संस्कृत-शब्दकोशः

वृषोदर वृष्ट

वृष्

वृष शक्तिबन्धने


गणः- चुरादिः
कर्मकः-सकर्मकः
इट्-सेट्
पदम्-आत्मनेपदम्
कर्तरि लटि- वर्षयते

अर्थ−
१. गर्भवती हुनु, गर्भिणी हुनु,
२. अमानवीय पराक्रमयुक्त हुनु, अमानवीय पराक्रम गर्नु, पराक्रमी हुनु,,
३. प्रजा उत्पन्न गर्न समर्थ हुनु ।

कृदन्तरूपमाला

  • 1“वृष शक्तिबन्धने” 2 आकुस्मीयः।
  • ‘शक्तौ वर्षयते, सेके वर्षेत्, स्नेहे तु वर्षते।।’ 3 इति देवः।
  • ‘-- शक्तिबन्धनम् = प्रजननसामर्थ्यम्’ इति क्षीरस्वामी।
  • धातुवृत्तौ केशवस्वामिनाम्नोद्ध्रियतेऽयं पाठः।
  • ‘--शक्तिसंबन्धने’ इति मैत्रेयः।
  • ‘धृष--’ इत्येके।
  • वर्षकः-र्षिका, विवर्षयिषकः-षिका;
  • वर्षयिता-त्री, विवर्षयिषिता-त्री;
  • इत्यादिकानि रूपाणि सर्वाण्यपि चौरादिकचर्चयतिवत् 4 विशेषरूपाणि विना ज्ञेयानि।
  • 5

प्रासङ्गिक्यः

  • (१६३५)
  • (१०-चुरादिः-१७०५। सक। सेट्। आत्म।)
  • (श्लो। १७६)
  • (५०७)
  • [पृष्ठम्१२६०+ ३०]


वृषु सेचनहिंसासङ्क्लेशनेषु


गणः- भ्वादिः
कर्मकः-सकर्मकः
इट्-सेट्
पदम्-परस्मैपदम्
कर्तरि लटि- वर्षति

अर्थ−
१. वर्षनु, सेचन गर्नु, प्रोक्षण गर्नु, छ्याप्नु,
२. मार्नु, सताउनु,
३. दुःख दिनु ।

कृदन्तरूपमाला

  • 1“वृषु सेचने” 2 3 अयं धातुः सकर्मकः।
  • कर्मणः प्रसिद्धत्वात्तु न प्रयुज्यते।
  • यथा ‘मेघो वर्षति’ इत्यत्र अनुक्तमपि जलरूपं कर्म गम्यते।
  • यदि जलातिरिक्तं कर्म स्यात्;
  • तदा प्रयुज्यते कर्म ‘पार्थः शरान् वर्षति’ इति। ‘… सेके वर्षेत्, स्नेहे तु वर्षते।।’ 4 इति देवः।
  • ‘-- हिंसासंक्लेशनयोः’ इति धातुवृत्तिः।
  • वर्षकः-र्षिका, वर्षकः-र्षिका, विवर्षिषकः-षिका, वरीवृषकः-षिका;
  • वर्षिता-त्री, वर्षयिता-त्री, विवर्षिषिता-त्री, वरीवृषिता-त्री;
  • इत्यादिकानि रूपाणि सर्वाण्यपि भौवादिकपर्षतिवत् 5 ज्ञेयानि।
  • 6 वर्षम्, 7 वृषः, 8 प्रवर्षुकः 9, 10 प्रावृट्-उपावृट्-वृषौ-वृषः, 11 वृष्यम् 12 -वर्ष्यम्, 13 वर्षणम्, वृष्ट्वा-वर्षित्वा, 14 वृष्टिः, 15 वृषणः, 16 इति निप्रत्ययः किच्च भवति।
  • तेन रूपमेवम्।
  • वर्षतीति वृष्णिः = वसुदेववंशः, मेघो वा। वृष्णिः, 17 इति कनिन्प्रत्यये रूपमेवम्।
  • वृषा = महेन्द्रः वृषभश्च।
  • महेन्द्राद्रिः, नभश्च इति केचित्। वृषा, 18 19 वृषभः, 20 वृषलः, वृष्टो देवः, इमानि विशेषरूपाणि।

प्रासङ्गिक्यः

  • (१६३६)
  • (१-भ्वादिः-७०६। सक। सेट्। पर।)
  • [अ]
  • (श्लो। १७६)
  • (१०५४)
  • १। वर्षतीति--वर्षम्। ‘अज्विधौ भयादीनामुपसंख्यानं नपुंसके क्तादिनिवृत्त्यर्थम्’ (वा। ३-३-५६) इति अच्प्रत्ययः। वर्षा = ऋतुः। “अजन्तस्य पुंस्त्वं प्रायिकम्। ‘वर्षोऽस्त्री’ इति दर्शनाद् घञपि” इति प्र। सर्वस्वे।
  • २। ‘इगुपधज्ञा--’ (३-१-१३५) इति कर्तरि कप्रत्ययः।
  • ३। ‘लषपतपदस्थाभूवृष--’ (३-२-१५४) इति तच्छीलादिषु कर्तृषु उकञ्प्रत्यये रूपमेवम्। प्रवर्षुकः = पर्जन्यः।
  • आ। ‘जग्मुः प्रसादं द्विजमानसानि द्यौर्वर्षुका पुष्पचयं बभूव।’ भ। का। २-३७।
  • ४। सम्पदादित्वात् स्त्रियां क्विप्प्रत्यये संहितायां विषये ‘नहिवृतिवृषि--’ (६-३-११६) इति उपसर्गस्य दीर्घः।
  • ५। ऋदुपधत्वान्नित्ये क्यपि प्राप्ते ‘विभाषा कृवृषोः’ (३-१-१२०) इति विकल्पेन क्यप्प्रत्ययः। तेन रूपद्वयं बोध्यम्। वृषाय हितम् इत्येतस्मिन् तद्धितार्थे ‘खलय- वमाषतिलवृष--’ (५-१-७) इति यत्प्रत्ययः।
  • B। ‘धर्मकृत्यरतां नित्यमवृष्यफलभोजनाम्।’ भ। का। ६-६३।
  • ६। ‘वृषभो वर्षणात्’ (पस्पशायां महाभाष्ये १-१-१) इति भाष्यकारप्रयोगात् ल्युडपि भवति। नपुंसके क्तप्रत्ययस्य पाक्षिकोऽपवादोऽयम्।
  • ७। ‘तितुत्र--’ (७-२-९) इति निषेधात् इडागमो न भवति।
  • ८। बाहुलकात् औणादिके क्युन्प्रत्यये, णत्वे च रूपमेवम्।
  • ९। ‘सृवृषिभ्यां कित्’ [द। उ। १-१९]
  • १०। ‘कनिन् युवृषि--’ [द। उ। ६-५१]
  • [पृष्ठम्१२६१+ २६]
  • १। ‘ऋषिवृषिभ्यां कित्’ (द। उ। ७-१९) इत्यभच्प्रत्यये रूपमेवम्। वृषभः = गोपतिः, युवा वा। वायुः इति केचित्।
  • २। ‘वृषादिभ्यश्चित्’ (द। उ। ८-१०९) इति कलप्रत्ययः। वृषलः = शूद्रः।



Correction: