संस्कृत-शब्दकोशः

वसूरा वस्क

वस्

वस आच्छादने


गणः- अदादिः
कर्मकः-सकर्मकः
इट्-सेट्
पदम्-आत्मनेपदम्
कर्तरि लटि- वस्ते

अर्थ−
१. वस्त्र लगाउनु, ओढ्नु, लुगा लगाउनु ।

कृदन्तरूपमाला

  • 1“वस आच्छादने” 2 ‘वस्यति स्तम्भने वस्ते छादने वसयेत् वसेत्।।’ 3 इति देवः।
  • ‘-- स्मृतौ’ इति वोपदेवः।
  • वासकः-सिका, वासकः-सिका, विवसिषकः-षिका, वावसकः-सिका;
  • वसिता-त्री, वासयिता-त्री, विवसिषिता-त्री, वावसिता-त्री;
  • -- वासयन्-न्ती, वासयन् वासयमानो वा वस्त्रं देवदत्तेन, वासयिष्यन्-न्ती-ती, 4 5 वसानः, वासयमानः, विवसिषमाणः, वावस्यमानः;
  • वसिष्यमाणः, वासयिष्यमाणः;
  • विवसिषिष्यमाणः, वावसिष्यमाणः;
  • 6 चर्मवः-चर्मवसौ-चर्मवसः;
  • -- -- -- वसितम्-तः, वासितम्, विवसिषितः, वावसितः-तवान्;
  • वसः, 7 वसा, सुवासी, 8 वसनः, 9 वसिता, वासः, विवसिषुः, वावसः;
  • वसितव्यम्, वासयितव्यम्, विवसिषितव्यम्, वावसितव्यम्;
  • वसनीयम्, वासनीयम्, विवसिषणीयम्, वावसनीयम्;
  • वास्यम्, वास्यम्, विवसिष्यम्, वावस्यम्;
  • वस्यमानः, वास्यमानः, विवसिष्यमाणः, वावस्यमानः;
  • ईषद्वसः-दुर्वसः-सुवसः;
  • -- -- -- वासः, आवासः, 10 कृत्तिवासाः, वासः, विवसिषः, वावसः;
  • वसितुम्, वासयितुम्, विवसिषितुम्, वावसितुम्;
  • वस्तिः, 11 वसा, वासना, विवसिषा, वावसा;
  • वसनम्, वासनम्, विवसिषणम्, वावसनम्;
  • वसित्वा, वासयित्वा, विवसिषित्वा, वावसित्वा;
  • प्रवस्य, प्रवास्य, प्रविवसिष्य, प्रवावस्य;
  • वासम् २, वसित्वा २, वासम् २ वासयित्वा २ विवसिषम् २ विवसिषित्वा २ वावसम् २;
  • वावसित्वा २;
  • 12 13 वसु, 14 नप्रत्यये रूपम्।
  • वस्तेऽनेनेति वस्नम् = वासः। वस्नम्, 15 सरन्प्रत्ययः।
  • संवत्सरः = क्षण- लवमुहूर्त्ताहोरात्रपक्षमासायनानि च इत्यर्थः।
  • एवं परिवत्सरः, विवत्सरः, इद्वत्सरः, इडावत्सरः, उद्वत्सरः इत्यादिषु बोध्यम्।
  • वस्त्रेण समाच्छादयति इत्यर्थे संवस्त्रयन् इत्यत्र ‘मुण्डमिश्र--’ 16 इत्यादिनाणिच्।
  • ‘वस्त्रात्स- माच्छादने’ इति काशिकावृत्तिः। संवत्सरः, 17 ष्ट्रन्प्रत्यये वस्त्रमिति रूपम्।
  • वस्ते शरीरमिति वस्त्रम्। वस्त्रम्।
  • 18

प्रासङ्गिक्यः

  • (१५७७)
  • (२-अदादिः-१०२३। अक। सेट्। आत्म।)
  • (श्लो। १८७)
  • [पृष्ठम्१२१५+ २५]
  • आ। ‘पिशङ्गमौञ्जीयुजमर्जुनच्छविं वसानमेणाजिनमञ्जनद्युति।’ शि। व। १-६।
  • १। चर्म वस्ते इति चर्मवः इति क्विप्प्रत्यये रूपमेवम्। ‘अत्वसन्तस्य चाधातोः’ (६-४-१४) इत्यत्र काशिकायां प्रत्युदाहरणत्वेन प्रदर्शितम्।
  • २। पचाद्यजन्तात स्त्रियां टाप्। वसा = शरीरान्तर्गतस्नेहद्रव्यम्।
  • ३। वस्ते आच्छादयति इत्यर्थे ‘अनुदात्तेतश्च--’ (३-२-१४९) इति युचि रूपमेवम्।
  • ४। ‘तृन्’ (३-२-१३५) इति तच्छीलादिषु कर्तृषु तृन्प्रत्यये रूपम्। ‘वसिता वस्त्रमित्येवं साधुकारिणि कर्तरि।।’ इति ‘तृन्’ सूत्रे प्रक्रियासर्वस्वश्लोकः।
  • ५। औणादिकेऽसुन्प्रत्यये वासश्शब्दः। कृत्तिर्वासोऽस्येति ‘अत्वसन्तस्य--’ (६-४-१४) इति असंबुद्धौ सौ परतः दीर्घो भवति। तेन रूपमेवम्।
  • ६। भिदादिपाठात् (३-३-१०४) अङ्प्रत्ययः।
  • [पृष्ठम्१२१६+ २७]
  • १। ‘शॄस्वृस्निहित्रप्यसिवसि--’ (द। उ। १-९५) इति उप्रत्यये रूपमेवम्। वस्ते भाग्यवतो जनानिति वसु = धनम्।
  • २। औणादिके [द। उ। ५-३९]
  • ३। संपूर्वात् वसधातोः औणादिकः [द। उ। ८-५२]
  • (३-१-२१)
  • ४। औणादिके [द। उ। ८-७९]
  • आ। ‘वैतानवेदिजनितं पवमानबन्धुं वस्त्रेण बद्धुमविनीत कथं यतेथाः।।’ चम्पूरामायणे ५-४८


वस निवासे


गणः- भ्वादिः
कर्मकः-सकर्मकः
इट्-अनिट्
पदम्-परस्मैपदम्
कर्तरि लटि- वसति

अर्थ−
१. बस्नु, निवास गर्नु, वास बस्नु ।
अधि-
१. माथि बस्नु,उपभोग गर्नु, काममा लगाउनु ।
उप-
१. उपवास गर्नु, भोको बस्नु ।
नि-
रहनु, वास बस्नु, बाहिर जानु ।
सम्-
१. सहवास गर्नु, सँगै रहनु, एकत्र गर्नु ।

कृदन्तरूपमाला

  • 1“वस निवासे” 2 ‘वस्यति स्तम्भने वस्ते, छादने वसयेत्, वसेत्।।
  • निवासे वासयेत् स्नेहे, वासयत्युपसेवने।’ 3 इति देवः।
  • ‘अयं धातुः उभयपदी’ इति कातन्त्रशाकटायनादयः।
  • वासकः-सिका, वासकः-सिका, 4 विवत्सकः-त्सिका, वावसकः-सिका;
  • 5 वस्ता-त्री, वासयिता-त्री, विवत्सिता-त्री, वावसिता-त्री;
  • वसन्-न्ती, वासयन्-न्ती, विवत्सन्-न्ती;
  • -- निवत्स्यन्-न्ती-ती, वासयिष्यन्-न्ती-ती, विवत्सिष्यन्-न्ती-ती;
  • -- -- वासयमानः, वासयिष्यमाणः, -- वावस्यमानः, वावसिष्यमाणः;
  • 6 अध्युषितम्- 7 8, प्रोषितः, 9 अनुषितो 10, गुरुः शिष्येण, तः-तवान्, वासितः, विवत्सितः, वावसितः-तवान्;
  • वसः, 11 प्रवासी, जलवासी, सुवासी, नगरवासी, 12 ग्रामेवासी-ग्रामवासी, 13 अवासी, होतुरन्तेवासी, 14 पितुरन्तेवासी, 15 अध्यूषुषः 16 ऊषिवान् 17, वासः, वासनः, 18 वास्तव्यः, 19 विवत्सुः, वावसः;
  • वस्तव्यम्, वासयितव्यम्, विवत्सितव्यम्, वावसितव्यम्;
  • वसनीयम्, वासनीयम्, विवत्सनीयम्, वावसनीयम्;
  • 20 वास्यम्, 21 अमावास्या 22 -अमावस्या, वास्यम्, विवत्स्यम्, वावस्यम्, उष्यमाणः, वास्यमानः, विवत्स्यमानः, वावस्यमानः;
  • ईषद्वसः-दुर्वसः-सुर्वसः;
  • -- -- निवासः, 23 आवासः 24, लिप्तवासः, वनेवासः, 25 वनवासः, ग्रामेवासः, 26 उदवासः, उदकवासः, उद्वासः, उपवासः, प्रावासः, वासः, विवत्सः, वावसः;
  • वस्तुम्, वासयितुम्, विवत्सितुम्, वावसितुम्;
  • 27 उष्टिः, 28 वासिः, वासना, विवत्सा, वावसा;
  • वसनम्, वासनम्, विवत्सनम्, वावसनम्;
  • 29 उषित्वा 30, वासयित्वा, विवत्सित्वा, वावसित्वा;
  • 31 प्रोष्य, प्रवास्य, प्रविवत्स्य, प्रवावस्य;
  • वासम् २, उषित्वा २, वासम् २, वासयित्वा २, विवत्सम् २, विवत्सित्वा २, वावसम् २;
  • वावसित्वा २;
  • 32 33 वसतिः, 34 वासिः, 35 वसिः, 36 वस्तिः, 37 वसु, 38 वस्तु, 39 वास्तु, 40 आवसथः, 41 वत्सरः, 42 वासरः, 43 वसिष्ठः, 44 वस्नम्, 45 वसन्तः, 46 वस्त्रम्।

प्रासङ्गिक्यः

  • (१५७६)
  • (१-भ्वादिः-१००५। अक। अनि। पर।)
  • (श्लो। १८७-८)
  • ५। सन्नन्तात् ण्वुलि, धातुसकारस्य ‘सः स्यार्धधातुके’ (७-४-४९) इति तकारे रूपमेवम्। एवं स्यप्रत्यये, सन्नन्तेषु सर्वत्रापि च ज्ञेयम्।
  • [पृष्ठम्१२१२+ २८]
  • १। ‘गत्यर्थाकर्मकश्लिषशीङ्स्थाऽऽसवस--’ (३-४-७२) इत्यादिना कर्तृकर्मणोः क्तः। ‘वसतिक्षुधोरिट्’ (७-२-५२) इति इडागमः। सम्प्रसारणम्। पूर्वरूपादिकम्। ‘शासिवसिघसीनां च’ (८-३-६०) इति षत्वम्।
  • आ। ‘बभञ्जाध्युषितं भूयः क्षुधित्वा पत्रिभिर्वनम्।।’ भ। का। ९। ३९
  • [अनेन]
  • B। ‘आहर्तुमन्यानशिषत् प्रोषितत्रासकर्कशः।।’ भ। का। ९। ६८
  • [गुरुं शिष्यः]
  • २। ताच्छीलिकः ‘प्रे लपसृद्रुमथवदवसः’ (३-२-१४५) इति घिनुण्प्रत्ययः।
  • ३। ‘सुप्यजातौ--’ (३-२-७८) इति णिनिप्रत्यये ‘शयवासवासिषु अकालात्’ (६-३-१८) इति सप्तम्या अलुक्। एवम् अन्तेवासी इत्यत्रापि ज्ञेयम्।
  • ४। ‘याचिव्याहृसंव्याहृव्रजवदवसां प्रतिषिद्धानाम् (ग। सू। ३-१-१३४) इति वसेः ग्रह्यादिपाठात् णिनिप्रत्ययः।
  • C। ‘रुतानि शृण्वन् वयसां गणोऽन्तेवासित्वमाप स्फुटमङ्गनानाम्।।’ शि। व। ३। ५५
  • ड्। ‘अध्यूषुषो यामभजञ्जनस्य याः संपदस्ता मनसोऽप्यगम्याः।।’ शि। व। ३-५९
  • ५। ‘भाषायां सदवसश्रुवः’ (३-२-१०८) इति लिटः क्वसुः। सम्प्रसारणपूर्वरूपादिकम्। अभ्यासस्य उत्तरखण्डस्य च सवर्णदीर्घः। ‘शासिवसि--’ (८-३-६०) इति षत्वम्।
  • E। ‘स प्रोषिवानेत्य पुरं प्रवेक्ष्यन् शुश्राव घोषं न जनौघजन्यम्।’ भ। का। ३-२७
  • ६। ‘वसेस्तव्यत् कर्तरि णिच्च’ (वा। ३-१-९६) इति वचनात् कर्तरि तव्यत्प्रत्ययः। णिद्वद्भावेनोपधावृद्धिः। वसतीति वास्तव्यः।
  • F। ‘प्रसूनकॢप्तिं दधतः सदर्तवः पुरेऽस्य वास्तव्यकुटुम्बितां ययुः।।’ शि। व। १-६६
  • [पृष्ठम्१२१३+ २६]
  • १। अमा = सह वसतः सूर्याचन्द्रमसौ इत्यर्थे ‘अमावस्यद् अन्यतरस्याम्’ (३-१-१२२) इति ण्यत्प्रत्ययान्तो निपात्यते। पक्षे वृद्ध्यभावश्च निपातनादेव। तेन अमावास्या अमावस्या इति रूपद्वयम्।
  • आ। ‘स तामूचेऽथ कच्चित्त्वममावास्यासमन्वये।’ भ। का। ६-६४
  • २। ‘हलश्च’ (३-३-१२१) इति घञ्। ‘शयवास--’ (६-३-१८) इति सप्तम्या अलुक्।
  • B। ‘आवासे सिक्तसंमृष्टे गन्धैस्त्वं लिप्तवासिता।’ भ। का। ५-९०
  • C। ‘रक्षन् वनेवासकृताद् भयात् तान् प्रातश्छलेनापजगाम रामः।।’ भ। का। ३-१६।
  • ३। ‘पेषंवासवाहनधिषु च’ (६-३-५८) इति सूत्रेण वासशब्द उत्तरपदे उदकशब्दस्य उदादेशः। उदवासः उदकस्य वास इत्यर्थः।
  • ४। स्त्रियां क्तिनि सम्प्रसारणषत्वष्टुत्वादिकेषु रूपमेवम्। वसतिः इति तु औणादिकं रूपमिति ज्ञेयम्।
  • ५। ‘इक् कृष्यादिभ्यः’ (वा। ३-३-१०८) इति इक्प्रत्यये रूपम्। यद्यपि भाव एवायं प्रत्ययः, तथापि यथासम्भवं कर्तर्यपि भवति। वासिः = तक्ष्ण आयुधविशेषः।
  • ६। ‘वसतिक्षुधोरिट्’ (७-२-५२) इति क्त्वायामिडागमः। ‘न क्त्वा सेट्’ (१-२-१८) इति कित्त्वनिषेधं बाधित्वा ‘मृडमृदगुधकुषक्लिशवदवसः क्त्वा’ (१-२-७) इति कित्त्वम्। तेन सम्प्रसारणादिकं भवतीति ज्ञेयम्।
  • ड्। ‘ते भुक्तवन्तः सुसुखं वसित्वा वासांस्युषित्वा रजनीं प्रभाते।’ भ। का। ३-४५।
  • E। ‘क्षणमतुहिनधाम्नि प्रोष्य भूयः पुरस्तात्…।’ शि। व। ११-६५
  • [पृष्ठम्१२१४+ ३०]
  • १। ‘वहिवस्यर्तिभ्यश्चित्’ (द। उ। १-२९) इत्यतिप्रत्ययः। वसतिः = आलयः।
  • २। ‘वसिवपि--’ (द। उ। १-५३) इति इञ्प्रत्ययः। वासिः = तक्षकारभाण्डम्।
  • ३। औणादिकः (द। उ। १-६८) इप्रत्ययः। वसिः शय्या, रात्रिर्वा।
  • ४। ‘वसेस्तिः’ (द। उ। १-७४) इति तिप्रत्ययः। वसत्यस्मिन् नानौषधियुक्तः स्नेह इति वस्तिः-अधःकायप्रदेशः, चर्ममयः पुटश्च। बस्तिः इति गौडीयाः।
  • ५। औणादिके (द। उ। १-९५) उप्रत्यये रूपमेवम्। वसु = धनम्।
  • ६। ‘वसेस्तुन्’ (द। उ। १-१२८) इति तुन्प्रत्ययः। वस्तु = द्रव्यम्।
  • ७। ‘अगारे णिच्च’ (द। उ। १-१२९) इति तुन्प्रत्ययः, तस्य णिद्वद्भावेनोपधावृद्धिः। वास्तु = गृहादिकम्।
  • ८। ‘आङि वसः’ (द। उ। ६-३९) इति आङ्युपपदे धातोरथप्रत्यये रूपमेवम्। आवसथः = गृहादिकम्।
  • ९। ‘वसेश्च’ (द। उ। ८-५१) इति सरन्प्रत्यये ‘सः स्यार्द्धधातुके’ (७-४-४९) इति तकारादेशे च रूपम्। वसन्त्यस्मिन् ग्रहनक्षत्रर्तुदेवता इति वत्सरः = अब्दः। ‘संवत्सरो वत्सरोऽब्दः हायनोऽस्त्री शरत्समाः’ इत्यमरः।
  • १०। णिजन्तात् औणादिके (द। उ। ८-१००) अरप्रत्यये रूपमेवम्। ‘घस्रो दिनाहनी वा तु क्लीबे दिवसवासरौ’ इत्यमरः।
  • ११। अतिशयेन वसुमान् वसिष्ठः। वसुमच्छब्दात् इष्ठन्प्रत्यये मतुब्लुकि टिलोपे च रूपमेवम्।
  • १२। ‘धापॄवस्यज्यतिभ्यो नः’ (द। उ। ५-३९) इति नः। “वस्नम् मूल्यम्” इति धातुवृत्तिः।
  • १३। ‘तॄभूवहिवसि--’ (द। उ। ६-१९) इति झच्प्रत्ययः। ‘झोऽन्तः’ (७-१-३) इति अन्तादेशे वसन्तः इति रूपम्। ऋतुविशेषः।
  • १४। औणादिके (द। उ। ८-७९) ष्ट्रन्प्रत्यये रूपमेवम्। केचित्तु ‘वस आच्छादने’ इत्यस्मात् व्युत्पादयन्ति, तदेव न्याय्यम्।


वस सुगन्धे


गणः- चुरादिः
कर्मकः-सकर्मकः
इट्-सेट्
पदम्-उभयपदम्
कर्तरि लटि- वसयति–ते

अर्थ−
१. सुगन्धित गर्नु, सुवासित गर्नु ।

कृदन्तरूपमाला


वस स्नेहच्छेदापहरणेषु


गणः- चुरादिः
कर्मकः-सकर्मकः
इट्-सेट्
पदम्-उभयपदम्
कर्तरि लटि- वासयति–ते

अर्थ−
१. दया गर्नु, प्रेम गर्नु,
२. मार्नु,
३. कोतर्नु, चिर्नु,
४. नष्ट गर्नु, लिनु ।

कृदन्तरूपमाला

  • 1“वस स्नेहच्छेदापहरणेषु” 2 ‘वस्यति स्तम्भने वस्ते छादने वसयेत् वसेत्।।
  • निवासे वासयेत् स्नेह वासयत्युपसेवने।’ 3 इति देवः।
  • ‘-- …उपहरणेषु इति वा पाठः’ इति धा।
  • का।
  • 4
  • ‘-- …अवहरणेषु’ इति कातन्त्रशाकटायनहेमचन्द्रादयः।
  • ‘-- …अवहननेषु इति पाठान्तरम्’ इति क्षीरतरङ्गिण्याम्।
  • वासकः-सिका, विवासयिषकः-षिका, वासयिता-त्री, विवासयिषिता-त्री;
  • वासयन्-न्ती, विवासयिषन्-न्ती;
  • वासयिष्यन्-न्ती-ती, विवासयिषिष्यन्-न्ती-ती;
  • इत्यादीनि रूपाणि सर्वाण्यपि चौरादिकचाटयतिवत् 5 ऊह्यानि।
  • भिदादि- 6 पाठात् अङि-वसा इति रूपमिति विशेषः।

प्रासङ्गिक्यः

  • (१५७८)
  • (१०-चुरादिः-१७४५। सक। सेट्। उभ।)
  • (श्लो। १८७-८)
  • (३-४१)
  • (४८८)
  • (३-३-१०४)


वसु स्तम्भे


गणः- दिवादिः
कर्मकः-अकर्मकः
इट्-सेट्
पदम्-परस्मैपदम्
कर्तरि लटि- वस्यति

अर्थ−
१. मन या शरीरबाट सीधा हुनु,
२. निश्चल हुनु ।

कृदन्तरूपमाला

  • 1“वसु स्तम्भे” 2 3 अयं दन्त्योष्ठ्यादिः इति आत्रेयदेवपुरुषकारकारादयः।
  • केचित् बकारादिं पठन्ति।
  • ‘घसिस्तु सान्तेषु वसिः प्रसारिणी।।’ 4 इत्यत्र बशादिरेव 5 बसिः इति काशिकायामुपात्त इति धातुवृत्तिः।
  • परं तु साम्प्रतं वृत्तौ ‘वसिः’ इति दन्त्योष्ठयादिपाठ एवोपलभ्यते।
  • बस्तशब्दस्तु बशादित्व एव उपपन्नो भवतीत्यवधेयम्। ‘वस्यति स्तम्भने वस्ते छादने वसयेद् वसेत्।।’ 6 इति देवः।
  • वासकः-सिका, वासकः-सिका, विवसिषकः-षिका, वावसकः-सिका;
  • वसिता-त्री, वासयिता-त्री, विवसिषिता-त्री, वावसिता-त्री;
  • वस्यन्-न्ती, वासयन्-न्ती, विवसिषन्-न्ती;
  • -- वसिष्यन्-न्ती-ती, वासयिष्यन्-न्ती-ती, विवसिषिष्यन्-न्ती-ती;
  • -- -- वासयमानः, वासयिष्यमाणः, -- वावस्यमानः, वावसिष्यमाणः;
  • इत्यादिकानि रूपाणि सर्वाण्यपि प्रातिस्विकरूपाणि विना भौवादिकग्रसतिवत् 7 ऊह्यानि।

प्रासङ्गिक्यः

  • (१५८०)
  • (४-दिवादिः-१२१४। अक। सेट्। पर।)
  • [अ]
  • (व्याघ्रभूतिकारिका ७-२-१०)
  • (बकारादिः)
  • (श्लो। १८७)
  • (४४०)



Correction: