वृषोदर
वृष्ट
वृष्
वृष शक्तिबन्धने
गणः- चुरादिः
कर्मकः-सकर्मकः
इट्-सेट्
पदम्-आत्मनेपदम्
कर्तरि लटि- वर्षयते
अर्थ−
१. गर्भवती हुनु, गर्भिणी हुनु,
२. अमानवीय पराक्रमयुक्त हुनु, अमानवीय पराक्रम गर्नु, पराक्रमी हुनु,,
३. प्रजा उत्पन्न गर्न समर्थ हुनु ।
कृदन्तरूपमाला
- 1“वृष शक्तिबन्धने” 2 आकुस्मीयः।
- ‘शक्तौ वर्षयते, सेके वर्षेत्, स्नेहे तु वर्षते।।’ 3 इति देवः।
- ‘-- शक्तिबन्धनम् = प्रजननसामर्थ्यम्’ इति क्षीरस्वामी।
- धातुवृत्तौ केशवस्वामिनाम्नोद्ध्रियतेऽयं पाठः।
- ‘--शक्तिसंबन्धने’ इति मैत्रेयः।
- ‘धृष--’ इत्येके।
- वर्षकः-र्षिका, विवर्षयिषकः-षिका;
- वर्षयिता-त्री, विवर्षयिषिता-त्री;
- इत्यादिकानि रूपाणि सर्वाण्यपि चौरादिकचर्चयतिवत् 4 विशेषरूपाणि विना ज्ञेयानि।
- 5
प्रासङ्गिक्यः
वृषु सेचनहिंसासङ्क्लेशनेषु
गणः- भ्वादिः
कर्मकः-सकर्मकः
इट्-सेट्
पदम्-परस्मैपदम्
कर्तरि लटि- वर्षति
अर्थ−
१. वर्षनु, सेचन गर्नु, प्रोक्षण गर्नु, छ्याप्नु,
२. मार्नु, सताउनु,
३. दुःख दिनु ।
कृदन्तरूपमाला
- 1“वृषु सेचने” 2 3 अयं धातुः सकर्मकः।
- कर्मणः प्रसिद्धत्वात्तु न प्रयुज्यते।
- यथा ‘मेघो वर्षति’ इत्यत्र अनुक्तमपि जलरूपं कर्म गम्यते।
- यदि जलातिरिक्तं कर्म स्यात्;
- तदा प्रयुज्यते कर्म ‘पार्थः शरान् वर्षति’ इति। ‘… सेके वर्षेत्, स्नेहे तु वर्षते।।’ 4 इति देवः।
- ‘-- हिंसासंक्लेशनयोः’ इति धातुवृत्तिः।
- वर्षकः-र्षिका, वर्षकः-र्षिका, विवर्षिषकः-षिका, वरीवृषकः-षिका;
- वर्षिता-त्री, वर्षयिता-त्री, विवर्षिषिता-त्री, वरीवृषिता-त्री;
- इत्यादिकानि रूपाणि सर्वाण्यपि भौवादिकपर्षतिवत् 5 ज्ञेयानि।
- 6 वर्षम्, 7 वृषः, 8 प्रवर्षुकः 9, 10 प्रावृट्-उपावृट्-वृषौ-वृषः, 11 वृष्यम् 12 -वर्ष्यम्, 13 वर्षणम्, वृष्ट्वा-वर्षित्वा, 14 वृष्टिः, 15 वृषणः, 16 इति निप्रत्ययः किच्च भवति।
- तेन रूपमेवम्।
- वर्षतीति वृष्णिः = वसुदेववंशः, मेघो वा। वृष्णिः, 17 इति कनिन्प्रत्यये रूपमेवम्।
- वृषा = महेन्द्रः वृषभश्च।
- महेन्द्राद्रिः, नभश्च इति केचित्। वृषा, 18 19 वृषभः, 20 वृषलः, वृष्टो देवः, इमानि विशेषरूपाणि।
प्रासङ्गिक्यः