वलूल
वल्क
वल्
वल संवरणे सञ्चरणे च
गणः- भ्वादिः
कर्मकः-सकर्मकः
इट्-सेट्
पदम्-आत्मनेपदम्
कर्तरि लटि- वलते
अर्थ−
१. आच्छादित गर्नु, ढाक्नु, छोप्नु,
२. घेर्नु,
३. जानु ।
कृदन्तरूपमाला
- 1“वल संवरणसंचरणयोः” 2 घटादिः।
- ‘-- संवरणे’ इत्येव क्षीरतरङ्गिणी।
- ‘-- संवृतौ’ इति जैनेन्द्रे।
- ‘-- चलने संवरणे च’ इति कातन्त्रः।
- ‘-- स्मृतौ’इति वोपदेवः।
- ‘-- संवरणे--प्रसारे’ इति काशकृत्स्नः।
- इतः पूर्वं भ्वादौ ‘वल निष्पत्तौ--फलितभावे’ इति च पठितम्।
- अन्यत्र कोशेषु अस्य पाठो न दृश्यते।
- ‘वलतेरात्मनेपदमनित्यम्’ इति वामनालंकारे 3।
- वालकः-लिका, 4 वलकः-वालकः-लिका, विवलिषकः-षिका, वावलकः-लिका;
- वलिता-त्री, वालयिता-त्री, विवलिषिता-त्री, वावलिता-त्री;
- -- वालयन्-न्ती, वालयिष्यन्-न्ती-ती;
- -- वलमानः, वालयमानः, विवलिषमाणः, वावल्यमानः;
- इत्यादीनि रूपाणि सर्वाण्यपि भौवादिककलतिवत् 5 बोध्यानि।
- शतरि वलन्- 6 न्ती।
- 7 8 वालः-वारः-वालिः, वलिः- 9 वली, वलिनः, 10 वलीकम्, वलिभः, वलभी, 11 वालाकिः, 12 वल्मीकम्, वलिः, 13 वल्कः, 14 वलाका-वलाकी, 15 16 इत्यूकप्रत्यये निरूढः।
- वलूकम् = उत्पलद्रव्यम्। वलूकम्, 17 वलयम्;
- इत्यादिकानि रूपाण्यधिकान्यत्रेति विशेषः।
प्रासङ्गिक्यः