संस्कृत-शब्दकोशः

लुप लुप्त

लुप्

लुप विमोहने


गणः- दिवादिः
कर्मकः-अकर्मकः
इट्-सेट्
पदम्-परस्मैपदम्
कर्तरि लटि- लुप्लति

अर्थ−
१. मतिभ्रष्ट हुनु, चुक्नु,
२. मतिभ्रष्ट गराउनु, चुकाउनु ।

कृदन्तरूपमाला

  • 1“लुप विमोहने” 2 लोपकः-पिका, लोपकः-पिका, लुलुपिषकः-लुलोपिषकः-षिका, लोलुपकः-पिका;
  • लुपिता-त्री, लोपयिता-त्री, लुलुपिषिता-लुलोपिषिता-त्री, लोलुपिता-त्री;
  • इत्यादीनि रूपाणि सर्वाण्यपि दैवादिककुप्यतिवत् 3 ज्ञेयानि।

प्रासङ्गिक्यः

  • ↑ (१५१०)
  • ↑ (४-दिवादिः-१२३७। सक। सेट्। पर।)
  • ↑ (२२४)


लुप्लृ छेदने


गणः- तुदादिः
कर्मकः-सकर्मकः
इट्-अनिट्
पदम्-उभयपदम्
कर्तरि लटि- लुम्पति–ते

अर्थ−
१. कोतर्नु, चिर्नु, टुक्राटुक्रा गर्नु, नष्ट गर्नु,
२. रगड्नु, मोल्नु ।
वि-
१. लुप्त गर्नु ।

कृदन्तरूपमाला

  • 1“लुपॢ छेदने” 2 मुचादिः।
  • लोपकः-पिका, लोपकः-पिका, लुलुप्सकः-प्सिका, लोलुपकः-पिका;
  • लोप्ता-त्री, लोपयिता-त्री, लुलुप्सिता-त्री, लोलुपिता-त्री;
  • इत्यादीनि रूपाणि सर्वाण्यपि तौदादिकमुञ्चतिवत् 3 ज्ञेयानि।
  • शतरि- 4 लुम्पन्-न्ती, यङन्तात् शानचि-लोलुप्यमानः, 5 णिनिप्रत्यये 6 भयलोपी इति च अस्य धातोः विशेषः।
  • 7

प्रासङ्गिक्यः

  • ↑ (१५११)
  • ↑ (६-तुदादिः-१४३१। सक। अनि। उभ।)
  • ↑ (१२७५)
  • ↑ २। ‘तुदादिभ्यः शः’ (३-१-७७) इति विकरणप्रत्यये शे ‘शे मुचादीनाम्’ (७-१-५९) इति नुमि च लुम्पन् इति रूपम्। एवं शानजन्तेऽपि प्राक्रेया ज्ञेया।
  • ↑ ३। ‘लुपसदचर--’ (३-१-२४) इति भावगर्हायां यङि रूपमेवम्। भावगर्हा धात्वर्थगर्हा। न तु क्रियासमभिहारे यङ् इति ज्ञेयम्।
  • ↑ B। ‘… गोपानां भयलोपिवाग्भिरबलाविन्नानुलेपं वहन्।’ धा। का। २-८५।
  • ↑ [पृष्ठम्११७४+ २४]



Correction: