संस्कृत-शब्दकोशः

वजराज वज्र

वज्

वज गतौ


गणः- भ्वादिः
कर्मकः-सकर्मकः
इट्-सेट्
पदम्-परस्मैपदम्
कर्तरि लटि- वजति

अर्थ−
१. जानु ।

कृदन्तरूपमाला

  • 1“वज गतौ” 2 ‘-- गतौ वजति वाजयेत्।’ 3 इति देवः।
  • वाजकः-जिका, वाजकः-जिका, विवजिषकः-षिका, वावजकः-जिका;
  • वजिता-त्री, वाजयिता-त्री, विवजिषिता-त्री, वावजिता-त्री;
  • इत्यादीनि रूपाणि सर्वाण्यपि भौवादिकबन्धनार्थककचतिवत् 4 बोध्यानि।
  • 5 वाज्यम्, शतरि-वजन् इति च विशेषः।

प्रासङ्गिक्यः

  • ↑ (१५३६)
  • ↑ (१-भ्वादिः-२५२। सक। सेट्। पर।)
  • ↑ (श्लो। ५८)
  • ↑ (१४४)
  • ↑ १। ण्यति प्रत्यये ‘अजिव्रज्योश्च’ (७-३-६०) इत्यत्र चकारात् अत्रापि कुत्वं नेति माधवः। वस्तुतस्तु ‘चजोः--’ (७-३-५२) इत्यत्र ‘निष्ठायामनिट इति वक्तव्यम्’ (वा। ७-३-५२) इति वार्तिकेन विषयविभागस्य कृतत्वेन यथोत्तरं मुनीनां प्रामाण्यात् अत्र प्रकृतस्थले कुत्वप्रसक्तिरेव नेति भाष्यादिसम्मतः पन्थाः।


वज मार्गसंस्कारगत्योः


गणः- चुरादिः
कर्मकः-सकर्मकः
इट्-सेट्
पदम्-परस्मैपदम्
कर्तरि लटि-वाजयति-ते

अर्थ−
जानु, हिँड-डुल गर्नु,
२. छाँटकाँट गर्नु, सिद्ध गर्नु, तयार गर्नु,
३. वाणमा पङ्ख लगाएर तयार गर्नु ।

कृदन्तरूपमाला

  • 1“वज मार्गसंस्कारगत्योः” 2 ‘… गतौ वजति वाचयेत्।’ 3 इति देवः।
  • 4 ‘व्रज--’ इति मा।
  • धा।
  • वृत्तिः, चन्द्रोऽपि।
  • क्षीरस्वामी तु वजिं पठित्वा मार्गेति द्वितीयं धातुमाह।
  • ‘मार्गगतौ संस्कारगतौ च’ इत्येके।
  • ‘वज’ ‘मार्ग’ द्वौ धातू इति सि।
  • कौमुद्याम्।
  • एवमेव पुरुषकारेऽपि 5।
  • ‘वज मार्गणसंस्कारे’ इति दुर्गः।
  • ‘--गतौ संस्कृतौ च’ इति वोपदेवः।
  • वाजकः-जिका, विवाजयिषकः-षिका;
  • वाजयिता-त्री, विवाजयिषिता-त्री;
  • इत्यादीनि रूपाणि सर्वाण्यपि चौरादिककाणयतिवत् 6 ऊह्यानि।
  • ण्यति- 7 अवाज्यम् इति।

प्रासङ्गिक्यः

  • ↑ (१५३७)
  • ↑ (१०-चुरादिः-१६१७। सक। सेट्। उभ।)
  • ↑ (श्लो। ५८)
  • ↑ [पृष्ठम्११८५+ २६]
  • ↑ (दैवश्लोके ५८)
  • ↑ (१५९)
  • ↑ आ। ‘इत्यादिवादिषु जनेषु विमोटितारिः पापप्रपण्डिपदपांसुरवाज्यधामा।’ धा। का। ३-२३।



Correction: