विषौषधी
विष्क
विष्
विष विप्रयोगे
गणः- क्र्यादिः
कर्मकः-अकर्मकः
इट्-अनिट्
पदम्-परस्मैपदम्
कर्तरि लटि- विष्णाति
अर्थ−
१. प्रयोग नहुनाले हटाउनु या निकाल्नु ।
कृदन्तरूपमाला
- 1“विष विप्रयोगे” 2 ‘विप्रयोगे विषेः क्र्यादेर्विष्णातीति पदं भवेत्।’ 3 इति देवः।
- वेषकः-षिका, वेषकः-षिका, विविक्षकः-क्षिका, वेविषकः-षिका;
- वेष्टा-वेष्ट्री, वेषयिता-त्री, विविक्षिता-त्री, वेविषिता-त्री;
- इत्यादिकानि रूपाणि सर्वाण्यपि दैवादिकतुष्यतिवत् 4 ज्ञेयानि।
- शतरि विष्णन्-ती, इति विशेषः।
- “विष्णाति इति प्रयोगे समुपलब्धे सत्येव निर्णयो धातोरस्य शक्यः कर्तुम्” इति पा।
- धा।
- समीक्षा।
प्रासङ्गिक्यः
विषु सेचने
गणः- भ्वादिः
कर्मकः-सकर्मकः
इट्-सेट्
पदम्-परस्मैपदम्
कर्तरि लटि- वेषति
अर्थ−
१. सेचन गर्नु, छर्कनु, प्रोक्षण गर्नु ।
कृदन्तरूपमाला
- 1“विषु सेचने” 2 ‘सेवने’ इति धातुकाव्यव्याख्यापाठः 3।
- ‘… विषेः वेषति सेचने।।’ 4 इति देवः।
- “आर्याणामुदित्, द्रमिडानां लृदित्” इति धनपालः।
- ‘पुषादि--’ 5 इत्यत्र सुधाकरः-- ‘द्रमिडानामविषत्, आर्याणां तु ‘शल इगुपधात्--’ 6 इति अविक्षत् इति नन्दी” इति पुरुषकारे इति 7।
- ३। औणादिके 8 कालच्प्रत्यये एवं रूपम्।
- विशन्ति तस्मिन् बहवोऽनेनेति विशालं प्रथु।
- वस्तुतः ‘वेः शालच्--’ 9 इति वेः शालच्प्रत्य- येनैव सिद्धमिदम्।
- 10 वेषकः-षिका, वेषकः-षिका, विविक्षकः-क्षिका, वेविषकः-षिका;
- वेष्टा-ष्ट्री, वेषयिता-त्री, विविक्षिता-त्री, वेविषिता-त्री;
- इत्यादिकानि रूपाणि सर्वाण्यपि दैवादिकतुष्यतिवत् 11 ऊह्यानि।
- विषः, विषम्, विषाणम्, विषिः विष्टिः = बलम्, इत्यादिकानि रूपाणि विशेषेण भवन्तीति ज्ञेयम्।
- क्त्वायाम्- 12 विषित्वा-वेषित्वा इति।
प्रासङ्गिक्यः
विष्लृ व्याप्तौ
गणः- जुहोत्यादिः
कर्मकः-सकर्मकः
इट्-अनिट्
पदम्-उभयपदम्
कर्तरि लटि- वेवेष्टि
अर्थ−
१. व्यापक हुनु, फैलनु ।
कृदन्तरूपमाला
- 1“विषॢ व्याप्तौ” 2 ‘व्याप्तौ वेवेष्टि वेविष्टे…।।’ 3 इति देवः।
- ‘विषृ--’ इति काशकृत्स्नः।
- तत्र ‘विषॢ इति कातन्त्रे पाठः’ इति च तत्रोक्तम्।
- “उदिदित्येके।
- इरिदिति द्रुमे” इति धा।
- का।
- व्याख्या 4।
- वेष्टा, विष्टवान्, विष्टः, वेषन्, वेषकः इत्येते व्यापकेऽर्थे।
- वेषः, विष्टम्, वेषणीयम्, वेष्यम्, वैष्यम्, वेष्टव्यम्, वेषणं, विष्टिः इत्यष्टौ आवरणार्थे।
- 5 वेषकः-षिका, वेषकः-षिका, 6 विविक्षकः-क्षिका, वेविषकः-षिका;
- वेष्टा-ष्ट्री, वेषयिता-त्री, विविक्षिता-त्री, वेविषिता-त्री;
- 7 वेविषत्-ती, वेषयन्-न्ती, विविक्षन्-न्ती;
- -- वेक्ष्यन्-न्ती-ती, वेषयिष्यन्-न्ती-ती, विविक्षिष्यन्-न्ती-ती;
- -- वेविषाणः, वेषयमाणः, विविक्षमाणः, वेविषमाणः;
- वेक्ष्यमाणः, वेषयिष्यमाणः, विविक्षिष्यमाणः, वेविषिष्यमाणः;
- विट्-विषौ-विषः, वेट्-वेषौ-वेषः;
- -- -- विष्टम्-विष्टः-विष्टवान्, 8 आविष्टलिङ्गम्, वेषितम्-तः, विविक्षितः, वेविषितः-तवान्;
- इत्यादिकानि रूपाणि सर्वाण्यपि जौहोत्यादिकणिजिर्धातुवत् 9 ऊह्यानि।
- 10 विष्टिः, 11 विष्णुः, 12 वेष्पम्, 13 वैष्ट्रः, 14 विषम्।
- इमानि औणादिकनिष्पन्न- रूपाणीति ज्ञेयानि।
- 15 विषयम् = आवरणम्।
- विषयो = देशः।
- 16
प्रासङ्गिक्यः