संस्कृत-शब्दकोशः

लुभ लुम्बिका

लुभ्

लुभ गार्ध्ये


गणः- दिवादिः
कर्मकः-सकर्मकः
इट्-सेट्
पदम्-परस्मैपदम्
कर्तरि लटि- लुभ्यति

अर्थ−
१. आशा गर्नु, चाहनु,
२. लोभ गर्नु ।
प्र-
१. लोभ्याउनु, आकर्षण गर्नु, आकृष्ट गर्नु ।
सम्-
१. लोभ्याउनु, आकर्षण गर्नु, आकृष्ट गर्नु

कृदन्तरूपमाला

  • 1“लुभ गार्ध्ये” 2 ‘भूवादेरवृत्कृतत्वात् लोभते इति भवति इति आत्रेयः’ इति मा।
  • धा।
  • वृत्ति- रिहानुसन्धेया।
  • ‘गार्ध्यम् = आकाङ्क्षा’ इति च तत्र वृत्तिः।
  • ‘गार्ध्ये लुभ्यति मोहार्थे तुदादेर्लुभतीति शे।’ 3 इति देवः।
  • 4 लोभकः-भिका, लोभकः-भिका, 5 लुलुभिषकः-लुलोभिषकः-षिका, लोलुभकः-भिका;
  • 6 लोभिता-लोब्धा-ब्ध्री, लोभयिता-त्री, लुलुभिषिता-लुलोभिषिता-त्री, लोलुभिता-त्री;
  • लुभ्यन्-न्ती, लोभयन्-न्ती, लुलुभिषन्-लुलोभिषन्-न्ती;
  • इत्यादिकानि रूपाणि सर्वाण्यपि दैवादिककुप्यतिवत् 7 ज्ञेयानि।
  • निष्ठायाम्- 8 लुब्धम्-लुब्धः-लुब्धवान्;
  • क्त्वायां- 9 लुभित्वा-लोभित्वा-लुब्ध्वा, इति च अस्य धातोः विशेषः।

प्रासङ्गिक्यः

  • ↑ (१५१४)
  • ↑ (४-दिवादिः-१२३८। सक। सेट्। पर।)
  • ↑ (श्लो। १४१)
  • ↑ [पृष्ठम्११७५+ २५]
  • ↑ १। ‘रलो व्युपधात्--’ (१-२-२६) इति सेटः क्त्वासनोः कित्त्वविकल्पः। तेन सन्नन्ते सर्वत्र क्त्वाप्रत्ययेऽपि रूपद्वयं बोध्यम्।
  • ↑ २। तृचि ‘तीषसहलुभ--’ (७-२-४८) इति तादेरार्धधातुकस्य इड्विकल्पनात् रूपद्वय- मिति ज्ञेयम्।
  • ↑ (२२४)
  • ↑ ३। ‘यस्य विभाषा’ (७-२-१५) इति निष्ठायामिण्निषेधः। तेन एकमेव रूपम्।
  • ↑ ४। क्त्वायाम् ‘रलो व्युपधात् --’ (१-२-२६) इति कित्त्वविकल्पः। ‘तीषसहलुभ--’ (७-२-४८) इत्यादिना इड्विकल्पः। तेन रूपत्रयमिति ज्ञेयम्।


लुभ विमोहने


गणः- तुदादिः
कर्मकः-सकर्मकः
इट्-सेट्
पदम्-परस्मैपदम्
कर्तरि लटि- लुभति

अर्थ−
१. मतिभ्रष्ट हुनु, भ्रान्त हुनु ।

कृदन्तरूपमाला

  • 1“लुभ विमोहने” 2 ‘विमोहनम् = व्याकुलीकरणम्’ इति क्षीरस्वामी।
  • ‘गार्ध्ये लुभ्यति मोहार्थे तुदादेर्लुभतीति शे।’ 3 इति देवः।
  • लोभकः-भिका, लोभकः-भिका, लुलुभिषकः-लुलोभिषकः-षिका, लोलुभकः-भिका;
  • लोभिता-त्री, लोब्धा-ध्री, लोभयिता-त्री, लुलुभिषिता-लुलोभिषिता-त्री, लोलुभिता-त्री;
  • इत्यादीनि रूपाणि सर्वाण्यपि दैवादिककुप्यतिवत् 4 ऊह्यानि।
  • निष्ठायाम्- 5 विलुभितः 6 विलुभिताः केशाः], शतरि-लुभन्, क्त्वायां 7 लुभित्वा-लोभित्वा, इमानि रूपाणि अस्य धातोः विशेषः।
  • 8 लोभनीयम्।
  • 9

प्रासङ्गिक्यः

  • ↑ (१५१५)
  • ↑ (६-तुदादिः-१३०५। सक। सेट्। पर।)
  • ↑ (श्लो। १४१)
  • ↑ (२२४)
  • ↑ आ। ‘दधत् विलुभितं वातैः केसरं वह्निपिङ्गलम्।।’ भ। का। ९-४०।
  • ↑ [ ५। ‘लुभो विमोहने’ (७-२-५४) इति निष्ठायामिडागमो भवति। विलुभिताः = केशाः। विलुभितः = सीमन्तः। अन्यत्र लुब्धो वृषलः, शीतेन पीडित इत्यर्थः।
  • ↑ B। ‘लुभो विमोहने’ त्विट् स्यात् वा कित्त्वं रल इत्यपि। लोभित्वा वा लुभित्वा वा केशान्नृत्यति (?) बालिका।।’ इति प्र। सर्वस्वम्।
  • ↑ C। ‘दिग्व्यापिनीर्लोचनलोभनीयाः मृजान्वयाः स्नेहमिव स्रवन्तीः।’ भ। का। २-१३।
  • ↑ [पृष्ठम्११७६+ २९]



Correction: