संस्कृत-शब्दकोशः

वदितव्य वद्धश्रावक

वद्

वद व्यक्तायां वाचि


गणः- भ्वादिः
कर्मकः-सकर्मकः
इट्-सेट्
पदम्-परस्मैपदम्
कर्तरि लटि- वदति

अर्थ−
१. भन्नु, स्पष्ट भन्नु, सम्झाउनु ।
अनु- (आत्मनेपदी)
१. पछि बोल्नु, सँगै बोल्नु, पछि उच्चारण गर्नु ।
अप- (उभयपदी)
१. निन्दा गर्नु, अपकारक भाषण गर्नु ।
अभि- (परस्मैपदी)
१. अभिवादन गर्नु, नमस्कार गर्नु ।
उप- (आत्मनेपदी)
१. बुझेर भन्नु ।
निर- (परस्मैपदी)
१. स्वच्छ बोल्नु, सफा बोल्नु ।
परि- (परस्मैपदी)
१. विरुद्ध बोल्नु ।
प्र- (परस्मैपदी)
१. मानिसहरूको अगाडी बोल्नु ।
प्रति- (परस्मैपदी)
१. उत्तर दिनु, जवाफ दिनु ।
वि- (आत्मनेपदी)
१. वादविवाद गर्नु, वहस गर्नु ।
विप्र- (उभयपदी)
१. विप्रलाप गर्नु, कठोर बोल्नु ।
विसम्- (परस्मैपदी)
१. वचनभङ्ग गर्नु, भनेअनुसार नगर्नु ।
सम्प्र- (आत्मनेपदी)
१. एकत्रित भई स्पष्ट बोल्नु;
(परस्मैपदी)
१. सबैलाई एकसाथ स्पष्ट बोल्नु ।

कृदन्तरूपमाला

  • 1“वद व्यक्तायां वाचि” 2 यजादिः।
  • ‘व्यक्तवाचि वदेद्वा णौ वादयेद् वदते वदेत्।’ 3 इति देवः।
  • वादकः-दिका, वादकः-परिवादकः-दिका, विवदिषकः-षिका, वावदकः-दिका;
  • वदिता-त्री, वादयिता-त्री, विवदिषिता-त्री, वावदिता-त्री;
  • वदन्-न्ती, 4 5 वादयन्-न्ती, विवदिषन्-न्ती;
  • -- वदिष्यन्-न्ती-ती, वादयिष्यन्-न्ती-ती, विवदिषिष्यन्-न्ती-ती;
  • -- 6 शास्त्रे 7 वदमानः, 8 कर्मकरान् उपवदमानः, 9 न्यायम् अपवदमानः, क्षेत्रे विवद- मानः, 10 विप्रवदन्तः-विप्रवदमाना वा मौहूर्तिकाः वैद्याः वा, कुलभार्यामुपवदमानः, 11 अनुवदमानः कठः कालापस्य, 12 सम्प्रवदमानः, गेहे विवदमानः, वादयमानः, 13 अभिवादयमानो गुरुं देवदत्तं देवदत्तेन वा, 14 वादयमानो वीणाम्, विप्रविवदिषमाणः, वावद्यमानः;
  • शास्त्रे वदिष्यमाणः, वादयिष्यमाणः, विवदिषिष्यमाणः, वावदिष्यमाणः;
  • 15 उदितम्- 16 तः-तवान्, वादितः, विवदिषितः, वावदितः-तवान्;
  • मधुरोद्-मधुरोदौ-मधुरोदः;
  • -- -- -- 17 वदः, 18 अवादी, 19 वदावदः, 20 वावदूकः, प्रवावदूकः, 21 कद्वदः 22, 23 साधुवादी, 24 परिवादिनी, 25 प्रियंवदः-प्रियंवदा 26, वशंवदः 27, 28 प्रवादी, 29 ब्रह्मवादी, 30 परि- वादकः, वादः, विवदिषुः, वावदः;
  • वदितव्यम्, वादयितव्यम्, विवदिषितव्यम्, वावदितव्यम्;
  • वदनीयम्, वादनीयम्, विवदिषणीयम्, वावदनीयम्;
  • 31 अवद्यम्, 32 ब्रह्मोद्यम्-ब्रह्मवद्यम्, 33 मृषोद्यम्, सत्यवद्यः 34, अनृतोद्यम्, 35 36 वाद्यम्-प्रवाद्यम्, वाद्यम्, विवदिष्यम्, वावद्यम्;
  • उद्यमानः, वाद्यमानः, विवदिष्यमाणः, वावद्यमानः;
  • ईषद्वदः-दुर्वदः-सुवदः;
  • -- -- -- वादः, वादः, विवदिषः, वावदः;
  • वदितुम्, वादयितुम्, विवदिषितुम्, वावदितुम्;
  • 37 उदितिः, उत्तिः, वादना, विवदिषा, वावदा;
  • वदनम्, वादनम्, विवदिषणम्, वावदनम्;
  • 38 उदित्वा 39, वादयित्वा, विवदिषित्वा, वावदित्वा;
  • प्रोद्य, 40 अच्छोद्य, अनुवाद्य, प्रविवदिष्य, प्रवावद्य;
  • वादम् २, उदित्वा २, वादम् २, वादयित्वा २, विवदिषम् २, विवदिषित्वा २, वावदम् २;
  • वावदित्वा २;
  • 41 इतीञ्प्रत्ययः।
  • वदति तस्यामिति वादिः वीणा। वादिः, 42 इत्यान्यप्रत्ययः।
  • वदान्यो दाता। वदान्यः, 43 44 इति णिजन्तात् णित्रन्प्रत्ययः।
  • वाद्यते इति वादित्रम् मृदङ्गपणवादिकम्। वादित्रम्, 45 इति सप्रत्ययः।
  • ‘तितुत्रस--’ 46 इतीण्निषेधः।
  • वत्सः = कुमारः, गोबालश्च। वत्सः 47

प्रासङ्गिक्यः

  • ↑ (१५४७)
  • ↑ (१-भ्वादिः-१००९। सक। सेट्। पर।)
  • ↑ (श्लो। १०९)
  • ↑ आ। ‘मृषोद्यं प्रवदन्तीं तां सत्यवद्यो रघूत्तमः।’ भ। का। ५ ६०।
  • ↑ B। ‘… शैलस्य दर्दुरपुटानिव वादयन्तः।’ शि। व। ५। ९।
  • ↑ [पृष्ठम्११९०+ २८]
  • ↑ १। अत्र ‘भासनोपसम्भाषाज्ञानयत्नविमत्युपमन्त्रणेषु वदः’ (१-३-४७) इति वदतेस्तङ्। औत्सर्गिकस्य परस्मैपदस्यापवादः। अत्र भासनम् = दीप्तिः। शास्त्रे वदमानः, दीप्यमानः सन् पदार्थान् व्यक्तीकरोतीत्यर्थः। उपसम्भाषणम् = उपसान्त्वनम्। कर्मकरान् उपवदमानः उपसान्त्वयन् इत्यर्थः। ज्ञानम् = सम्यक् अवबोधः। वदमानश्चार्वी लोकायते इत्युदाहरणम्। सम्यग्वक्तुं जानातीत्यर्थः। यत्नः = उत्साहः। क्षेत्रे वदमानः। क्षेत्रविषयकमुत्साहमाविष्करोतीत्यर्थः। विमतिः = नानामतिः। गेहे विवदमानः। विमतिपतिताः विचित्रं भाषन्ते इत्यर्थः। उपमन्त्रणम् = रहसि उपच्छन्दनम्। कुलभार्यामुपवदमानः। उपच्छन्दय- तीत्यर्थः।
  • ↑ आ। ‘मासे सुतं वैजननेऽथ सूतम् आदाय शौरिः वदमानमद्यौत्।’ वा। वि। २-१४।
  • ↑ २। ‘अपाद् वदः’ (१-३-७३) इति तङ्। न्यायापवादेन धनाद्यार्जनं करोति इत्यर्थः।
  • ↑ ३। ‘विभाषा विप्रलापे’ (१-३-५०) इति व्यक्तवाचां समुच्चारणेऽपि वदते- स्तङ्विकल्पः।
  • ↑ ४। ‘अनोरकर्मकात्’ (१-३-४९) इति तङ्। एतदपि व्यक्तवाग्विषयकमेव।
  • ↑ ५। ‘व्यक्तवाचां समुच्चारणे’ (१-३-४८) इति तङ्। व्यक्तवाचो मनुष्याः। तेन ‘वरतनु संप्रवदन्ति कुक्कुटाः’ इत्यत्र न तङ्।
  • ↑ ६। ‘अभिवादिदृशोः--’ (वा। १-४-५३) इति वचनात् आत्मनेपदे प्रयोज्यस्य पाक्षिकं कर्मत्वम्।
  • ↑ ७। ‘न पादम्याङ्यमाङ्यसपरिमुहरुचिनृतिवद-’ (१-३-८९) इति परस्मैपदनिषेधः। ‘अणावकर्मकात्--’ (१-३-८८) इत्यस्यापवादोऽयम्।
  • ↑ ८। निष्ठायाम्, ‘वचिस्वपियजादीनाम्-’ (६-१-१५) इति सम्प्रसारणम्। तेन पूर्वरूपम्।
  • ↑ B। ‘सकलैः सकलैः परितः करुणैरुदितैः रुदितैरिव खं निचितम्।।’ भ। का। १०। ४।
  • ↑ [पृष्ठम्११९१+ २९]
  • ↑ १। ‘याचिव्याहृसंव्याहृव्रजवदवसां प्रतिषिद्धानाम्’ (ग। सू। ३-१-१३४) इति नञि उपपदे ग्रह्यादित्वात् कर्तरि णिनिः।
  • ↑ २। ‘चरिचलिपतिवदीनां द्वित्वम् अचि आक् च अभ्यासस्य’ (वा। ६-१-१२) इति वचनेन पचाद्यचि द्वित्वम्, अभ्यासस्य आक् च भवतः।
  • ↑ ३। ‘कुर्वादिभ्यो ण्यः’ (४-१-१५१) इत्यत्र वावदूकशब्दपाठात् वदतेरपि यङन्तात् ऊकप्रत्ययः इति माधवाचार्याः। एवं प्रवावदूकादयोऽपि शब्दा बोध्याः।
  • ↑ ४। पचाद्यचि ‘रथवदयोश्च’ (६-३-१०२) इति वदशब्दे परे कोः कत् आदेशः।
  • ↑ आ। ‘येन जातं प्रियापाये कद्वदं हंसकोकिलम्।’ भ। का। ६-७६।
  • ↑ ५। अताच्छील्येऽपि ‘साधुकारिण्युपसंख्यानम्’ (वा। ३-२-७८) इति णिनिः।
  • ↑ ६। ‘सुप्यजातौ णिनिः--’ (३-२-७८) इति णिनिः। तद्धर्मेऽयं प्रत्ययः। ‘सप्तभिः परिवादिनी’ इति वीणाविशेषः।
  • ↑ ७। ‘प्रियवशे वदः खच्’ (३-२-३८) इति खच्। खित्त्वात् मुम्।
  • ↑ B। ‘अनुका प्रार्थयांचक्रे प्रियाकर्तु प्रियंवदा।’ भ। का। ४-१९।
  • ↑ C। ‘सौमित्रे मामुपायंस्थाः कम्रामिच्छुर्वशंवदाम्।’ भ। का। ४। २०।
  • ↑ ८। तच्छीलादिषु कर्तृषु ‘प्रे लपसृद्रुमथवदवसः’ (३-२-१४५) इति घिनुण्प्रत्ययः।
  • ↑ ९। ‘ब्रह्मणि वदः’ (वा। ३-२-७८) इति णिनिप्रत्ययः। अताच्छीलिकोऽयम्।
  • ↑ १०। तच्छीलादिषु कर्तृषु ‘निन्दहिंसक्लिशखादविनाशपरिक्षिपपरिरटपरिवादि--’ (३-२-१४६) इत्यादिना वुञ्प्रत्ययः।
  • ↑ ११। गर्ह्यमित्यर्थे ‘अवद्यपण्यवर्याः--’ (३-१-१०१) इत्यनेन वदतेर्नञ्युपपदे यत् निपात्यते। अन्यत्र अनुद्यम् इत्येव। अत्र नञ्युपपदे वदतेः क्यप्। कित्त्वात् सम्प्रसारणम्।
  • ↑ १२। ‘वदः सुपि क्यप् च’ (३-१-१०६) इति अनुपसर्गे सुपि उपपदे क्यव्विकल्पः। पक्षे यत्। क्यपि ब्रह्मोद्यम्। यति ब्रह्मवद्यम्।
  • ↑ १३। अत्र ‘राजसूयसूर्यमृषोद्य--’ (३-१-११४) इति निपातनात् नित्यं क्यप्।
  • ↑ ड्। ‘अनृतोद्यं न तत्रास्ति सत्यवद्यं ब्रवीम्यहम्।’ भ। का। ६-५५।
  • ↑ [पृष्ठम्११९२+ २५]
  • ↑ १। ‘वदः सुपि--’ (३-१-१०६) इत्यत्र ‘सुपि’ इत्युक्तत्वात् सोपसर्गात्, निरुपसृष्टाच्च ण्यदेव। तेन वाद्यम्, प्रवाद्यम् इति सिद्ध्यतः।
  • ↑ २। स्त्रियां क्तिनि ‘तितुत्रेष्वग्रहादीनाम्--’ (वा। ७-२-९) इति वचनादिटि उदिति। क्षीरस्वामी तु उत्तिः इतीडागमाभावपक्षे मुख्यं रूपं साधयित्वा ‘इडपीष्यते उदितिः’ इत्याह।
  • ↑ ३। ‘मृडमृदगुधकुषक्लिशवदवसः क्त्वा’ (१-२-७) इति सेटः क्त्वायाः कित्त्वात् सम्प्रसारणम्।
  • ↑ आ। ‘उदित्वाऽलं चिरं यत्नात् सैका धात्रा विनिर्मिता।।’ भ। का। ७। ८६।
  • ↑ ४। ‘अच्छ गत्यर्थवदेषु’ (१-४-६९) इति अच्छशब्दस्य गतिसंज्ञा। तेन ‘कुगतिप्रादयः’ (२-२-१८) इति समासे ल्यप्। कित्त्वात् प्रसारणम्।
  • ↑ ५। ‘वसिवपिवदि--’ [द। उ। १-५३]
  • ↑ ६। ‘वदेरान्यः’ [द। उ। ८-९]
  • ↑ B। ‘वदान्यो नान्योऽस्ति त्रिजगति समो रुद्रनृपतेः…।’ प्रतापरुद्रीयं, ना। प्र। १६। श्लो।
  • ↑ ७। ‘भूवादि--’ [द। उ। ८-९१]
  • ↑ ८। ‘वृतॄवदि--’ [द। उ। ९-२१]
  • ↑ (७-२-९)
  • ↑ [पृष्ठम्११९३+ २५]


वद सन्देशवचने


गणः- चुरादिः
कर्मकः-सकर्मकः
इट्-सेट्
पदम्-उभयपदम्
कर्तरि लटि- वादयति–ते, वदते

अर्थ−
१. भन्नु, स्पष्ट भन्नु, सम्झाउनु ।
अनु- (आत्मनेपदी)
१. पछि बोल्नु, सँगै बोल्नु, पछि उच्चारण गर्नु ।
अप- (उभयपदी)
१. निन्दा गर्नु, अपकारक भाषण गर्नु ।
अभि- (परस्मैपदी)
१. अभिवादन गर्नु, नमस्कार गर्नु ।
उप- (आत्मनेपदी)
१. बुझेर भन्नु ।
निर- (परस्मैपदी)
१. स्वच्छ बोल्नु, सफा बोल्नु ।
परि- (परस्मैपदी)
१. विरुद्ध बोल्नु ।
प्र- (परस्मैपदी)
१. मानिसहरूको अगाडी बोल्नु ।
प्रति- (परस्मैपदी)
१. उत्तर दिनु, जवाफ दिनु ।
वि- (आत्मनेपदी)
१. वादविवाद गर्नु, वहस गर्नु ।
विप्र- (उभयपदी)
१. विप्रलाप गर्नु, कठोर बोल्नु ।
विसम्- (परस्मैपदी)
१. वचनभङ्ग गर्नु, भनेअनुसार नगर्नु ।
सम्प्र- (आत्मनेपदी)
१. एकत्रित भई स्पष्ट बोल्नु;
(परस्मैपदी)
१. सबैलाई एकसाथ स्पष्ट बोल्नु ।

कृदन्तरूपमाला

  • 1“वद सन्देशवचने” 2 आधृषीयः।
  • तेन णिज्विकल्पः।
  • ‘--भाषणे’ इति हेमचन्द्र-जैन-कातन्त्रादयः।
  • ‘--वाक्सन्देशयोः’ इति वोपदेवः।
  • ‘-- वचने च’ इति द्रुमे इति धा।
  • का।
  • 3।
  • ‘व्यक्तवाचि वदेद्वा णौ वादयेद् वदते वदेत्।’ 4 इति देवः।
  • अयं धातुः आत्मनेपदी इति शाकटायनः इति मा।
  • धा।
  • वृत्तिः।
  • वादकः-दिका, विवादयिषकः-षिका;
  • वादकः-दिका, विवदिषकः-षिका, वावदकः-दिका;
  • वादयिता-त्री, विवादयिषिता-त्री;
  • इत्यादिकानि रूपाणि सर्वाण्यपि ण्यन्तात् सन्नन्तं विना पूर्वलिखितभौवादिकवदतिवत् 5 ऊह्यानि।
  • ण्यन्तात् सन्नन्ते इमानि रूपाणीति ज्ञेयम् -- विवादयिषिता-त्री, विवादयिषन्-न्ती, विवादयिषिष्यन्-न्ती-ती, विवा- दयिषमाणः, विवादयिषिष्यमाणः, विवादयिट्-यिषौ-यिषः;
  • विवादयिषितम्-तः- तवान्;
  • विवादयिषुः, विवादयिषितव्यम्, विवादयिषणीयम्, विवादयिष्यम्, ईषद्विवादयिषः-दुर्विवादयिषः-सुविवादयिषः;
  • विवादयिष्यमाणः, विवादयिषः, विवादयिषितुम्, विवादयिषा, विवादयिषणम्, विवादयिषित्वा, प्रविवादयिष्य, विवादयिषम् २, विवादयिषित्वा २ इति।

प्रासङ्गिक्यः

  • ↑ (१५४८)
  • ↑ (१०-चुरादिः-१८४२। सक। सेट्। उभ।)
  • ↑ (३-५१)
  • ↑ (श्लो। १०९)
  • ↑ (१५४७)



Correction: