संस्कृत-शब्दकोशः

विषौषधी विष्क

विष्

विष विप्रयोगे


गणः- क्र्यादिः
कर्मकः-अकर्मकः
इट्-अनिट्
पदम्-परस्मैपदम्
कर्तरि लटि- विष्णाति

अर्थ−
१. प्रयोग नहुनाले हटाउनु या निकाल्नु ।

कृदन्तरूपमाला

  • 1“विष विप्रयोगे” 2 ‘विप्रयोगे विषेः क्र्यादेर्विष्णातीति पदं भवेत्।’ 3 इति देवः।
  • वेषकः-षिका, वेषकः-षिका, विविक्षकः-क्षिका, वेविषकः-षिका;
  • वेष्टा-वेष्ट्री, वेषयिता-त्री, विविक्षिता-त्री, वेविषिता-त्री;
  • इत्यादिकानि रूपाणि सर्वाण्यपि दैवादिकतुष्यतिवत् 4 ज्ञेयानि।
  • शतरि विष्णन्-ती, इति विशेषः।
  • “विष्णाति इति प्रयोगे समुपलब्धे सत्येव निर्णयो धातोरस्य शक्यः कर्तुम्” इति पा।
  • धा।
  • समीक्षा।

प्रासङ्गिक्यः

  • (१६११)
  • (९-क्र्यादिः-१५२६। अक। अनि। पर।)
  • (श्लो। १७५)
  • (७५८)


विषु सेचने


गणः- भ्वादिः
कर्मकः-सकर्मकः
इट्-सेट्
पदम्-परस्मैपदम्
कर्तरि लटि- वेषति

अर्थ−
१. सेचन गर्नु, छर्कनु, प्रोक्षण गर्नु ।

कृदन्तरूपमाला

  • 1“विषु सेचने” 2 ‘सेवने’ इति धातुकाव्यव्याख्यापाठः 3
  • ‘… विषेः वेषति सेचने।।’ 4 इति देवः।
  • “आर्याणामुदित्, द्रमिडानां लृदित्” इति धनपालः।
  • ‘पुषादि--’ 5 इत्यत्र सुधाकरः-- ‘द्रमिडानामविषत्, आर्याणां तु ‘शल इगुपधात्--’ 6 इति अविक्षत् इति नन्दी” इति पुरुषकारे इति 7
  • ३। औणादिके 8 कालच्प्रत्यये एवं रूपम्।
  • विशन्ति तस्मिन् बहवोऽनेनेति विशालं प्रथु।
  • वस्तुतः ‘वेः शालच्--’ 9 इति वेः शालच्प्रत्य- येनैव सिद्धमिदम्।
  • 10 वेषकः-षिका, वेषकः-षिका, विविक्षकः-क्षिका, वेविषकः-षिका;
  • वेष्टा-ष्ट्री, वेषयिता-त्री, विविक्षिता-त्री, वेविषिता-त्री;
  • इत्यादिकानि रूपाणि सर्वाण्यपि दैवादिकतुष्यतिवत् 11 ऊह्यानि।
  • विषः, विषम्, विषाणम्, विषिः विष्टिः = बलम्, इत्यादिकानि रूपाणि विशेषेण भवन्तीति ज्ञेयम्।
  • क्त्वायाम्- 12 विषित्वा-वेषित्वा इति।

प्रासङ्गिक्यः

  • (१६१२)
  • (१-भ्वादिः-६९८। सक। अनि। पर।)
  • (१-८८)
  • (श्लो। १७४)
  • (३-१-५५)
  • (३-१-४५)
  • (श्लो। १७५)
  • (द। उ। ८-११५)
  • (५-२-२८)
  • [पृष्ठम्१२४२+ २८]
  • (७५८)
  • १। ‘उदितो वा’ (७-२-५६) इति क्त्वायामिड्विकल्पनात् रूपद्वयमत्र ज्ञेयम्।


विष्लृ व्याप्तौ


गणः- जुहोत्यादिः
कर्मकः-सकर्मकः
इट्-अनिट्
पदम्-उभयपदम्
कर्तरि लटि- वेवेष्टि

अर्थ−
१. व्यापक हुनु, फैलनु ।

कृदन्तरूपमाला

  • 1“विषॢ व्याप्तौ” 2 ‘व्याप्तौ वेवेष्टि वेविष्टे…।।’ 3 इति देवः।
  • ‘विषृ--’ इति काशकृत्स्नः।
  • तत्र ‘विषॢ इति कातन्त्रे पाठः’ इति च तत्रोक्तम्।
  • “उदिदित्येके।
  • इरिदिति द्रुमे” इति धा।
  • का।
  • व्याख्या 4
  • वेष्टा, विष्टवान्, विष्टः, वेषन्, वेषकः इत्येते व्यापकेऽर्थे।
  • वेषः, विष्टम्, वेषणीयम्, वेष्यम्, वैष्यम्, वेष्टव्यम्, वेषणं, विष्टिः इत्यष्टौ आवरणार्थे।
  • 5 वेषकः-षिका, वेषकः-षिका, 6 विविक्षकः-क्षिका, वेविषकः-षिका;
  • वेष्टा-ष्ट्री, वेषयिता-त्री, विविक्षिता-त्री, वेविषिता-त्री;
  • 7 वेविषत्-ती, वेषयन्-न्ती, विविक्षन्-न्ती;
  • -- वेक्ष्यन्-न्ती-ती, वेषयिष्यन्-न्ती-ती, विविक्षिष्यन्-न्ती-ती;
  • -- वेविषाणः, वेषयमाणः, विविक्षमाणः, वेविषमाणः;
  • वेक्ष्यमाणः, वेषयिष्यमाणः, विविक्षिष्यमाणः, वेविषिष्यमाणः;
  • विट्-विषौ-विषः, वेट्-वेषौ-वेषः;
  • -- -- विष्टम्-विष्टः-विष्टवान्, 8 आविष्टलिङ्गम्, वेषितम्-तः, विविक्षितः, वेविषितः-तवान्;
  • इत्यादिकानि रूपाणि सर्वाण्यपि जौहोत्यादिकणिजिर्धातुवत् 9 ऊह्यानि।
  • 10 विष्टिः, 11 विष्णुः, 12 वेष्पम्, 13 वैष्ट्रः, 14 विषम्।
  • इमानि औणादिकनिष्पन्न- रूपाणीति ज्ञेयानि।
  • 15 विषयम् = आवरणम्।
  • विषयो = देशः।
  • 16

प्रासङ्गिक्यः

  • (१६१५)
  • (३-जुहोत्यादिः-१०९५। अक। अनि। उभ।)
  • (श्लो। १७४)
  • (२-५५)
  • [पृष्ठम्१२४३+ २८]
  • १। सन्नन्तात् ण्वुलि, ‘हलन्ताच्च’ (१-२-१०) इति सनः कित्त्वे ‘षढोः कः सि’ (८-२-४१) इति षकारस्य ककारे ‘इण्कोः’ (८-३-५७) इति सकारस्य षत्वे च रूपमेवम्। एवं सन्नन्ते सर्वत्र ज्ञेयम्।
  • २। ‘जुहोत्यादिभ्यः--’ (२-४-७५) इति श्लौ, ‘श्लौ’ (६-१-१०) इति द्वित्वे, ‘निजां त्रयाणां गुणः श्लौ’ (७-४-७५) इति अभ्यासस्य गुणे, ‘नाभ्यस्ताच्छतुः’ (७-१-८०) इति नुम्निषेधे च रूपमेवम्। एवं वेविषाणः इत्यत्रापि गुणो ज्ञेयः। अनिट्कारिकायां विषिग्रहणेन जौहोत्यादिकोऽयं गृह्यते इति न्यासे।
  • ३। ‘आविष्टलिङ्गा जातिर्यल्लिङ्गमुपादाय प्रवर्तते उत्पत्तिप्रभृति आविनाशान्न तं लिङ्गं जहाति’ इति महाभाष्यवचनं (१-२-५२) अत्र द्रष्टव्यम्।
  • (६७३)
  • ४। ‘क्तिच्क्तौ च संज्ञायाम्’ (३-३-१७४) इति संज्ञायां क्तिच्।
  • ५। ‘विषेः किच्च’ (द। उ। १-१४९) इति णुप्रत्ययः किच्च भवति। वेवेष्टि कृत्स्नमिति विष्णुः = सर्वव्यापी भगवान्।
  • ६। ‘पानीविषिभ्यः पः’ (द। उ। ७-२) इति पप्रत्यये रूपम्। वेष्पम् = परमात्मा।
  • ७। औणादिके (द। उ। ८-८०) ष्ट्रन्प्रत्यये रूपमेवम्। वैष्ट्रः = विष्णुः वायुश्च इति।
  • ८। व्याप्तिकर्मणि गम्यमाने औणादिकः (द। उ। ९। २०) कन्प्रत्ययो भवति। विषम् = प्राणहरद्रव्यम् इत्यर्थः। जलार्थको विषशब्दो वेदे प्रयुज्यते। द्रष्टव्या निघण्टुः (१-१२)।
  • ९। बाहुलकात् औणादिके (द। उ। १-१२) कयन्प्रत्यये रूपमेवम्।
  • [पृष्ठम्१२४४+ ३१]



Correction: