लिह्
लीक्का
ली
ली द्रवीकरणे
गणः- चुरादिः
कर्मकः-सकर्मकः
इट्-सेट्
पदम्-उभयपदम्
कर्तरि लटि- लाययति–ते, लयति(लिनयति-ते)
अर्थ−
१. पातलो गर्नु, गलाउनु ।
आ-
१. खर्च गर्नु ।
प्रवि-
१. प्राप्त गर्नु, सम्पादित गर्नु ।
कृदन्तरूपमाला
- 1“ली द्रवीकरणे” 2 आधृषीयः।
- तेन णिज्विकल्पः।
- ‘यौ द्रवीकरणेऽनात्वे लीनयेल्लाययेल्लयेत्।।
- 3 लापयेत् लालयेदात्वे श्लेषणे लीयतेऽलिनात्।’ 4 इति देवः।
- लायकः-यिका, लिलाययिषकः-षिका, लायकः-यिका, लिलीषकः-षिका, लेलीयकः-यिका;
- लाययिता-त्री, लिलाययिषिता-त्री, लेता-त्री, लिलीषिता-त्री, लेलीयिता-त्री;
- इत्यादीनि रूपाणि सर्वाणि ण्यन्तरूपाणि, ण्यन्तप्रकृतिकसन्नन्तरूपाणि च विना क्रैयादिकप्लिनातिवत् 5 ऊह्यानि।
- ण्यन्ते-तत्प्रकृतिकसन्नन्ते च इमानि रूपाणि--लाययन्-न्ती, लिलाययिषन्-न्ती;
- लाययिष्यन्-न्ती-ती-लिलाययिषिष्यन्- न्ती-ती;
- लायमानः, लिलाययिषमाणः, लाययिष्यमाणः, लिलाययिषिष्यमाणः;
- लाः-लायौ-लायः;
- -- -- -- लायितम्-तः, लिलाययिषितम्-तः-तवान्;
- लायः, लिलाययिषुः;
- लाययितव्यम्, लिलाययिषितव्यम्;
- लायनीयम्, लिलाययिषणीयम्;
- लाय्यम्, लिलाययिष्यम्;
- ईषल्लायः-दुर्लायः-सुलायः;
- लाय्यमानः, लिलाययिष्यमाणः;
- लायः, लिलाययिषः;
- लाययितुम्, लिलाययिषितुम्;
- लायना, लिलाययिषा;
- लायनम्, लिलाययिषणम्;
- लाययित्वा, लिलाययिषित्वा;
- प्रलाय्य, प्रलिलाययिष्य;
- लायम् २ -लाययित्वा २;
- लिलाययिषम् २-लिलाययिषित्वा २। इति विशेषः।
प्रासङ्गिक्यः
ली श्लेषणे
गणः- क्र्यादिः
कर्मकः-सकर्मकः
इट्-अनिट्
पदम्-परस्मैपदम्
कर्तरि लटि- लीनाति
अर्थ−
१. युक्त हुनु, प्राप्त हुनु, मिल्नु ।
कृदन्तरूपमाला
- 1“ली श्लेषणे” 2 प्वादिः, ल्वादिश्च।
- ‘यौ द्रवीकरणेऽनात्वे लीनयेत् लाययेत् लयेत्।।
- लापयेल्लालयेदात्वे श्लेषणे लीयतेऽलिनात्।’ 3 इति देवः।
- 4 5 लायकः-यिका, 6 लालकः-लिका, 7 लीनकः-निका, निलापकः-पिका, 8 लिलीषकः- षिका, 9 लेलीयकः-यिका;
- 10 लेता-लेत्री, लाता-त्री, लापयिता-लालयिता-त्री, लीनयिता-त्री, लिलीषिता-त्री, लेलीयिता-त्री;
- 11 लिनन्-ती, लापयन्, लालयन्, लीनयन्-न्ती, लिलीषन्-न्ती;
- -- लास्यन्-लेस्यन्-न्ती-ती, लापयिष्यन्-लालयन्-लीनयन्-न्ती-ती, लिलीषिष्यन्-न्ती-न्ती;
- -- -- लापयमानः-लालयमानः-लीनयमानः, -- लेलीयमानः;
- -- 12 जटाभिर्लापयमानः, वर्त्तिकामुल्लापयमानः, बालमुल्लापयमानः;
- -- लापयिष्यमाणः-लालयिष्यमाणः-लीनयिष्यमाणः, --लेलीयिष्यमाणः;
- लीः-लियौ-लियः;
- -- -- -- 13 लीनम्-नः-नवान्, लापितः-लालितः-लीनितः, लिलीषितः, लेलीतः-तवान्;
- 14 15 लयः, लापः-लालः-लीनः, लिलीषुः, लिलापयिषुः, लेल्यः-लेलियः;
- लेतव्यम्-लातव्यम्, लापयितव्यम्-लालयितव्यम्-लीनयितव्यम्, लिलीषितव्यम्, लेलीयितव्यम्;
- लयनीयम्-लानीयम्, लापनीयम्-लालनीयम्-लीननीयम्, लिलीषणीयम्, लेलीयनीयम्;
- 16 ईषल्लयः-दुर्लयः-सुलयः;
- -- -- -- लीयमानः, लाप्यमानः-लाल्यमानः-लीन्यमानः, लिलीष्यमाणः, लेलीय्यमानः;
- लयः, लापः-लालः-लीनः, लिलीषः, लेलीयः;
- लातुम्-लेतुम्, लापयितुम्-लालयितुम्-लीनयितुम्, लेलीयितुम्;
- 17 लीनिः, लापना-लालना-लीनना, लिलीषा, लेलीया;
- लयनम्, लानम्, लापनम्-लालनम्-लीननम्, लिलीषणम्, लेलीयनम्;
- लीत्वा, लालयित्वा-लापयित्वा-लीनयित्वा, लिलीषित्वा, लेलीयित्वा;
- 18 विलाय-विलीय, विलाप्य-विलाल्य-विलीन्य, विलिलीष्य, विलेलीय;
- लायम् २ लीत्वा २, लापम् २ -लालम् २ -लीनम् २, 19 जतुविलायं विलिल्ये, लापयित्वा २ -लालयित्वा २ -लीनयित्वा २, लिलीषम् २, लिलीषित्वा २, लेलीयम् २;
- लेलीयित्वा २।
प्रासङ्गिक्यः
लीङ् श्लेषणे
गणः- दिवादिः
कर्मकः-अकर्मकः
इट्-अनिट्
पदम्-आत्मनेपदम्
कर्तरि लटि- लीयते
अर्थ−
१. युक्त हुनु, प्राप्त हुनु, मिल्नु ।
कृदन्तरूपमाला
- 1“लीङ् श्लेषणे” 2 ‘लापयेल्लालयेदात्वे श्लेषणे लीयतेऽलिनात्।’ 3 इति देवः।
- लायकः-यिका, लालकः-लीनकः-निका, लापकः-पिका, लिलीषकः-षिका, लेलीयकः-यिका;
- लेता-त्री, लालयिता-लीनयिता-लापयिता-त्री, लिलीषिता-त्री, लेलीयिता-त्री;
- इत्यादीनि रूपाणि सर्वाणि क्रैयादिकलिनातिवत् 4 ज्ञेयानि।
- खल्प्रत्यये-ईषद्विलयः-दुर्विलयः-सुविलयः इति।
प्रासङ्गिक्यः