेलिहितुम्;
  • लीढिः, लेहना, लिलिक्षा, लेलिहा;
  • लेहनम्, लेहनम्, लिलिक्षणम्, लेलिहनम्;
  • लीढ्वा, लेहयित्वा, लिलिक्षित्वा, लेलिहित्वा;
  • संलिह्य, संलेह्य, संलिलिक्ष्य, संलेलिह्य;
  • लेहम् २, लीढ्वा २, लेहम् २, लेहयित्वा २, लिलिक्षम् २, लिलिक्षित्वा २, लेलिहम् २;
  • लेलिहित्वा २।

प्रासङ्गिक्यः

  • ↑ (१४९१)
  • ↑ (२-अदादिः-१०१६। सक। अनि। उभ।)
  • ↑ १। सन्नन्ते ‘हलन्ताच्च’ (१-२-१०) इति सनः कित्त्वात् न गुणः। धातुहकारस्य ‘हो ढः’ (८-२-३१) इति ढत्वे, ‘षढोः कः सि’ (८-२-४१) इति तस्य ककारे ‘इण्कोः’ (८-३-५७) ‘आदेशप्रत्यययोः’ (८-३-५९) इति प्रत्ययसकारस्य षकारे च रूपम्। एवमुपर्यपि यथासम्भवं ज्ञेयम्।
  • ↑ २। धातुहकारस्य ढत्वे, ‘झषस्तथोः--’ (८-२-४०) इति धत्वे, ‘ष्टुना ष्टुः’ (८-४-४१) इति ष्टुत्वेन धकारस्य ढकारे, ‘ढो ढे लोपः’ (८-३-११) इति धातुस्थढकारस्य लोपे रूपमेवम्। एवमेव तुमुनादिषु प्रक्रिया ज्ञेया।
  • ↑ ३। अत्रापि ढत्वधत्वष्टुत्वढलोपाः। प्रत्ययस्य कित्त्वान्न प्रकृतेर्गुणः।
  • ↑ ४। इगुपधलक्षणकप्रत्ययस्यापवादे ‘श्याद्व्यध--’ (३-१-१४१) इति णप्रत्यये गुणे च रूपमेवम्।
  • ↑ ५। बाहुलकान्नन्द्यादित्वेन कर्तरि ल्युप्रत्ययेऽनादेशे च रूपमेवम्।
  • ↑ ६। मधु लेढीति मधुलेही। ‘सुप्यजातौ--’ (३-२-७८) इति णिनिः।
  • ↑ [पृष्ठम्११६४+ २४]
  • ↑ १। वहं = स्कन्धं लेढीति वहंलिहः = वत्सः। अब्भ्रं लेढीति अब्भ्रंलिहः = वायुः सौधो वा। ‘वहाब्भ्रे लिहः’ (३-२-३२) इति खश्। ‘कर्तरि शप्’ (३-१-६८) इति शप्। तस्य ‘अदिप्रभृतिभ्यः--’ (२-४-७२) इति लुक्। खित्त्वात् ‘अरुर्द्विषदजन्तस्य--’ (६-३-६७) इति पूर्वपदस्य मुमागमः। प्रत्ययस्य शित्त्वेन सार्वधातुकत्वम्; तेन ‘सार्वधातुकमपित्’ (१-२-४) इति ङिद्वद्भावान्न गुणः।
  • ↑ २। यङन्तात् चानश्प्रत्यये रूपमेवम्। अन्यथा लेलिह्यमान इत्येव शानचि भवेत्।



Correction: