वह्विसख
वाक
वा
वा (अव्यय)
निष्पत्ति− वा (गतिगन्धनयोः) - "क्विप्" (३-२-१७८)
प्रयोग− "जातां मन्ये शिशिरमथितां पद्मिनीं वान्यरूपाम्"
उल्लेख− मेघ० २-२०
अर्थ−
१. अथवा,
२. अरू,
३. पनि,
४. जस्तो,
५. विकल्प वा सन्देहलाई बुझाउने शब्द ।
वा गतिगन्धनयोः
गणः- अदादिः
कर्मकः-सकर्मकः
इट्-अनिट्
पदम्-परस्मैपदम्
कर्तरि लटि- वाति
अर्थ−
१. जानु, हावाझैँ जानु, वहनु, हावा चल्नु ।
नि-
१. नष्ट हुनु, हावाद्वारा निभ्नु, सताउनु ।
कृदन्तरूपमाला
- 1“वा गतिगन्धनयोः” 2 ‘गतिगन्धनयोर्वाति वायतीति तु शोषणे।
- वयते वयतीत्येवं तन्तुसन्तान इष्यते।।’ 3 इति देवः।
- “… हेमचन्द्रस्तु ‘वा तण्’ इति पठित्वा ‘सुखसेवनयोरित्येके’ इति चोक्त्वा ‘वेत्येके’ इत्यप्याह” इति पुरुषकारवचनमत्रानुसन्धेयम्।
- ‘अर्दनं हिंसनं च गन्धनम् इति लीलाशुकः’ इति धातुकाव्ये 4।
- ‘गन्धनं-- सौरभ्यकरणम्’ इति सहस्रनामभाष्ये।
- ‘-- गमनहिंसयोः’ इति वोपदेवः।
- ‘-- गतिगन्धनयोः--चलने दुर्गन्धे च’ इति काशकृत्स्नः।
- वायकः-यिका, 5 वाजकः-जिका, वापकः-पिका, विवासकः-सिका, वावायकः-यिका;
- वाता-त्री, वापयिता-त्री, वाजयिता-त्री, विवासिता-त्री, वावायिता-त्री;
- 6 वान्-न्ती, 7 वापयन्-वाजयन्-न्ती, विवासन्-न्ती;
- -- वास्यन्-न्ती-ती, वापयिष्यन्-वाजयिष्यन्-न्ती-ती, विवासिष्यन्-न्ती-ती;
- -- 8 व्यतिवानः, वापयमानः, वाजयमानः, -- वावायमानः;
- -- वापयिष्यमाणः-वाजयिष्यमाणः, -- वावायिष्यमाणः;
- 9 वातम्-तः, 10 निर्वाणः 11, निर्वातो 12, वापितः, वाजितः, विवासितः, वावायितः-तवान्;
- वातः, 13 वानः, वापः, वाजः, वातूलः, 14 विवासुः, वावायः;
- 15 प्रणिवातव्यम्, वापयितव्यम्-वाजयितव्यम्, विवासितव्यम्, वावायितव्यम्;
- वानीयम्, वापनीयम्-वाजनीयम्, विवासनीयम्, वावायनीयम्;
- वेयम्, वाप्यम्-वाज्यम्, विवास्यम्, वावास्यम्;
- 16 ईषद्वानः-दुर्वानः-सुवानः;
- -- -- वायमानः, वाप्यमानः-वाज्यमानः, विवास्यमानः, वावाय्यमानः;
- वायः, वापः-वाजः, विवासः, वावायः;
- वातुम्, वापयितुम्-वाजयितुम्, विवासितुम्, वावायितुम्;
- वातिः, वापना-वाजना, विवासा, वावाया;
- वानम्, वापनम्-वाजनम्, विवासनम्, वावायनम्;
- वात्वा, वापयित्वा-वाजयित्वा, विवासित्वा, वावायित्वा;
- प्रवाय, प्रवाप्य-प्रवाज्य, प्रविवास्य, प्रवावाय्य;
- वायम् २, वात्वा २, वापम् २ -वाजम् २, वापयित्वा २ -वाजयित्वा २, विवासम् २, विवासित्वा २, वावायम् २;
- वावायित्वा २;
- 17 वातिः, वातिकम्, वातकी, वात्या 18, 19 वायुः, 20 वातः, 21 वामः।
- 22
प्रासङ्गिक्यः
वा सुखाप्तिगतिसेवासु
गणः- चुरादिः
कर्मकः-सकर्मकः, सुखाप्तौ अकर्मकः
इट्-अनिट्
पदम्-परस्मैपदम्
कर्तरि लटि- वापयति
अर्थ−
१. सुख प्राप्त गर्नु,
२. जानु,
३. सेवा गर्नु ।
कृदन्तरूपमाला
- 1“वा गतिसुखसेवनयोः” 2 ‘वात सुखसेवनयोः’ इति धातुवृत्तिबालमनोरमादिषु दृश्यते।
- ‘सुखाप्ति- गतिसेवासु’ इति वोपदेवः।
- ‘वात गतिसुखसेचनयोः--गतौ सुख- समाप्तौ’ इति काशकृत्स्नः।
- वापकः-पिका, विवापयिषकः-षिका, वापयिता-त्री, विवापयिषिता-त्री;
- इत्यादिकानि रूपाणि सर्वाण्यपि चौरादिककालयतिवत् 3 ज्ञेयानि।
- आदन्तत्वात् ण्यन्ते सर्वत्रास्य युगागमघटितरूपाणीति ज्ञेयम्।
प्रासङ्गिक्यः