संस्कृत-शब्दकोशः

विदोष विद्ध

विद्

विद चेतनाख्याननिवासेषु


गणः- चुरादिः
कर्मकः-सकर्मकः
इट्-सेट्
पदम्-आत्मनेपदम्
कर्तरि लटि- वेदयते

अर्थ−
१. बुझ्नु, जान्नु,
२. बुझाएर भन्नु,
३. रहनु, वास बस्नु, स्थिर हुनु ।
नि,निर्, वि-
१. सम्झाएर भन्नु ।
प्रति-
१. दिनु, अर्पण गर्नु ।

कृदन्तरूपमाला

  • 1“विद चेतनाख्याननिवासेषु” 2 आकुस्मीयः।
  • ‘-- विवादेषु’ इति क्षीरस्वामी।
  • ‘-- वेदने’ इत्येके।
  • ‘विद वेदना- ख्यानपरिवादनेषु’ इति न्यासे पाठः।
  • “निपातनेषु इति धनपालशा- कटायनौ” इति पुरुषकारः 3
  • ‘विन्दते विन्दतीत्येवं लाभे, वेदयते णिचि।।’ 4 इति देवः।
  • वेदकः-दिका, विवेदयिषकः-षिका, वेदयिता-त्री, विवेदयिषिता-त्री;
  • इत्यादिकानि सर्वाण्यपि प्रातिस्विकरूपाणि विना--चौरादिककेतयतिवत् 5 ज्ञेयानि।
  • ‘अनुपसर्गाद्--’ 6 इति शप्रत्यये वेदयः इति।
  • ‘घट्टिवन्दि- विदिभ्यश्च’ 7 इति ण्यन्तात् स्त्रियां युच्प्रत्यये वेदना इति रूपम्।

प्रासङ्गिक्यः

  • (१६०५)
  • (१०-चुरादिः-१७०९। सक। सेट्। आत्म।)
  • (श्लो। १११)
  • (श्लो। १११)
  • (२६०)
  • (३-१-१३८)
  • (वा। ३-३-१०७)


विद ज्ञाने


गणः- अदादिः
कर्मकः-सकर्मकः
इट्-सेट्
पदम्-परस्मैपदम्
कर्तरि लटि- वेद–वेत्ति

अर्थ−
१. सम्झनु, बुझ्नु, जान्नु ।
निर्-
१. विपद्ग्रस्त हुनु, दुःखी हुनु ।
सम्- (सम्वित्ते)
१. ध्यान गर्नु, जानु, योगाभ्यास गर्नु ।

कृदन्तरूपमाला

  • 1“विद ज्ञाने” 2 ‘सत्तायां विद्यते, ज्ञाने वेत्ति, विन्ते विचारणे।’ 3 इति देवः।
  • ‘-- मतौ’ इति वोपदेवः।
  • आवेदकः-दिका, वेदकः-दिका, 4 विविदिषकः-षिका, वेविदकः-दिका;
  • वेदिता-त्री, वेदयिता-त्री, विविदिषिता-त्री, वेविदिता-त्री;
  • 5 विदन्-ती, 6 विद्वान्-विदुषी, निवेदयन् 7 -न्ती, वेदयः 8, विविदिषन्-न्ती;
  • -- वेदिष्यन्-न्ती-ती, वेदयिष्यन्-न्ती-ती, विविदिषिष्यन्-न्ती-ती;
  • -- 9 संविदानः, वेदयमानः, संविविदिषमाणः, वेविद्यमानः;
  • 10 मन्त्रवित्, ब्रह्मवित्, शास्त्रवित्, वेदवित्, 11 अनिर्विदा, लोकवित्-प्रवित्-विदौ-विदः;
  • 12 विदितम्-तः-तवान्, वेदितः, विविदिषितः, वेविदितः-तवान्;
  • 13 विदः, 14 विन्दुः, 15 विदुरः 16, सार्ववेद्यः, चतुर्वेदः, 17 विविदिवान्-विविद्वान्, चतुर्वेदी, 18 पराशयवेदी, धनुर्वेदी, वैदिकः, वेदः, 19 वैदनः 20 विविदिषुः, वेविदः;
  • आवेदितव्यम्, वेदयितव्यम्, विविदिषितव्यम्, वेविदितव्यम्;
  • आवेदनीयम्, वेदनीयम्, विविदिषणीयम्, वेविदनीयम्;
  • वेद्यम्, त्रैविद्यः, वेद्यम्, विविदिष्यम्, वेविद्यम्;
  • वेद्यमानः, वेदयमानः, विविदिषमाणः, वेविद्यमानः;
  • 21 वेदः, वेदः, विविदिषः, वेविदः;
  • वेदितुम्, वेदयितुम्, विविदिषितुम्, वेविदितुम्;
  • 22 वित्तिः, विदा, 23 विद्या, अङ्गविद्या, त्रिविद्या, 24 वेदना, विविदिषा, वेविदा;
  • 25 वेदनम्, वेदनम्, विविदिषणम्, वेविदनम्;
  • 26 विदित्वा, 27 वेदयित्वा, विविदिषित्वा, वेविदित्वा;
  • आवेद्य, प्रवेद्य, प्रविविदिष्य, प्रवेविद्य;
  • 28 ब्राह्मणवेदं 29 चोरवेदम् 30 31 जिघांसुवेदम्, 32 वेदम् २, विदित्वा २, वेदम् २, वेदयित्वा २, विविदिषम् २, विविदिषित्वा २, वेविदम् २;
  • वेविदित्वा २;
  • 33 इति इन्प्रत्ययः।
  • वेत्ति विन्दति विद्यते वा वेदिः = त्रेताग्न्यधिष्ठानम्। वेदिः, 34 विदथः, 35 नवेदाः, 36 इति विश्वशब्द उपपदे असिप्रत्ययः।
  • विश्ववेदाः = हुताशनः। विश्ववेदाः।

प्रासङ्गिक्यः

  • (१६०२ आ। ‘विद्वानुपानेष्ट च तान् स्वकाले यतिर्वशिष्ठो यमिनां वरिष्ठः।।’ भ। का। १-१५)
  • (२-अदादिः-१०६४। सक। सेट्। पर।)
  • (श्लो। १११)
  • १। सनि, ‘रलो व्युपधात्--’ (१-२-२६) इत्यादिना क्रित्त्वविकल्पे प्राप्ते ‘रुदविद--’ (१-२-८) इति नित्यं कित्त्वं भवति। तेन सन्नन्ते सर्वत्र एकमेव रूपम्। क्षीरस्वामी तु ‘रुदविद--’ (१-२-८) इति सूत्रं कित्त्वविकल्पार्थमिति व्याचकार। भाष्यादिषु नित्यकित्त्वविधायकत्वेनैव प्रकृतसूत्रस्य व्याख्यानात् क्षीरस्वामिमतं चिन्त्यम्।
  • २। शतरि, ‘विदेः शतुर्वसुः’ (७-१-३६) इति सूत्रात् शतुः वस्वादेशविकल्पः। वस्वादेशपक्षे विद्वान् इति; तदभावपक्षे विदन् इति च रूपम्। नित्यं वसुरित्या- देश इति केषाञ्चिन्मतम्। काशिकादिषु तु वैकल्पिकमिति स्पष्टम्।
  • आ। ‘विद्वानुपानेष्ट च तान् स्वकाले यतिर्वशिष्ठो यमिनां वरिष्ठः।।’ भ। का। १-१५
  • B। ‘स्पष्टं बहिः स्थितवतेऽपि निवेदयन्तः…।’ शि। व। ५-९७
  • ३। ण्यन्तात् ‘अनुपसर्गाल्लिम्पविन्द--’ (३-१-१३८) इति शप्रत्यये शपि गुणायादेशौ। वेदयतीति वेदयः।
  • ४। ‘विदिप्रच्छिस्वरतीनाम्’ (वा। १-३-२९) इति संपूर्वकात् विदेः आत्मनेपदं भवति।
  • ५। ‘सत्सूद्विषद्रुहयुजविद--’ (३-२-६१) इति क्विप्प्रत्यये रूपमेवम्।
  • C। ‘अनिर्विदा या विदधे विधाता पृथ्वी पृथिव्याः प्रतियातनेव।।’ शि। व। ३-३४।
  • ड्। ‘विदितं वो यथा स्वार्था न मे काश्चित्प्रवृत्तयः।’ कु। सं। ६-२६।
  • [पृष्ठम्१२३४+ २८]
  • १। ‘विन्दुरिच्छुः’ (३-२-१६९) इति तच्छीलादिषु कर्तृषु उप्रत्यये, निपातनात् नुमागमे च रूपमेवम्। वेदनशीलो विन्दुः। पवर्गीयादिस्तु ‘बिदि अवयवे’ इति धातोः ‘मृगय्वादिभ्यः’ (द। उणादिः १-१२१) इति कौ बोध्यः, इति बृहच्छब्देन्दुशेखरे।
  • २। ‘विदिभिदिच्छिदेः कुरच्’ (३-२-१६२) इति कुरच्प्रत्यये रूपमेवम्। ‘ज्ञाता तु विदुरो विन्दुः’ इत्यमरः। अत्र सूत्रे ज्ञानार्थ एव न्यासे गृहीतः।
  • आ। ‘विदुरो जित्वरः प्राप लक्ष्मणो गत्वरान् कपीन्।।’ भ। का। ७-२२।
  • ३। क्वसुप्रत्यये, ‘विभाषा गमहनविदविशाम्’ (७-२-६८) इति विकल्पेन इडागमो भवति। विविदिवान्-विविद्वान् इति रूपद्वयम्। ‘ज्ञानार्थस्य तु नित्यं विविद्वान् इत्येकमेव, भवति’ इति काशिकायाम् (७-२-६८) उक्तम्। अन्यत्रार्थे रूपद्वयं बोध्यम्।
  • B। ‘अकलयदसमाशुगाधिमग्नां झटिति पराशयवेदिनो हि विज्ञाः।।’ नैषधे ४-११८।
  • ४। विदन्नेव वैदनः, ‘प्रज्ञादिभ्यश्च’ (५-४-३८) इति स्वार्थेऽण्प्रत्ययः। एतेनापि ‘विदेः शतुर्वसुः’ (७-१-३६) इति वसुविकल्पः सिद्धः। अन्यथा अणः प्रकृतिभूतस्य विदन् इति शत्रन्तस्यासिद्धेरित्यवधेयम्।
  • C। ‘नाविविदिषुमभ्येति संपद्रुरुधिषुं नरम्।’ भ। का। ७-९९।
  • ५। वेत्ति अनेनेति ‘हलश्च’ (३-३-१२१) इति करणे घञ्।
  • ६। ‘मन्त्रे वृषेषपचमनविद--’ (३-३-९६) इति स्त्रियां भावे क्तिन्प्रत्ययः।
  • ७। विदन्त्यनया इति, ‘संज्ञायां समजनिषदनिपतमनविद--’ (३-३-९९) इति स्त्रियां भावे क्यप्प्रत्ययः।
  • ८। ‘घट्टिवन्दिविदिभ्यश्च’ (वा। ३-३-१०७) इति स्त्रियां युच्प्रत्ययः।
  • [पृष्ठम्१२३५+ २७]
  • १। क्त्वायां, ‘रलो व्युपधात्--’ (१-२-२६) इति वैकल्पिककित्त्वे प्राप्ते ‘रुद- विद--’ (१-२-८) इत्यादिना नित्यं कित्त्वम्। तेन एकमेव रूपम् इति ज्ञेयम्।
  • आ। ‘विदित्वा शक्तिमात्मीयां रावणं विजिघृक्षवः।’ भ। का। ७-९८।
  • २। ‘कर्मणि दृशिविदोः साकल्ये’ (३-४-२९) इति कर्मण्युपपदे साकल्यविशिष्टेऽर्थे धातोः णमुल्प्रत्ययो भवति। ब्राह्मणवेदं भोजयति इत्यस्य यं यं ब्राह्मणं = ब्राह्मण- त्वेन जानाति लभते विचारयति वा तान् सर्वान् भोजयतीत्यर्थः।
  • [भोजयति]
  • B। ‘यांश्चोरभूतान् लभते विचारयति वेत्ति वा। तान् सर्वानपि हन्तीति चोरवेदं निहन्त्यसौ।।’ इति प्रक्रियासर्वस्वे।
  • [निहन्ति]
  • C। ‘जिघांसुवेदं धृतभासुरास्त्रस्तां ताडकाख्यां निजघान रामः।।’ भ। का। २-२३।
  • ३। ‘हृपिशिरुहिवृतिविदि--’ [द। उ। १-४७]
  • ४। ‘रुदिविदिभ्यां कित्’ (द। उ। ६-४१) इति अथप्रत्यये रूपमेवम्। वेत्तीति विदथः = ज्ञानी।
  • ५। ‘नभ्राण्नपान्नवेदा--’ (६-३-७१) इति निपातनात् न वेत्तीति नवेदाः इति असुन्प्रत्ययान्तोऽयम्।
  • ६। ‘विदिभुजिभ्यां विश्वे’ [द। उ। ९-९८]


विद विचारणे


गणः- रुधादिः
कर्मकः-सकर्मकः
इट्-अनिट्
पदम्-आत्मनेपदम्
कर्तरि लटि- विन्ते

अर्थ−
१. मनन गर्नु, विचार गर्नु ।

कृदन्तरूपमाला

  • 1“विद विचारणे” 2 ‘-- मीमांसे’ इति वोपदेवः।
  • ‘सत्तायां विद्यते, ज्ञाने वेत्ति, विन्ते विचारणे।’ 3 इति देवः।
  • वेदकः-दिका, वेदकः-दिका, विवित्सकः-त्सिका, वेविदकः-दिका;
  • वेत्ता-त्री, वेदयिता-त्री, विवित्सिता-त्री, वेविदिता-त्री;
  • इत्यादिकानि रूपाणि सर्वाणि दैवादिकखिद्यतिवत् 4 ज्ञेयानि।
  • शानचि विन्दानः, 5 निष्ठायाम्- 6 वित्तः-विन्नः इति च विशेषः।
  • 7 इप्रत्यये रूपम्।
  • वेत्ति विन्दति विन्ते वा वेदिः = त्रेताग्न्यधिष्ठानम्। वेदिः।

प्रासङ्गिक्यः

  • (१६०४)
  • (७-रुधादिः-१४५०। सक। अनि। आत्म।)
  • (श्लो। १११)
  • (३४९)
  • १। ‘रुधादिभ्यः श्नम्’ (३-१-७८) इति विकरणप्रत्यये श्नमि, ‘श्नसोरल्लोपः’ (६-४-१११) इति अल्लोपे च रूपमेवम्।
  • २। निष्ठायाम्, ‘नुदविदोन्दत्रा--’ (८-२-५६) इति निष्ठातकारस्य नकारादेशो विकल्पेन भवति। तेन रूपद्वयम्। तथा च भाष्यम् (७-२-५८) -- ‘वेत्तेस्तु विदितो निष्ठा विद्यतेः विन्न इष्यते। वित्तर्विन्नश्च वित्तश्च वित्तो भोगेषु विन्दतेः।।’ इति।
  • ३। औणादिके [द। उ। १-४७]


विद सत्तायाम्


गणः- दिवादिः
कर्मकः-अकर्मकः
इट्-अनिट्
पदम्-आत्मनेपदम्
कर्तरि लटि- विद्यते

अर्थ−
१. रहनु, विद्यमान हुनु, बाँच्नु ।
निर्-
१. विरक्त हुनु, निर्विण्ण हुनु ।

कृदन्तरूपमाला

  • 1“विद सत्तायाम्” 2 ‘सत्तायां विद्यते, ज्ञाने वेत्ति, विन्ते विचारणे।’ 3 इति देवः।
  • वेदकः-दिका, वेदकः-दिका, विवित्सकः-त्सिका, वेविदकः-दिका;
  • वेदिता-त्री, वेदयिता-त्री, विवित्सिता-त्री, वेविदिता-त्री;
  • इत्यादिकानि रूपाणि सर्वाण्यपि दैवादिकखिद्यति 4 वत् बोध्यानि।
  • शानचि-विद्यमानः, णिनिप्रत्यये-वेदी, क्तिनि-वित्तिः, इमानि रूपाणि विशेषेण भवन्ति।
  • 5

प्रासङ्गिक्यः

  • (१६०३)
  • (४-दिवादिः-११७१। अक। अनि। आत्म।)
  • (श्लो। १११)
  • (३४९)
  • [पृष्ठम्१२३६+ २९]


विद्लृ लाभे


गणः- तुदादिः
कर्मकः-सकर्मकः
इट्-अनिट्
पदम्-उभयपदम्
कर्तरि लटि- विन्दति–ते

अर्थ−
१. प्राप्त गर्नु, पाउनु ।
परि-
१. दाजुको विवाह हुनुभन्दा पहिला भाइको विवाह गर्नु ।

कृदन्तरूपमाला

  • 1“विदॢ लाभे” 2 मुचादिः।
  • ‘विन्दते विन्दतीत्येवं लाभे वेदयते णिचि।।’ 3 इति देवः।
  • व्याघ्रभूत्यादिमते सेट्कोऽयम्।
  • वेदिता इति।
  • 4 वेदकः-दिका, वेदकः-दिका, विवेदिषकः-विविदिषकः-5-षिका, वेविदकः-दिका;
  • वेदिता, 6-त्री, वेदयिता-त्री, विवेदिषिता-विविदिषिता-त्री, विवित्सिता-त्री, वेविदिता-त्री;
  • इत्यादिकानि रूपाणि सर्वाण्यपि किलतिवत् 7 ज्ञेयानि।
  • शतरि 8 विन्दः 9, 10 गोविन्दः-कुविन्दः, 11 अरविन्दम् 12, 13 वित्तम्- 14, विन्नं 15, 16 परिवेत्ता, विविद्वान् 17 -विविदिवान्, 18 वेदना 19 20 21 परिवित्तिः, 22 ब्राह्मणवेदं 23, 24 यावद्वेदं 25, 26 चोरवेदं निहन्त्यसौ]।

प्रासङ्गिक्यः

  • (१६०६)
  • (६-तुदादिः-१४३२। सक। अनि। उभ।)
  • (श्लो। १११)
  • [पृष्ठम्१२३७+ ३०]
  • [विवित्सकः]
  • [वेत्ता]
  • (१९३)
  • १। ‘अनुपसर्गाल्लिम्पविन्द--’ (३-१-१३८) इति शप्रत्यये मुचादित्वात् ‘शे मुचा- दीनाम्’ (७-१-५९) इति नुमि शपि पररूपे च रूपमेवम्।
  • आ। ‘आर्चीद् द्विजातीन् परमार्थविन्दानुदेजयान् भूतगणान् न्यषेधीत्।’ भ। का। १-१५।
  • २। ‘गवादिषु विन्देः संज्ञायाम्’ (वा। ३-१-१३८) इति शः। गां विन्दतीति गोविन्दः। एवं कुविन्दह् इति प्रक्रियासर्वस्वे।
  • B। ‘प्रजा इवाङ्गादरविन्दनाभेः शंभोर्जटाजूटतटादिवापः।’ शि। व। ३-६५
  • ३। अरविन्दम्-चक्रस्य नाभिनेम्योरन्तरालकाष्ठानि अराः, तत्सदृशानि दलानि विन्दति -- लभत इत्यर्थः। भाष्ये तु अरविन्दः पुंल्लिङ्गत्वेन पठ्यते। ‘कर्मण्यण्’ (३-२-१) बाधनाय इदम् इति बृ। शेखरे।
  • ४। ‘वित्तो भोगप्रत्यययोः’ (८-२-५८) इति क्तप्रत्यये भोगे चाभिधेये तत्वाभावो निपात्यते। वित्तोऽयं मनुष्यः। प्रतीत इत्यर्थः। वित्तम् धनम्, वित्तं प्रसिद्धम्, भुज्यत इति भोगो धनम्। प्रतीयत इति प्रत्ययः प्रसिद्धम्। अन्यत्र विन्नम्।
  • [धनम्]
  • [लब्धम्]
  • ५। तृजन्तोऽप्ययं ‘तृन्तृचौ शंसिक्षदादिभ्यः संज्ञायां चानिटौ’ (द। उ। २-१) इति संज्ञायां गम्यमानायामनिटौ भवतः। ‘परिवेत्ताऽनुजोऽनूढे ज्येष्ठे दारपरिप्रहात्’ इत्यमरः। ज्येष्ठे विवाहरहिते कृतदारपरिग्रहः कनिष्ठः परिवेत्ता इत्युच्यते। क्वसुप्रत्यये ‘विभाषा गमहनविद--’ (७-२-६८) इतीड्विकल्पनात्, निष्ठायाम्, ‘यस्य विभाषा’ (७-२-१५) इतीण्निषेधः। तेन निष्ठानत्वपक्षे, नत्वाभा- वपक्षेऽपीण्निषेधो नित्य इत्यवधेयम्। कातन्त्रे तु अनिट्त्वेनास्य धातोः पाठात् तेषां मते निष्ठायामिण्निषेधः सिद्ध एव। भाष्यादिषु तु धातुरयं सेडित्येव सम्मतः। विस्तरस्तु माधवीये द्रष्टव्यः।
  • ६। ‘विभाषा गमहनविदविशाम्’ (७-२-६८) इति क्वसौ विकल्पेन इडागमो भवति। तेन रूपद्वयम्। विशिना साहचर्यादिह विदेस्तौदादिकस्य लाभार्थस्य ग्रहणम्।
  • ७। ण्यन्तात् ‘घट्टिवन्दिविदिभ्यश्च’ (३-३-१०७) इति युचि रूपमेवम्।
  • C। ‘युक्त्वा योगं स्थितः शैले विवृण्वन् चित्तवेदनाम्।।’ भ। का। ७-७३
  • [पृष्ठम्१२३८+ २८]
  • १। ‘क्तिच्क्तौ च संज्ञायाम्’ (३-३-१७४) इति क्तिच्। ‘परिवित्तिस्तु तज्ज्यायान्’ इत्यमरः।
  • २। ‘कर्मणि दृशिविदोः साकल्ये’ (३-४-२९) इति साकल्यविशिष्टे कर्मण्युपपदे णमुल् भवति। यं यं ब्राह्मणं = ब्राह्मणत्वेन जानाति, लभते वा, तं तं भोजयति इत्यर्थः। अत्र सत्तार्थस्यैकस्य न ग्रहः; अकर्मकत्वात्।
  • [भोजयति]
  • ३। ‘यावति विन्दजीवोः’ (३-४-३०) इति णमुल्प्रत्ययः। यावत् लभते तावद् भुङ्क्त इत्यर्थः।
  • [भोजयति]
  • ४। चोरवेदमित्यत्र, यान् चोरभूतान् लभते विचारयति वेत्ति वा तान् सर्वानपि हन्तीत्यर्थे ‘कर्मणि दृशिविदोः--’ (३-४-२०) इति णमुल्। ‘चोरवेदं निह- न्त्यसौ--’ इति प्र। सर्वस्वे।



Correction: